________________
कर्तृत्वशक्ततावच्छेदकविचारः] व्युत्पतिवादः।
(१७३) वृत्त्यनियामकतयाऽभावप्रतियोगितानवच्छेदकत्वेन न नश्यति' इत्यादौ नाशनतियोगित्वाभावबोधस्यैव स्वीकरणीयतया न संसर्गतासंभवः ।
अथाख्यातस्य कर्तृत्वशक्ततावच्छेदकं रूपं दुर्वचम् । न च तिस्त्वं तथा-- तिप्तसादिसाधारणतिङ्त्वस्य दुर्वचत्वात् । न च पाणिनीयसंकेतसंबन्धेन तिङ्पदवत्वमेव तिङ्त्वं. तिवाद्यष्टादशसु तत्पदसंकेतग्राहकं च " आदिरन्त्येन" इतिसूत्रमेव तत्संकेतमविदुषामनधीतपाणिनीयतन्त्राणां तिप्त्वादिना शक्तिभ्र. मादेव शाब्दबोध इति वाच्यम्, एवं सति घटादिवाचकघटादिपदेष्वपि कस्यचिच्छब्दस्य पुरुषविशेषीयसंकेतसंभवेन तुल्ययुक्त्या तत्रापि तच्छब्दस्यैव शक्ततावच्छेदकतापत्या तिबादिषु पाणिनेस्तिङ्पदसंकेतवत् तत्र शब्दान्तरसंकेतस्याप्यन्यपुरुषीयस्थ संभवात् तत्तच्छब्दानामपि प्रवृत्तिनिमित्ततायाः सुवचत्वाद् विनिगमनानुपपत्तेः । ताकनाशाभावस्य घटादौ ना बोधनासंभवाद् नाशप्रतियोगित्वाभावस्यैव नत्रा बोधः स्वीकर्तव्य इति न प्रतियोगित्वरूपकर्तत्वस्यापि संसर्गत्वं संभवति. किं तु प्रकारत्वमेव तेन चाख्यातार्थवं प्राप्तमित्यर्थः ।
उक्तकमेणाख्यातस्य कर्तृत्वे शक्तिरिति ज्ञाते संप्रति शक्ततावच्छेदकज्ञानार्थमाशङ्कते-अथेति, आरूपाते कर्तृत्वनिरूपिता या शक्तता सा केन रूपेणास्तीति जिज्ञासास्ति । न चेति, तथा कर्तृत्वशक्ततावच्छेदकम् । दुर्वचत्वादिति- तिप्तसाद्यानुपूर्वीगां विभिन्नरूपत्वेन तित्वस्य तत्साधारणत्वाऽसंभवादित्यर्थः। ननु पाणिनिसंकेत आश्रयतासंबन्धेन तिङि संज्ञिनि वर्तत एवेति पाणिनिसंकेतसंबन्धेन तिपदवत्त्वं तिङ्पदबोध्ये तिङि यदस्ति तदेव तिङ्वं ज्ञेयं तिबाधष्टादशसु तत्पदसंकेतप्राहकम्-तिङ्पदसंकेतप्राहक :च “ अन्त्येनेतासहितआदिमध्यगानां स्वस्य च संज्ञा स्यात् " इतिवृत्त्युक्तरीत्या " आदिरन्स्येन " इतिसूत्रमेवेत्यर्थः । नन्वेवं तिपदस्य तिबाद्यष्टादशसु संकेतमस्तीतिज्ञानरहितानामवैयाकरणानां तिङ्पदसंकेतग्रहो न स्यात्तेन च शाब्दबोधानुपपत्तिरित्याशङ्क्याह-- तत्संकेतमविदुषामिति, तेषां तिप्त्वमेव शक्ततावच्छेदकम् 'पचति ' इत्यादौ श्रूयमाणतिप एव कर्तृत्वे शक्तिरिति भ्रमादेव कर्तृत्वविषयकशाब्दबोधो भवतीत्याशङ्क्याह-- न चेति । उत्तरमाह- एवमिति, यदा केनचित् पुंसा मदुक्तपटपदेन त्वया घटपदं ज्ञेयमिति संकेतः कृतस्तदा तत्पुरुषीयसंकेतसंबन्धस्यापि संभवित्वात् तत्पुरुषीयसंकेतसंबन्धेन घटपदस्य पटपदवत्वं प्राप्तमिति तत्र पटपदस्यैव शक्ततावच्छेदकत्वं भवेन्न तु घटपदत्वस्य न चैतदिष्टमित्यर्थः, किं च यथा पाणिनिना तिबादिषु तिपदसंकेतः कृतस्तथान्येन व्याकरणनिर्मात्रा तिबादिषु डिपदसंकेतोपि कर्तुं शक्यते इति तत्संकेतसंबन्धेन डिपदवत्त्वमपि तित्वं स्यादिति तत्तच्छब्दानाम्=पटतिडिङादिशब्दानां शक्ततावच्छेदकतापत्त्या तत्तछब्दानां प्रवृत्तिनिमित्तत्वं स्यादेव न चैतदिष्टम्, तिपदस्यैव प्रवृत्तिनिमित्तत्वं न डिङ्पद
"Aho Shrutgyanam"