________________
आत्मनेपदाख्यातार्थनिरूपणम् ] व्युत्पत्तिवादः ।
( ५७५) स्मारयेत्. अपि तु लत्वेनैव तथात्वमिति । एवं तत्तद्धातुपदाव्यवहितोत्तरत्वरूपतत्साकाक्षत्वेन येन पुंसा न लकारः श्रुतस्तस्य तेन रूपेण तत्तत्स्मरणाऽसंभव इति । __ अत्रेदं चिन्त्यते-लकारतिबाधोरनतिप्रसक्तस्थान्यादेशभावस्य दुर्वचत्वात तिबादिस्मारितलकारस्य वाचकत्वं न विचारसहम्, तिबादेरेव यत्र वाचकताभ्रमस्तदनुरोधेन 'पचति' इत्याद्यानुपूर्वीज्ञानस्य तिबादिजन्योपस्थितिसहकारेण शाब्दबोधोपधायकताकल्पनस्यावश्यकत्वात्. लकारजन्योपस्थितिसहकृतवाहशानुपूर्वीज्ञानतिबादिमिकलादेशत्वज्ञानघटितसामध्यन्तरकल्पने गौरवेण लाघवात्तिबादेरेव तादूप्येण शक्तिकल्पनाया उचितत्वं चेति दिक् ।
आख्यातसामान्यस्य कर्तृत्वे इव तद्विशेषस्यात्मनेपदस्य कर्मत्वे शक्तिः, न तु यथाश्रुतग्राहिवैयाकरणमते इव कर्मरूपधर्मिवाचकत्वं गौरवाद, प्रथमातथात्वम्-तिबादिस्थानितास्तीति तिबादिना लकारस्य लत्वेनैव रूपेण स्मरणं संभवति तथ च तिबादेलादेशत्वज्ञानमेव शाब्दबोधकारणं न तु तद्धातुसाकाङ्क्षत्वज्ञानमित्यर्थः । यथानुभवमेव स्मरणनियमोस्तीति पदस्थापि येन रूपेण श्रवणं तेनैव रूपेण स्मरणमपि संभवति लकारे तत्तद्धातुसाकाङ्क्षत्वं च तत्तद्धातुपदाव्यवहितोत्तरत्वमेव तथा च लकारस्य तत्तद्धातुपदाव्यवहितोचरत्वेन श्रवणाभावे तेन रूपेण स्मरणमपि न संभवतीति शाब्दबोधानुपपत्तिरेवेत्याह- एवमिति ।
अत्रेदमिति, अनतिप्रसक्तेति- केनचित् "लट लिट्' इत्यादिस्थाने 'सटू सिटू' इत्यादि यदि पठितं स्यात्तदा सडादीनामपि स्थानित्वं स्यादेव तथा " तिप् तस्" इत्यादिस्थाने 'तिट तः। इत्यादिपाठे तिडादीनामप्यादेशत्वं स्यादेवेत्यनतिप्रसक्तस्य स्थानादेशमावस्य दुर्वचत्वं तथा च तिवादिस्मारेितलकारस्यापि कर्तृत्वादिवाचकस्वापच्या तिबादिस्मारितस्यैव वाचकत्वमिति न संभवतीति प्रयोगे श्रूयमाणतिबादेरेव कर्तृवे शक्तिः स्वीकार्येत्यर्थः । तिबादेः शक्तिमुपपादपति- तिबादेरेवेति, तदनुरोधेन=उक्तवाचकताभ्रमानुरोधेन । तिबादिजन्योपस्थितिसहकारेण तिबादिजन्यकर्तृत्वोपस्थितिसाहाय्येन । उपधायकता जनकता । तव मते 'पचति' इत्यादिवाक्यजन्यबोधं प्रति लकारजन्यकर्तृत्वोपस्थितिसहकृता तथा तादृशानुपूर्वी 'पचति' इत्याद्यानुपूर्वीज्ञानेन तिबादिधर्मिकलादेशत्वज्ञानेन-तिबादौ लादेशत्वज्ञानेन च घटिता या सामग्रीस्तस्याः कारणत्वकल्पने गौरवं स्यादिति लाघवात्तिबादेरेव तादूप्येण तिप्स्वादिरूपेण कर्तृत्वे शक्तिकल्पनमुचितमित्यर्थः । . परस्मैपदाख्यातस्य कर्तृत्वे शक्तिं निरूप्य संप्रत्यात्मनेपदाख्यातस्य कर्मत्वे शक्तिमाह- आख्यातेत्यादिना । ' कुरुते । इत्यादावात्मनेपदस्यापि कर्तृत्वे शक्तिरस्तीति कर्मत्वे शक्तौ यक्सम-. मिव्याहारस्य सहकारित्वं ज्ञेयम् । गौरवादिति- कर्मणि शक्ती शक्यतावच्छेदकं कर्मवं
"Aho Shrutgyanam"