________________
सादर्श:
[ आख्यातप्रकरणे कान्वयबोधपरधातूत्तरयकोऽसाधुत्वादेव प्रामाणिकानां न तथाप्रयोगः । 'करणं चैत्रः' इत्यादौ चैत्रादौ धात्वर्थकृतेराश्रयतासंबन्धेनाऽन्वयबोधवारणाय तादृशकार्यकारणभावकल्पनमित्यपिन- ताशाऽन्वयबोधे आख्यातान्तधातुनामस
मभिव्याहारज्ञानहेतुतयैवोक्तस्थले तादृशबोधवारण संभवात् ।
( ५६८ )
दीधितिकृतस्तु - ' गच्छति जानाति करोति' इत्यादावाख्यातस्याश्रयत्वे निरूढलक्षणायाः स्वीकारान्न नामायें क्रियायाः साक्षादन्वय इत्याहुः । तन्मते यद्यप्याश्रयत्व संबन्धस्याधिकस्य ' जानाति चैत्र: ' इत्यादिवाक्यजन्यबोधविषयता कल्पनेन गौरवं तथापि यत्र ज्ञाधातोर्ज्ञानाद्याश्रयत्वे लक्षणाग्रहः शक्तिभ्रमो वा तत्र चैत्रादिविशेष्यको ज्ञानाद्याश्रयत्वप्रकारको बोध आश्रवतायाः संसर्गतावादिनामप्यनुमतः । चैत्रादिविशेष्यकाश्रयतासंसर्गकज्ञानादिप्रकार कशाब्द
1
“
74
"
८
हं- कर्तृविशेष्यकेति कर्तृविशेष्यकबोधविवक्षायां शप् भवति न तु यगिति हेतोः प्रामाणिकास्तथा='क्रियते चैत्रः' इति प्रयोगं न कुर्वन्तीत्यर्थः । चैत्रस्य कर्मत्वविवक्षायां तु ' क्रियते चैत्रः " इति प्रयोग: साधुरेव । पुनराशङ्कते - करणमिति, कृतिप्रकारकान्वयबोधं प्रति प्रत्ययजन्यविशेष्योपस्थितेः कारणत्वे तु करणं चैत्रः ' इत्यत्र चैत्रस्य प्रत्ययेनोपस्थितेरभावान्नाश्रयतासंबन्धेन कृतेश्वत्रेऽन्वयापत्तिरित्यर्थः । परिहरति-नेति । तादृशाऽन्वयबोधे-कृतिप्रकारकप्रातिपदिकार्थविशेष्यकशाब्दबोधं प्रत्याख्यातान्तधातुनाम्नोः समभिव्याहारज्ञानस्य हेतुतास्ति. उक्तस्थले' करणं चैत्र: ' इत्यत्र चाख्यातान्तधातुसमभिव्याहारस्याभावात् तादृशबोधस्य = कृति - प्रकारक चैत्रविशेष्यक बोधस्य वारणं संभवतीति न खदुक्तप्रत्ययजन्यविशेष्योपस्थितेः कारणत्वकल्पनावश्यकतेत्यर्थः ।
,
दीधितिकारमतमाह - दीधितीति । गच्छति' रथो गच्छति ' इत्यत्र गमनस्याश्रयत्वे आश्रयत्वस्य च स्वरूपसंबन्धेन रथेऽन्वयः । एवम् ' जानाति' इत्यत्राश्रयत्वे ज्ञान, 'करोति' इत्यत्राश्रयत्वे कृतेरन्वयस्तादृशाश्रयत्वस्य च चैत्रादान्वय इत्यर्थः । नेति धात्वर्थक्रियाया - sana एव साक्षादन्वयो न तु चैत्रादिनामार्थे इत्यर्थः । दीधितिकारमतमालोचयतितन्मते इत्यादिना ' जानाति चैत्रः इत्यत्राश्रयत्वस्याख्यातार्थत्वे आख्यातार्थत्वन प्रकारीभूततादृशाश्रयत्वस्य चैत्रे स्वरूपसंबन्धेनान्वयः स्यादिति तस्याश्रयत्वसंबन्धस्यापि शब्दबोधविषयत्वाक्त्या गौरवम्, एतद्गौरवमाश्रयत्वस्य संसर्गतावादे यद्यपि नास्ति तथापि ज्ञाधातोर्ज्ञानाश्रयत्वे लक्षण शक्तिभ्रमे वा चैत्रविशेष्यकज्ञानाश्रयत्वप्रकारकत्रोध याऽऽश्रत्व सर्ग नावादिमापि स्वीकार्यत्वादाश्रयत्व संबन्धस्याधिकस्य शाब्दबोधविषयत्वापत्तिरस्त्येोति न दाघितिकृन्मते प्राप्तं गौरवमाश्रयत्वे आख्यातलक्षणास्वीकारे बाधकं संभवतीत्यर्थः । ज्ञानस्याश्रयता संबवेन चैत्रादावन्वयस्तु दीधितिकारमते कचिदपि प्रसिद्धो नास्ति - आश्रयत्वम्या गतार्थत्वेन प्रकारत्वस्वीकारात् तथा च तथाविधशाब्दबोधाङ्गीकर्तुः = चैत्रादिविशे० का स्वसंसगर्कज्ञा
"Aho Shrutgyanam"