________________
(५७४)
सादर्श:
[ आख्यातप्रकरणे अत्र केचित्-तिबादिस्थानिनो लकारस्यैव लत्वजातिपुरस्कारेण कृतिवाचकता, 'पचति' इत्यादी लकाराऽश्रवणेप्याऽऽदेशेन तिबादिना स्थानिनः स्मरणात् तत एवार्थोपस्थितिः। आदेशादेशिभावमविदुषां तु तिप्त्वादिना शक्तिभ्रमादेवार्थोपस्थितिः। यत्र तिबादेलादेशत्वज्ञानं नास्ति श्रुतलकाराचार्थोपस्थितिस्तत्र 'पचति ' इत्यादिवाक्याच्छाब्दबोधवारणाय 'पति' इत्याद्यानुपूर्वीज्ञानजन्यबोधे तिबादेर्लादेशत्वज्ञानमपि हेतुः। न चोक्तस्थले धातुसाकाक्षत्वज्ञाने भवत्येव शाब्दबोधस्तदासत्वे च कारणाभावादेव नापत्तिरिति वाच्यम्, 'पचति' इत्यादौ तिबादिना कारस्योपस्थापनेपि तत्तद्धातुसाकाङ्क्षतया तत्स्मारकाभावेन तच्छाब्दबोधानुपपत्ते:- लकारे धातुसाकाङ्क्षत्वग्रहस्य शाब्दबोधहेतुत्वाऽसंभवात् ।न हि तत्तद्धातुसाकाङ्क्षत्वेन लस्तिबादिस्थानिता येन तद्रूपावच्छिन्नमेव तिवादिः स्येत्यत्र च विनिगमनानुपपत्तिः-विनिगमनाविरह एवेति न तिङ्पदवत्त्वरूपं तित्वं शक्ततावच्छेदकं संभवतीत्यर्थः । .
उक्तशक्ततावच्छेदकनिरूपणे कस्यचिन्मतमनुवदति-अत्रेति । लत्वजातीति-कर्तृत्वशक्ततावच्छेदकं लत्वमेवेत्यर्थः । ननु लत्वस्य शक्ततावच्छेदकस्ये लकारस्यैव कर्तृत्वे शक्तिरिति प्राप्त तथा च — पचति ' इत्यादी कर्तृत्वबोधानुपपत्तिः-लकारस्याऽश्रवणादित्याशङ्क्याह- पचतीति । स्थानिन: लकारस्य । ततः-लकारस्मरणात् । पदज्ञानस्यैवार्थोपस्थितिकारणत्वात् लस्मरणस्यापि ज्ञानरूपत्वात् कर्तृत्वोपस्थापकत्वं युक्तमेवेत्यर्थः । ननु लकारस्य तिबादिरादेशो भवतीति ज्ञाने सति तिबादिना लकारस्मरणं संभवति न त्वादेशादेशिभावज्ञानं विनापीत्यादेशादेशिभावज्ञानशून्यानो तिबादिना लकारस्मरणासंभवात् 'पति' इत्यादौ कर्तृत्वोपस्थितिन स्यादित्याशझ्याह- आदेशेति, आदेशादेशिभावमविदुषां तु तिबादीनामेव कर्तृत्वे शक्तिरिति भ्रमादेव तिबादिना कर्तृत्वोपस्थितिः संभवतीत्यर्थः । यत्रेति-यत्र तिबादेर्लादेशत्वज्ञानं तु नास्ति वाक्यान्तरघटकेन श्रुतेन च लकारेण कर्तृत्वोपस्थितिर्भवति तत्र ‘पचति' इत्यादिवाक्याच्छाब्दबोधवारणाय तिबादेर्लादेशत्वज्ञानमपि हेतुत्वेन स्वीकार्य तथा चोक्तस्थले हेतुभूतस्य तिबादेर्लादेशत्वज्ञानस्याभावादेव न शाब्दबोधापत्तिरित्यर्थः । ननु 'पचति' इत्यादिवाक्यजन्यबोधे तिबादेर्लादेशत्वज्ञानस्य न हेतुत्वं स्वीकार्य किं तु धातुसाकाङ्क्षत्वज्ञानस्यैवान्वयव्यतिरेकाभ्यां हेतुत्वं युक्तं तथा च धातुसाकाङ्क्षत्वाने सति शाब्बोधो भवति धातुसाकाङ्क्षत्वज्ञानाभावे च न भवतीत्याशङ्क्याह- न चेति । तिबादेर्धातुसाकाङ्क्षत्वज्ञानं च धातूत्तरवर्तित्वज्ञानमेवेत्यर्थः । परिहारहेतुमाह- पचतीति, 'पति' इत्यादौ तिबादिना वाऽन्येन वा लकारस्य तत्तद्धातुसाकाङ्क्षवेन रूपेण स्मरणाऽसंभवात् सर्वदेव शाब्दबोधानुपपत्तिः स्यादिति न धातुसाकाङ्क्षत्वज्ञानस्य शाब्दबोधहेतुत्वं संभवतीत्यर्थः । उक्तमेवाऽऽक्षेपेणाह-- न हीति । तद्रूपावच्छिन्नम् धातुसाकाङ्क्षत्वविशिष्टम् । लत्वेनेति- लत्वेनैव रूपेण लकारस्य
"Aho Shrutgyanam"