________________
कर्माख्यातार्थविचारः ]
व्युत्पत्तिवादः ।
(५७९ )
न्यधीपूर्व नियमतोsसंभवात् । न च फलविशेष्यव्यक्तीनां तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिता संबन्धेन परत्वेऽन्वयात् संबन्धोपस्थितेश्चानपेक्षणान्नाऽनुप्रपचिरिति वाच्यम्, संसर्ग तात्पर्यज्ञानानुरोधेन तदुपस्थितेरपि शाब्दबुद्धावऽप्रेक्षणीयत्वात् । ' तद्व्यक्त्या तद्व्यक्तिर्न गम्यते ' इत्यादावभावप्रतियोगिकोटिप्रविष्टतव्यक्तित्वावच्छिन्नभिन्नसमवेततद्व्यक्तिसमवेतक्रियाया अप्रसिद्धेः ।
ये तु फलं भेदश्च कर्मप्रत्ययार्थः, फले जन्यतासंबन्धेन भेदे च स्वावच्छिन्नप्रतियोगिताकत्व संबन्धेन क्रियाया अन्वयः, भेदफलयोश्च कर्मण्याश्रयतासंव न्धेनान्वयः, चैत्रसमवेतक्रियावच्छिन्नभेदस्य चैत्रो नाश्रय इति तादृशक्रिया जन्यफलाश्रयत्वेपि तस्य ' चैत्रेण चैत्रो गम्यते ' इति न प्रयोगः । ' मल्लो मल्लेन गम्यते ' इत्यादेरे कमलादिनिष्ठक्रियावच्छिन्नभेदसहितस्य तज्जन्यफलस्य संभवादयमपि पक्षो न युक्त इत्यर्थः । ननु फलविशेष्यव्यक्तीनाम् = प्रथमान्तार्थ प्रामादीनां यो भेदरूपपरत्वेऽन्वय उक्तः स तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगितासंबन्धेन कर्तव्य इति तद्व्यक्तित्वावच्छिनप्रतियोगिताकमेद एव भेदपदेन ग्राह्यतां प्राप्तस्तादृशभेदश्च मल्लस्य मल्लान्तरेस्त्येव तद्व्यक्तित्वस्य च संबन्धकोटिप्रवेशात्तदुपस्थित्यपेक्षा नास्तीति न 'भलेन गम्यते मल्लः' इतिप्रयोगानुपपत्तिरित्याशङ्कयाह-न चेति । उत्तरमाह - संसर्ग तात्पर्येति, संसर्गविषयक तात्पर्यज्ञानापेक्षायां सत्यां संसर्गोपस्थितेरपि शाब्दबोधकारणत्वस्य निर्विवादतया तद्व्यक्तित्वोपस्थितेरप्यपेक्षा प्राप्तैव न च तदुपस्थितिः संभवतीति 'मलेन गम्यते मल:' इतिप्रयोगानुपपत्तिस्तदवस्थैवेत्यर्थः । दोषान्तरमाहतद्व्यक्त्येति, 'तद्व्यक्त्या तद्व्यक्तिर्न गम्यते' इत्यत्र प्रथमान्तार्थतद्व्यक्तिभिन्नतद्व्यक्तिसमवेतक्रियाजन्यसंयोगस्याभाव: प्रथमान्तार्थतदूव्यक्तौ प्रतीयते प्रतीयमानैतादृशाभावस्य प्रतियोगिफोटौ प्रविष्टं यत् तद्व्यक्तित्वावच्छिन्नं तद्भिन्नसमवेतायाः क्रियायास्तद्व्यक्तिसमवेतत्वं न संभवति तद्व्यक्तिसमवेतायाश्च क्रियायास्तद्व्यक्तित्वावच्छिन्नभिन्नसमवेतत्वं न संभवतीति तद्व्यक्तित्वावच्छिन्नभिन्नसमवेतत्वे सति तद्व्यक्तिसमवेतत्वस्य तत्क्रियायामप्रसिद्धेः तद्व्यक्त्या तद्व्यक्तिर्न गम्यते ' इतिप्रयोगानुपपत्तिरप्यस्तीत्यर्थः ।
6
दूषयितुं मतान्तरमनुवदति - ये त्वित्यादिना । फलस्य संयोगादिरूपत्वेन क्रियाजन्यावाज्जन्यतासंबन्धेन फले क्रियान्वयः । भेदश्च संयोगाद्यनुकूल क्रियावान्नेति प्राह्मस्तत्र प्रतियोगी तादृशक्रियावान् प्रतियोगितावच्छेदिका च क्रियैवेति प्रतियोगितायाः क्रियावच्छिन्नत्वात् स्वाव-. च्छिन्नप्रतियोगिताकत्वसंबन्धेन क्रियाया भेदेऽन्वयः स्वं क्रिया । कर्मणि प्रथमान्तपदार्थे आमादौ । तथा च तस्य = चैत्रस्य चैत्रसमवेत क्रियाजन्यसंयोगादिरूपफलाश्रयत्वेपि संयोगानुकूल क्रियावान्नेत्याकारको यश्चैत्रसमवेत क्रियावच्छिन्नभेदस्तदाश्रयत्वाभावात् चैत्रेण गम्यते चैत्र: ' इतिप्रयोगापत्तिर्नास्ति, एकमल्लनिष्ठा या संयोगानुकूलक्रिया तदवच्छिन्नभेदस्य = क्रियानेत्याकारकस्य भेदस्य तज्जन्यफलस्य - एक मल्ल निष्ठक्रियाजन्यसंयोगरूपफलस्य च मद्धान्तरे=
$
"Aho Shrutgyanam"