________________
( ५७८ )
सादर्श:
[ आख्यातप्रकरणे
6
,
त्वाऽविशेषितप्रतियोगितया भेदांशेऽन्वयोपगमेपि चैत्रेपि चैत्रस्य द्वित्वादिना भेदसंभवेन तत्समवेतक्रियायां परसमवेतत्वाक्षतेरुक्तदोषोद्धारासंभवः । अन्वयितावच्छेदकावच्छिन्नप्रतियोगितया तत्र तद्मानस्वीकारे ? चैत्रेण द्रव्यं गम्यते' इत्यादावनुपपत्तिः- द्रव्यत्वावच्छिन्नभिन्नसमवेतत्वादेः क्रियादौ बाधात् । न च तत्र द्रव्यपदं लक्षणया चैत्रान्यद्रव्यपरमिति वाच्यम्, 'मल्लेन गम्यते मल्लः इत्यादौ मलपदस्य महान्यमल्लपरत्वासंभवात्, मलान्यसमवेतमलवृत्तिक्रियाया अप्रसिद्ध्याऽनुपपत्तितादवस्थ्यात्, अननुगतमलगततत्तद्व्यक्तित्वोपस्थित्यनैयत्यात्, कर्मव्यक्तिभिन्नमलत्वेन लक्षणाग्रहस्य तादृशवाक्यजनप्रतियोगितया वान्वय उपगम्यते इत्येवं द्विधा विकल्प्य प्रथमे दोषमाह - प्रथमान्तेति । द्वित्वादिनेति - चैत्रे चैत्रभेदाभावेपि चैत्र घटोभयभेदस्य सत्त्वेन चैत्रभेदप्राप्तौ तत्समवेतक्रियायाम् = चैत्रसमवेतक्रियायां परसमवेतत्वाक्षतेः = चैत्रापेक्षया परसमवेतत्वप्राप्त्या चैत्रे परसमवेतक्रियाजन्यसंयोगविभागाद्याश्रयत्वप्राप्त्या उक्तदोषोद्धारासंभव :- चैत्रेण गम्यते चैत्रः ' 1. चैत्रेण न गम्यते चैत्र: ' इत्यादिप्रयोगानुपपत्तिश्च तदस्थैवेत्यर्थः । द्वितीयपक्षे दोषमाह- अन्वयितेति यद्यऽन्वयितावच्छेदकावच्छिन्नप्रतियोगितया प्रथमान्तपदोपस्थाप्यस्य तत्र = भेदेऽन्वय उपगम्यते ? तदोक्तदोषोद्धार संभवेपि ' चैत्रेण द्रव्यं गम्यते ' इत्यादिप्रयोगो नोपपद्येत- क्रियायां प्रथमान्तपदोपस्थाप्यभिन्नसमवेतत्वस्य विवक्षितस्वात् चैत्रेपि द्रव्यत्वस्य सत्त्वेन क्रियायां द्रव्यत्वावच्छिन्नभिन्नसमवेतत्वस्याभावात् द्रव्ये द्रव्यत्वावच्छिन्नभिन्नसमवेतक्रियाजन्यसंयोगाश्रयत्वाभावादित्यर्थः ।
इत्यादिप्रयोगापत्तिस्तदवस्थैव
ननु तत्र - ' चैत्रेण द्रव्यं गम्यते ' इत्यत्र द्रव्यपदं लक्षणया चैत्रान्यद्रव्यपरं ग्राह्यं तथा च द्रव्यपदवाच्यस्य चैत्रस्य च भेदे प्राप्ते द्रव्ये तदन्यचैत्रवृत्तिक्रियाजन्यसंयोगाश्रयत्वसंभवात् 'चैत्रेण द्रव्यं गम्यते ' इत्यादिप्रयोगानुपपत्तिर्नास्तीत्याशङ्कयाह - न चेति । उत्तरमाह - मलेनेति, ' चैत्रेण द्रव्यं गम्यते ' इत्यत्र द्रव्यपदस्य लक्षणया चैत्रान्यद्रव्यपरत्वेपि मलपदस्य महत्वावच्छिन्नवाचकत्वेन मल्लान्य मलपरत्वाऽसंभवात् ' मल्लेन गम्यते मल्लः ' इतिप्रयोगो नोपपद्येतमल्लान्यसमवेतायाः क्रियाया मलवृत्तित्वासंभवात् मल्लवृत्तिक्रियायाश्च मलान्यसमवेतत्वासंभवादित्यर्थः, अपेक्ष्यते च क्रियायां प्रथमान्तार्थमल्लान्यसमवेतत्वं तदत्र न संभवतीति भावः । ननु तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकमेदमत्र ग्रहीष्यामस्तथा च तन्मलुव्यत्यास्तन्मलुव्यक्तेर्भिन्नत्वाम्नानुपपत्तिरित्याशङ्कयाह- अननुगतेति । उपस्थित्यनेयत्यात् तद्द्व्यक्तित्वोपस्थितेरनियतत्वात्कारणाभावेनासंभवात् । नन्वत्रापि तृतीयान्तमल्लपदस्य कर्मभूतमल्लुव्यक्तिभिन्नपरत्वमेव लक्षणयेति नोक्तप्रयोगानुपपत्तिरित्याशङ्क्याह- कर्मेति, ' मल्लेन गम्यते मल: ' इतिवाक्यजन्यशाब्दबोधानन्तरमेव मलपदस्य मल्लान्यमले तात्पर्यग्रहे सत्युक्तलक्षणाग्रहः संभवति नतु वाक्यार्थबोधात पूर्वम्. वाक्यार्थबोधकारणीभूतलक्षणाग्रहेण च वाक्यार्थबोधात्पूर्वमेव भवितव्यं तद
"Aho Shrutgyanam"