________________
(५७०)
सादर्श:
[ आख्यातप्रकरणे. न च ' चैत्रेण ज्ञायते ' इत्यत्राप्याधेयत्वं संसर्ग एव न तु विशेष्यमितिवाच्यम्, तथा सति 'आत्मना ज्ञायते न घटेन ' इत्यादौ घटादिवृत्तित्वाभाव. बोधानुपपत्तेः- आधेपत्वस्य तृतीयार्थताविरहेण तृतीयान्ताद् घटादिवृत्तित्वरूपप्रतियोग्यनुपस्थितेः, आधेयत्वसंबन्धस्याभावप्रतियोगितानवच्छेदकतया च तत्संबन्धावच्छिन्नघटाभावबोधस्य तत्रोपगमासंभवात् । तादृशसंबन्धस्याभावप्रतियोगितावच्छेदकत्वे ' ज्ञाने न घटः' इत्यादिवाक्यजन्यप्रत्यये ज्ञानाधिकरणकतादृशसंबन्धावच्छिन्नघटाद्यभावस्याप्यवगाहनसंभवाद् घटे ज्ञानं न वा' इत्यादिसंशयनिराप्ताय कदाचित् ‘ज्ञान न घटः' इत्यादिकमपि प्रयुज्येत । अत एवानुकूल कृतिमत्त्वादिरूपकर्तृत्वादेरपि चैत्र: पचति' इत्यादौ प्रकारता मणिकृतापि स्वीक्रियते न तु संसर्गता- “ न पचति ' इत्यादावन्वयबोधाऽनिहिाद. तादृशंसंबन्धस्य वृत्यनियामकतयाऽभावप्रतियोगितानवच्छेदकत्वेन तत्संबन्धावच्छिन्नक्रियाविरहप्रत्ययस्य तत्रोपगमासंभवात् । . यदुक्तम् “ आधेयत्वरूपतृतीयार्थस्य चैत्रविशेष्यत्वात्" इति तत्राशङ्कते- न चेति । परिहारमाह- तथेति । तथा सति आधेयत्वस्य संसर्गत्वोपगमे सति । 'न घटेन ज्ञायते' इत्यत्राधेयत्वस्य तृतीयार्थत्वे तु ' घटेन । इतितृतीयान्ताद् घटवृत्तित्वस्योपस्थितौ सत्यां नत्रा ज्ञाने तदभावबोधनं संभवति. आधेयत्वस्य संसर्गत्वे तु तृतीयार्थत्वं न स्यादिति ज्ञाने घटवृत्तित्वामावबोधनं न संभवतीत्यर्थः । ननु 'आत्मना ज्ञायते न घटेन ' इत्यत्र ज्ञाने आधेयत्वसंबन्धावच्छिन्न प्रतियोगिताकघटाभावं वक्ष्यामस्तथा च नोक्तानुपपत्तिः- घटस्य घटपदेनोपस्थितत्वान्नमा ज्ञाने तदभावबोधनसंभवादित्याशङ्क्याह- आधेयत्वसंवन्धस्येति । अत्र 'वृत्त्यनियामकत्वेन ' इति शेषः । तत्संबन्धावच्छिन्न आधेयत्वसंबन्धावच्छिन्न । विपक्षे बाधकमाहतादृशेति, वृत्त्यनियामकस्याधेयत्वसंबन्धस्याभावप्रतियोगितावच्छेदकत्वे हि 'ज्ञाने न घटः' इत्यत्र ज्ञाने आधेयतासंबन्धेन घटामावबोधापत्त्या ' घटे ज्ञानं न वा ' इत्याकारकसंशयनिरासाय 'ज्ञाने न घटः' इत्यपि वाक्यं प्रयुज्येत तेन च वाक्येन ज्ञाने आधेयतासंबन्धेन घटाभावबोधोत्पत्त्या 'घटे ज्ञानं न वा । इतिसंशयनिरासोपि स्यादेव न चैवमस्ति नापि ' ज्ञाने न घटः । इति प्रयुज्यते तस्मात् 'चैत्रेण ज्ञायते ' इत्यत्राधेयत्वं चैत्रविशेष्यं तृतीयार्थश्च न तु संसर्ग इत्यर्थः । वृत्त्यनियामकसंबन्धस्याभावप्रतियोगितावच्छेदकत्वं न भवतीत्यत्र मानमाह-अत एवेति, अत एव-वृत्त्यनियामकसंबन्धस्याभावीयप्रतियोगितानवच्छेदकत्वादेव । कर्तरि विद्यमानमनुकूलकृति. मत्त्वमेव कर्तृत्वं तस्य संसर्गत्ये चैत्रः पचति ' इत्यत्र तादृशकर्तृत्वसंबन्धेन चैत्रे क्रियान्वये संभवत्यपि न पचति । इत्यत्र चैत्रे कर्तृत्वसंबन्धावच्छिन्नप्रतियोगिताकक्रियाभावो वक्तव्यः स तु न संभवति कर्तृत्वस्य वृत्त्यनियामकत्वादिति कर्तृत्वस्य प्रकारत्वं स्वीकृतं प्रकारत्वे तु पाककर्तृत्वस्याश्रयतासंबन्धेनामावबोधः संभवत्येव- आश्रयत्वस्य वृत्तिनियामकत्वात, तथा च
"Aho Shrutgyanam"