________________
(५८०)
सादर्श:
[ आख्यातप्रकरणे मल्लान्तरे सत्त्वान्नानुपपत्तिरिति ब्रुवते । तन्मतेपि - चैत्रेण चैत्रो न गम्यते' इत्यादेनुपपत्तिारैव- चैत्रे चैत्रसमवेतक्रियावच्छिन्नभेदाभावसत्वेपि तादृशक्रियाजन्यफलाभावस्य बाधात् । - न च फलाभावो नत्रा न तत्र प्रत्याय्यः. अपि तु भेदाभाव एव कर्मणीतिवाच्यम्, यदा चैत्रण ग्रामो न गम्यते तदापि तादृशप्रयोगानुपपत्तेः- तादृशभेदाभावस्य ग्रामे बाधात् । न च भेदस्य सामानाधिकरण्यसंबन्धेन फलेन्वयस्तादृशसंबन्धेन क्रियावच्छिन्नभेदविशिष्टस्य क्रियाजन्यफलस्यैव चाभावो
ना कर्मणि प्रत्याय्यते इति न दोषः- विशिष्टाभावस्पोभयत्र सत्त्वादिति द्वितीयमले सत्त्वात् ' मल्लो मल्लेन गम्यते । इतिप्रयोगानुपपत्तिरपि नास्तीत्यर्थः । उक्त दोषमुद्घाटयति- तन्मतेपीति । अनुपपत्तौ हेतुमाह- चैत्रेति, संयोगानुकूल क्रियावान्नेत्याकारको भेदश्चैत्रे नास्तीति चैत्रे चैत्रसमवेतक्रियावच्छिन्नभेदाभावस्त्वऽस्ति तादृशक्रियाजन्यसंयोगादिरूपफलस्य चैत्रेपि सत्त्वात् तदभावस्तु नास्तीत्यन्वयः,' चैत्रेण गम्यते ग्रामः' इत्यादौ प्रथमान्तपदार्थे कर्मभूते ग्रामादावुक्तस्य भेदस्य फलस्य चाश्रयत्वमपेक्ष्यते, अस्ति चात्र ग्रामे तादृशभेदफलयोराश्रयत्वमिति ' चैत्रेण गम्यते ग्रामः' इत्यादिप्रयोग उपपद्यते. नसमभिव्याहारस्थले च कर्मभूतप्रथमान्तपदार्थे तादृशभेदफलयोरुभयोरप्यभावोऽपेक्ष्यते ' चैत्रेण चैत्रो न गम्यते । इत्यत्र च प्रथमान्तपदार्थचैत्रे तादृशभेदाभावस्य सत्त्वेपि तादृशफलाभावो नास्ति चैत्रसमवेतक्रियाजन्यसंयोगस्य चैत्रेपि सत्त्वादिति — चैत्रेण चैत्रो न गम्यते । इतिप्रयोगानुपपत्तिरस्त्येवेति भावः ।
ननु तत्र' चैत्रेण चैत्रो न गम्यते । इत्यत्र कर्मणि प्रथमान्तार्थचैत्रे ना फलाभावविषयकबोध इष्ट एव नास्ति येन चैत्रे चैत्रसमवेतक्रियाजन्यसंयोगरूपफलाभावस्योक्तरीत्या बाधादनुपपत्तिः स्यात् किं तु भेदाभावविषयकबोध एवेष्टः स तु नना संभवत्येव चैत्रे उक्तभेदाभावस्य
सत्त्वादेवेत्याशक्याहन चेति । परिहारमाह- यदेति, यदि ना कर्मणि त्वदुक्तरीत्या • मेदाभाव एव प्रत्याय्यते तदा यदा चैत्रेण ग्रामो न गम्यते तदापि तादृशप्रयोगस्य- “चैत्रेण प्रामो न गम्यते' इतिप्रयोगस्यानुपपत्तिः स्यात्- संयोगानुकूलक्रियाया ग्रामेऽसत्त्वेन संयोगानुकूल क्रियावान्नेति भेदस्यैव ग्रामे सत्त्वात् तादृशभेदाभावस्य चासत्त्वात् कथं कर्मभूतग्रामे ना तादृशभेदाभावः प्रत्याय्यतेत्यर्थः । ननु ग्रामादौ भेदफलयोः सामानाधिकरण्यमस्त्येवेति तादृशसंबन्धन-सामानाधिकरण्यसंबन्धेन क्रियावच्छिन्नस्य यो भेदस्तद्विशिष्टस्य क्रियाजन्यफलस्यैवाभावो नत्रा प्रत्याय्यते इति न दोषः=' चैत्रेण चैत्रो न गम्यते , ' चैत्रेण ग्रामो न गम्यते' इति प्रयोगयोरनुपपत्तिनास्तीत्यर्थः । दोषाभावे हेतुमाह-विशिष्टेति । उभयत्रेति- 'चैत्रेण चैत्रो न गम्यते' इत्यत्र चैत्रे शुद्धफलाभावस्य बाधेपि भेदाभावस्य सत्त्वेन तादृशभेदविशिष्ट (समानाधिका ण)फलस्य बाधेन तादृशभेदविशिष्टफलाभावस्य बाधो नास्तीति नना प्रत्यायनं संभवत्येवेति न
"Aho Shrutgyanam"