________________
आख्यातार्थविचारः] व्युत्पत्तिवादः।
(५७१) एवम्- 'चैत्रेण ज्ञायते' इत्यादावाधेयत्वस्य तृतीययाऽविवक्षणे प्रातिपदि. कार्थमात्र विवक्षया तद्विषयानुशिष्टप्रथमैव स्यात् । —जानाति चैत्रः । इत्यादी चाख्यातेन कर्तृत्वाविवक्षणे धात्वर्थरूपभावमात्रपरतया परस्मैपदस्य इनादिविकरणस्य चाऽसाधुतापत्ति:-" भावकर्मणोः" इत्यात्मनेपदविधायकानुशासनविषयत्वात् , “ कर्तरि" इत्यधिकारीयत्र्यादिभ्यः इनेत्यनुशासनाविषयत्वाञ्चेति तत्राख्यातस्य कर्तृत्वबोधकतायुक्तिस्तु न साधीयसी-इतराविशेषणतया क्रियाबोधपरत्वरूपभावविवक्षाया आत्मनेपदानुशासनविषयतोपगमादुक्तस्थले परस्मैपदसाधुतायाः. तादृशभावविवक्षादिविरहस्य श्नाद्यनुशासनविषयत्वोपगमेन इनादिविकरणस्य साधुतायाश्च निर्वाहसंभवात् । कर्तृत्ववदाधेयत्वस्यापि प्रकारत्वमेव युक्तं न संसर्गत्वमित्यर्थः । तादृशसंबन्धस्य अनुकूलकतिमत्त्वरूपकर्तृत्वसंबन्धस्य । - आधेयत्वस्य तृतीयार्थत्वाभावे दोषान्तरमाह- एवमिति, तद्विषयानुशिष्ट प्रातिपदिकार्थमात्रविषयानुशिष्ट । तथा च ' चैत्रो ज्ञायते ' इति स्यात् 'चैत्रेण ज्ञायते ' इति न स्यात्. न चैतदिष्टम् । कर्तृत्वस्याख्यातार्थत्वामावे दोषमाह- जानातीति । अविवक्षणेति- कर्तृत्वस्याख्यातार्थस्वाभावे इत्यर्थः । कर्तृत्वविवक्षायामेव परस्मैपदस्य श्नाप्रत्ययस्य च साधुत्वात् । परस्मैपदस्यासाधुतापत्तौ हेतुमाह- भावकर्मणोरिति । श्नाविकरणस्याऽसाधुतापत्तौ हेतुमाहकर्तरीति । इत्येवमाख्यातस्य कर्तृत्वबोधकतायुक्तिमुक्तामस्वीकुर्वन्नाह- इति तत्राख्यातस्पेति, न साधीयसीति-आख्यातस्य कर्तृत्वाबोधकत्वेपि यत्र धात्वर्थस्येतरविशेषणत्वं न भवति तत्रात्मनेपदं भवति यथा 'ज्ञायते' इत्यत्र धात्वर्यस्यैव प्रधानत्वात् यत्र चेतरविशेषगत्वं भवति तत्र परस्मैपदं भवति यथा 'जानाति' इत्यत्र धात्वर्थस्य प्रथमान्तार्थे विशेषणत्वादित्येवंयुक्त्या व्यवस्थासभवानोक्ता युक्तिः साधीयसीत्यर्थः। एतदेवोपपादयति- इतरेति । क्रियैव भाव इति क्रियाबोधपरत्वरूपैव भावविवक्षा ज्ञेया सा यत्रेतराऽविशेषणतया भवति तत्रैवात्मनेपदं भवतीत्युक्तस्थले'जानाति चैत्रः । इत्यत्र धातोश्चैत्रविशेषणतयैव क्रियाबोधपरत्वमस्तीत्यात्मनेपदाऽप्राप्त्या परस्मैपदस्य साधुतानिर्वाहः संभवति तथा तादृशमावविवक्षादिविरहस्य इतराविशेषणतया क्रियाबोधपरत्वरूपभावविवक्षा यत्र न भवति तत्र श्नादिविकरणं भवतीति 'जानाति । इत्यत्र धात्वर्थज्ञानस्य चैत्रे विशेषणत्वादितराविशेषणतया धातोः क्रियाबोधपरत्वं नास्तीति श्नादिविकरणस्य साधुतानिर्वाहः संभवत्येवेत्यर्थः । यद्याख्यातस्थ · कर्तृत्ववाचकत्वं विना ' जानाति , इत्यादौ परस्मैपदस्य साधुत्वं नोपपद्येत तदा परस्मैपदसाधुरवार्थमाख्यातस्य कर्तृत्ववाचकत्वमुक्तयुक्त्या प्राप्नुयात. उक्तयुक्तेश्च साधीयसीत्वं स्यादपि न चैवमस्ति- आख्यातस्य कर्तृत्वाऽवाचकत्वेपि मदुक्तयुक्त्या परस्मैपदनादिविकरणयोः ' जानाति । इत्यादौ साधुत्वसंमवादित्याक्षेपाभिप्रायः । तस्मात्-- 'जानाति । इत्यत्र नाख्यातस्य कर्तृत्ववाचकत्वं किं त्वाश्रयस्वार्थकत्वमेव पूर्वोक्तं विज्ञेयम् ।
"Aho Shrutgyanam"