________________
आख्यातार्थविचारः] व्युत्पत्तिवादः।
(५६९) बोधस्तु दीधितिकारमते कचिदपि न प्रसिध्यतीति तादृशशाब्दबोधे योग्यताज्ञानादेहेतुताकल्पनं तथाविधशाब्दबोधाङ्गीकर्तुमणिकारस्य मते आवश्यकमिति गौरवम् ।
वस्तुतस्तु- 'चैत्रेण ज्ञायते घटः ' इत्यादौ कर्मप्रत्ययस्थले यावतां पदार्थानां प्रकारता तावताम् ' चैत्रो जानाति घटम् ' इत्यादिकर्तृप्रत्ययस्थले तथात्वं परं तु विशेष्यविशेषणभाववपरीत्यम्, एवं कर्मप्रत्ययस्थले यस्य ससंबन्धिकपदार्थस्य यदंशे विशेष्यता कर्तृप्रत्ययस्थले तन्निरूपकतायास्तदंशे प्रकारतेत्यनुभवस्य दुरपहवत्वाभिप्रायेणाऽऽश्रयत्वस्याख्यातार्थतां दीधितिकार उररीचकार । * चैत्रेण ज्ञायते' इत्यत्राधेयत्वरूपतृतीयार्थस्य चैत्रविशेष्यत्वात् 'चैत्रो जानाति' इत्यत्राधेयतानिरूपकत्वरूपाधारतायाश्चैत्रांशेऽप्रकारत्वे तादृशानुभवविरोधात् । नादिप्रकारकशाब्दबोधाङ्गीकर्तुर्मणिकारस्य मते तादृशशाब्दबोधे चैत्रादिविशेष्यकाश्रयत्वसंसर्गकज्ञानादिप्रकारकशाब्दबोधं प्रति तादृशयोग्यताज्ञानादेरऽवश्थं हेतुत्वं कल्पनीयमिति तादृशहेतुत्वकल्पनेन गौरवमित्यर्थः ।। - आश्रयत्वस्याख्यातार्थतास्वीकारस्य दीधितिकाराभिप्रायमुद्घाटयति-- वस्तुतस्त्वित्यादिना । यावतामिति-- ' चैत्रण ज्ञायते घटः ' इत्यत्र 'चैत्रवृत्तिर्या ज्ञानाश्रयता तन्निरूपकं यज्ञानं तद्विषया घटः' इतिबोधोदयाचैत्रज्ञानाश्रयतानां प्रकारत्वमस्तीति कर्तृप्रत्ययस्थलेपि तावा पदार्थानां तथात्वम्-प्रकारत्वं भवत्येव न तु संसर्गत्वं किं तु विशेष्यविशेषणभावे चैपरीत्यं भवति यथा कर्मप्रत्ययस्थले चैत्र आश्रयतायामाश्रयता ज्ञाने ज्ञानं च घटे विशेषणं भवति कर्तृप्रत्ययस्थले च 'घटविषयकज्ञानाश्रयतावांश्चैत्रः । इतिबोधोदयाद् घटो ज्ञाने ज्ञानमाश्रयतायामाश्रयता च चैत्रे विशेषण भवतीति कर्मप्रत्ययस्थले ज्ञाने विशेषणतां याश्रयता प्राप्ता सा कर्तृप्रत्ययस्थले ज्ञानविशेष्यतां प्राप्तेति विशेष्यविशेषणभावमात्रवैपरीत्यमस्ति प्रकारत्वं तूभयत्र तुल्यमेवेत्यनुभवेन दीधितिकार आश्रयत्वस्याख्यातार्थता स्त्रीकरोति । हेत्वन्तरमाह- एवमिति । ज्ञानमाश्रयत्वादिकं च किंचिन्निरूपितमेव भवतीति ज्ञानादयः पदार्थाः ससंबन्धिका एव तथा च ' चैत्रेण ज्ञायते घटः' इतिकर्मप्रत्ययस्थले यस्य-तृतीयार्थभूतवृत्तित्वरूपाधेयत्वस्य यदंशे-चैत्रांश विशेष्यतास्ति 'चैत्रो जानाति घटम् ' इतिकर्तप्रत्ययस्थले तदंशे चैत्रांशे तन्निरूपकताया:आधेयत्वनिरूपकताया: आधेयत्वनिरूपकत्वरूपमेवाधारत्वं :भवतीत्याधेयत्वनिरूपकत्वरूपाधारतायाः प्रकारत्वं भवत्येव तनिरूपकताया अप्रकारत्वे उक्तानुभवविरोधादिति 'जानाति' इत्यत्राधारतायाः प्रकारत्वं प्राप्तम्. आधारत्वं चाश्रयत्वमेव प्रकारत्वं च पदेनोपस्थितस्यैव भवतीति स्तदुपस्थित्यर्थमाश्रयत्वस्याख्यातार्थतां दीधितिकारः स्वीकरोतीत्यभिप्रायः । स्वयमेवोक्तमुदा. हरति- चैत्रेणेति । अत्र प्रकारता विशेष्यविशेषणोभयसाधारणा संसर्गताविरुद्धा पदेनोपस्थितल्वेन रूपेण विषयतारूपा ग्राह्या एतद्विषयस्याने " संसर्ग एव न तु विशेष्यम् " इत्यनेन विशेव्यत्वेनाभिमताधेयत्वस्य संसर्गत्वशङकया स्पष्टत्वात् ।
"Aho Shrutgyanam"