________________
(५७६)
सादर्शन
आख्यातप्रकरणे तपदार्थे कर्मस्वान्वयबलादेव कर्मताविशिष्टर्मिलाभसंभवात् । - न चात्मनेपदस्य शानच्प्रत्ययस्य धर्मिणि शक्तेः ‘पच्यमानमानय ' इत्यादी पच्यमानादिनिष्ठानयनकर्मत्वाद्यनुरोधेनावश्यकत्वात् तत एवोपपत्तावाख्यातरूपात्मनेपदस्य धर्मवाचकत्वं नियुक्तिकमिति वाच्यम्,तशानच्साधारणस्यात्मनेपदत्वस्य शक्ततावच्छेदकत्वे एव तथोक्तिसंभवाद. तादृशात्मनेपदत्वस्य चाऽगुरो. निर्वचनासंभवात्, पाणिन्यादिसंकेतसंबन्धनात्मनेपदवत्त्वस्य शक्ततावच्छेदकताया उक्तरीत्याऽनवकाशात् । अतस्तादीनां तत्तदूपेण शक्तिकल्पनस्यावश्यक तया लाधवात् कर्मत्वे एव तत्कल्पनात् ।
कर्मत्वं च ' त्यज्यते ग्रामः , 'गम्यते ग्रामः' इत्यादौ धात्वर्थतावच्छेदकीभूतसंयोगविभागादिरेव विशेष्यतया तङ्वाच्यः। चैत्रेण गम्यते ग्रामः' तच्च संयोगविभागादिलक्षणफलरूपत्वान्नानैवेति गौरवम्, कर्मत्वे शक्तौ च शक्यतावच्छेदकं. कर्मत्वत्वं तच्चैकमेवेति लाघवम् । ननु कर्मत्वे शक्तौ कर्मपदार्थबोधो न स्यादित्याशङ्क्याहप्रथमान्तेति । उपस्थितकर्मत्वस्य धर्मत्वेन कचिदप्यन्वयोऽवश्यंभावी ति प्रथमान्तपदार्थेन्वयः स्यादेव तेन चान्वयेन कर्मस्वविशिष्टकर्मपदार्थभानं संभवत्येवेत्यर्थः । । ननु 'पच्यमानं तण्डुलमानय' इत्यादौ सामानाधिकरण्यानुरोधात् शानच्प्रत्ययरूपस्यात्मनेपदस्य धर्मिणि कर्मणि शक्तेरावश्यकतास्ति अन्यथा-शानचप्रत्ययोपस्थितकर्मत्वस्य कर्मभूततण्डुलादिनाऽभेदाऽसंभवात्सामानाधिकरण्यं न स्यात् तथा च ततः शानचप्रत्ययस्य कर्मणि शक्तिस्वीकारावश्यकत्वादेव ‘पच्यते ' इत्यादावप्यात्मनेपदस्य कर्मणि शक्तयुपपत्तौ सत्यामात्मनेपदस्य धर्मवाचकत्वम् कर्मत्ववाचकत्वं न युक्तम्-अर्धजरतीयत्वस्याऽन्याय्यत्वादित्याशङ्. क्याह- न चेति । उत्तरमाह-तशानचिति, यदि तङि शानच्प्रत्यये चैकरूपमेवात्मनेपदत्वं यात्तदा 'शानच्प्रत्ययस्यात्मनेपदरूपस्य कर्मणि शक्तिरस्तीति तरूपात्मनेपदस्यापि कर्मप्येव शक्तियुक्ता ' इति कथनं युक्तिसंगतं स्यादपि न चैवमस्ति- तादृशात्मनेपदत्वस्य-तङशानचसाधारणात्मनेपदत्वस्याऽगुरोर्निर्वचनासंभवादित्यर्थः । यदि पाणिनिसंकेतसंबन्धनात्मनेपदवत्त्वं कर्मत्वनिरूपितशक्ततावच्छेदकमित्युच्यते तदा “एवं सति घटादिवाचक ५७३" इत्यायुक्तदोषः प्रसज्येतेति तदपि न संभवतीत्याह- पाणिन्यादीति । उपसंहरति-अत इति, उक्त रीत्या सर्वानुगतात्मनेपदत्वस्य निर्वचनासंभवेनात्मनेपदत्वेन रूपेणात्मनेपदस्य कचिदपि शक्तिकल्पनाया असंभवात् तादीनामेव तत्तद्रूपेण तत्वादिना रूपेणैव शक्तिकल्पनं कर्तव्यमिति शानच्प्रत्ययस्याऽगत्या पृथगेव कर्मणि शक्तिस्वीकारेपि तादीनां लाधवात् कर्मत्वे एव तत्कल्पनात्शक्तिकल्पना युक्ता-तत्वादीनां पृथगेव शक्ततावच्छेदकत्वादित्यर्थः ।
कर्मत्वस्वरूपमाह- कर्मत्वमिति । विशेष्यतयेति-कर्मत्वे शक्तिस्वीकारात्तस्य विशेष्यतया तवाच्यत्वम् । चैत्रेणेत्यादिवाक्यार्थघटकपदार्थानामन्वयमाह- इत्यत्रेति । तस्य आधे.
"Aho Shrutgyanam"