________________
कर्माख्यातार्थविचारः ]
व्युत्पत्तिवादः ।
( ५७७)
इत्यत्र तृतीयार्थस्तत्कर्तृकत्वरूपमाधेयत्वं तस्य धात्वर्थे संयोगात्मकफलावच्छिन्ने स्पन्दलक्षणे व्यापारे तस्य च जन्यतासंबन्धेनात्मनेपदार्थसंयोगरूपफले तस्य चाश्रयतासंबन्धेन प्रथमान्तपदोपस्थाप्यग्रामेऽन्वय इति चैत्रवृत्तिर्यः संयोगावच्छिन्नस्पन्दस्तज्जन्यसंयोगवान् ग्राम इत्याकारकः शाब्दबोधः । ' चैत्रेण त्यज्यते ग्रामः इत्यत्र संयोगस्थाने विभागमन्तर्भाव्य बोध उपपादनीयः ।
>
अथ चैत्रनिष्ठक्रियाजन्यसंयोगविभागादेर्यामादाविव चैत्रादावपि सत्त्वात् चैत्रेण त्यज्यते गम्यते चैत्रः ' इत्यपि स्यात् न स्याच्च ' चैत्रेण न गम्यते न त्यज्यते चैत्रः ' इत्यादीति चेत् , अत्र दीधितिकारप्रभृतयः - फलमिव तत्र क्रियान्वयि परसमवेतत्वमपि कर्माख्यातार्थः, परत्वे च भेदरूपे प्रतियोगितया फले आश्रयतयान्वयिनः प्रथमान्तपदोपस्थाप्यस्यान्वयः - चैत्रे चैत्रान्यसमवेतक्रियाजन्यसंयोगादिमत्त्वस्याऽन्वयाऽयोग्यत्वात् तादृशसंयोगाद्यभावस्य च तत्रान्वययोग्यत्वान्न तत्रापत्त्यनुपपत्त्योरवकाश इत्याहुः ।
तत्रेदं चिन्तयन्ति - प्रथमान्तपदोपस्थाप्य कर्मणोऽन्वयितावच्छेदकावच्छिन्नयत्वस्य । तस्य व्यापारस्य च । तस्य= संयोगादिरूपफलस्य । वाक्यार्थमाह- चैत्रवृत्तिरिति । अन्तर्भाव्येति - ' चैत्रवृत्तिविभागानुकूलव्यापारजन्यविभागाश्रयो ग्रामः ' इतिशाब्दबोध इत्यर्थः ॥
शङ्कते - अथेति । ' चैत्रेण व्यज्यते गम्यते चैत्र: ' इति -' चैत्रेण त्यज्यते चैत्रः ' ' चैत्रेण गम्यते चैत्रः ' इत्यपि स्यादित्यर्थः । 'चैत्रेण न गम्यते चैत्र: ' 'चैत्रेण न त्यज्यते चैत्रः' इति च न स्यात् - चैत्रनिष्ठक्रियाजन्यसंयोगविभागादेश्चैत्रे सत्त्वादेवेत्यर्थः । अस्य दीधितिकारमतेनोत्तरमाह-- अत्रेति । क्रियान्वयीति- क्रियायां संयोगाद्याश्रयी भूतप्रामाद्यपेक्षया यः परश्चेत्रादिस्तत्समवेतत्वमपि भासते तदपि कर्माख्यातस्यार्थ इत्यर्थः । फले आश्रयतयान्वयिनः = फलाश्रयस्य प्रथमान्तपदोपस्थाप्यस्य प्रामादेर्भेदरूपे परत्वे प्रतियोगितयान्वयः - स च भेदः प्रथमान्तपदोपस्थाप्यग्रामादिप्रतियोगिको ग्राह्य इत्यर्थः । उक्तस्य फलमाह - चैत्रेति, ' चैत्रेण गम्यते चैत्रः ' इत्यत्र चैत्रे चैत्रसमवेतक्रियाजन्यसंयोगादेरेवान्वयः कर्तव्यः स च नेष्टः- क्रियायां परसमवेतत्वनिवेशात, अत्र चैत्रे चैत्रान्यसमवेतक्रियाजन्यसंयोगादेरन्वययोग्यतेव नास्ति - उपस्थित्यभावात् चैत्रवृत्तिसंयोगजनकक्रियायाश्च चैत्रान्यसमवेतत्वाभावादित्यापत्तिः' चैत्रेण गम्यते चैत्रः, इति प्रयोगापत्तिर्नास्ति, तादृशसंयोगाद्यभावस्य = चैत्रान्यसमवेतक्रियाजन्यसंयोगाद्यभावस्य च तत्र = चैत्रेऽन्वययोग्यत्वात् = अन्वयसंभवात् ' चैत्रैण न गम्यते चैत्र: ' इत्यादिप्रयोगस्यानुपपत्तिरपि नास्तीत्यर्थः । ग्रामे च ग्रामान्य चैत्रवृत्तिक्रियाजन्यसंयोगाद्याश्रयत्वस्य सत्त्वात् चैत्रेण 'गम्यते ग्रामः ' चैत्रेण त्यज्यते ग्रामः इत्युपपद्यते एव ।
L
यदुक्तं भेदे प्रथमान्तपदोपस्थाप्यस्य प्रतियोगितयान्वयस्तत्राशङ्कते - तत्रेदमित्यादिना, मेदे प्रथमान्तपदोपस्थाप्य कर्मणोऽन्वयितावच्छेदकानवच्छिन्नप्रतियोगितया वाऽन्वयितावच्छेदकावच्छि
३७
"Aho Shrutgyanam"