________________
(५७२)
सादर्श:
[ आख्यातप्रकरणे* पचन् : पचति ' इत्यादाविवोद्देश्यतावच्छेदकविधेयाऽभेदेन ' जानन् जानाति' इत्यादनिराकाङ्क्षतानिर्वाहायापि जानाति 'इत्यादावाख्यातस्याश्रयतार्थकतोपगम आवश्यकः, अन्यथा कृदन्तप्रतिपाद्यतावच्छेदकज्ञानाश्रयस्वरूपोद्देश्यतावच्छेदकस्य ज्ञानादिरूपविधेयभिन्नतया निराकाङ्क्षताविरहेण तथाप्रयोगापत्तेः । एतेन तत्राश्रयतायाः प्रकारतोपगमे 'जानाति चैत्रः' इत्यादिवाक्यज्ञानघटितशाब्दसामग्र्या भिन्नविषयकप्रत्यक्षादिप्रतिबन्धकतायामाख्यातजन्याश्रयत्वोपस्थित्यादिरूपाधिककारणानां निवेशे गौरवेणाश्रयतायाः संसर्गत्वमेवोचिसमित्यादिकमनुपादेयम् ।
'नश्यति' इत्यादौ प्रतियोगित्वरूपकर्तृत्वमाख्यातार्थः, तादृशसंबन्धस्य 'जानाति ' इत्यत्राख्यातस्याश्रयत्वार्थकत्वे उपपत्तिमाह- पचन्निति, ‘पचन् पचति । इति प्रयोगो न भवति तत्कस्य हेतोः ? 'पचन् । इत्यनेन पचन्तमुद्दिश्य पचति । इत्यनेन पाककृतेरेव विधेयत्वात् पचतश्चोद्देश्यत्वे उद्देश्यतावच्छेदकं पाककृतिरेव स्यात् तत्र चोद्देश्यतावच्छेदकविधेययोरभेदः प्राप्तस्तत्र च शाब्दबोधस्यानिष्टत्वादित्यर्थः । अभेदेनेति-उद्देश्यतावच्छे. दकविधेययोरभेदेन निराकाङ्क्षतानिर्वाहायेत्यर्थः । एवं ' जानन् जानाति , इत्यस्य निराकाक्षतानिहाय-शाब्दबोधानुपयुक्तत्वनिर्वाहाय 'जानाति ' इत्यत्राख्यातस्याश्रयत्वार्थकत्वं स्वीकार्य तथा च 'जानन् । इत्यनेन ज्ञानाश्रयमुद्दिश्य 'जानाति । इत्यनेन ज्ञानाश्रयत्वं विधेयं ज्ञानाश्रयस्य चोद्देश्यत्वे ज्ञानाश्रयत्वमेवोद्देश्यतावच्छेदकं स्यात्तत्रोद्देश्यतावच्छेदकविधेयघोरक्यापत्त्या शाब्दबोधस्यानिष्टत्वात् 'जानन् जानाति , इतिप्रयोगापत्तिर्नास्तीत्यर्थः । विपक्षे बाधकमाह- अन्यथेति, अन्यथा यदि 'जानाति' इत्यत्राख्यातस्याश्रयत्वार्थकत्वं न स्यात्तदा 'जानन् ' इत्यत्रोद्देश्यतावच्छेदकं तु कृदन्तं यत् — जानन् ' इतिपदं तत्प्रतिपाद्यो यो ज्ञानाश्रयस्तन्निष्ठप्रतिपाद्यताया अवच्छेदकं ज्ञानाश्रयत्वं ' जानाति ' इत्यनेन ज्ञानाश्रयत्वस्य विधेयत्वाभावे ज्ञानमेव विधेयं स्यात् तत्र ज्ञानाश्रयत्वज्ञानयोरुद्देश्यतावच्छेदकविधेययो. र्भेदापत्त्या शाब्दबोधसंभवेन साकाङ्क्षत्वापत्त्या 'जानन् जानाति ' इति प्रयोगः स्यादेव. न चैतादष्टमित्यत्राख्यातस्याश्रयत्वार्थकत्वमावश्यकमित्यर्थः । एतेनेति- प्रकारत्वं पदेनोपस्थित. स्यैव भवतीति प्रकारत्वात् प्रतिबन्धककोटिप्रविष्टाश्रयताया अव्याख्यातेनोपस्थित्यपेक्षा स्यात् प्रतिबन्धकत्वकल्पना च स्था'दत्यर्थः । अनुपादेयमिति-यद्याश्रयत्वस्य संसर्गत्वं स्यान्न त्वाख्या. तबोध्यत्वं तदोक्तरीत्या 'जानन् जानाति ' इत्यपि प्रयोगः स्यादेव न चैतदिष्टमित्याश्रयत्व. स्याख्यातवोध्यत्वमेव स्वीकार्य न संसर्गत्वमित्यर्थः । ___ नश्यतीति- अत्र नाशपतियोगित्वमेव कर्तृत्वं तदप्याख्यातार्थ एव न संसर्ग इत्यर्थः । उक्तमुपपादयति-तादृशेति, ताशसंबन्धस्य प्रतियोगित्वरूपकर्तृत्वरूपसंबन्धस्याऽभावीयप्रतियोगितानवच्छेदकत्वेन — न नश्यति ' इत्यत्र प्रतियोगित्वरूपकर्तृत्वसंबन्धावच्छिन्नप्रतियोगि
"Aho Shrutgyanam"