________________
कर्माख्यतार्थाविचार: ]
व्युत्पत्तिवादः ।
( ५८१ )
वाच्यम्, एवमपि मल्लेन यत्रापरमल्लो न गम्यते. अपि तु ग्रामादिरेव तत्र श्रामाद्यगन्तरि मले मल्लान्तरनिष्ठक्रियावच्छिन्नभेदसहितस्य स्वात्मकमलनिष्ठ - क्रियाजन्यग्रामादिसंयोगस्य सत्त्वेन विशिष्टाभावबाधात् 'मल्लेन मल्लो न गम्यते' इत्यादेरनुपपत्तिः ।
यदि च फलमेव कर्माख्यातार्थस्तस्याऽऽश्रयत्वस्वानुकूलक्रेियावच्छिन्नभेदवत्वोभयसंबन्धेन कर्मण्यऽन्वयः, नञ्समभिव्याहारे च तदुभयसंबन्धावच्छिन्नक्रिया': चैत्रेण चैत्रो न गम्यते ' इतिप्रयोगानुपपत्तिः, ' चैत्रेण ग्रामो न गम्यते ' इत्यत्र च ग्रामे उक्तमेदस्यैव सत्त्वेन भेदाभावस्य वाधेपि तादृशभेद विशिष्टफलाभावस्य बाधो नास्त्येव - ग्रामे चैत्रसमवेतक्रियाजन्यसंयोगस्याऽसत्त्वादिति तादृशभेदविशिष्टफलाभावो ग्रामे नत्रा प्रत्याययितुं शक्यते एवेति न ' चैत्रेण ग्रामो न गम्यते ' इतिप्रयोगानुपपत्तिरपीत्याशङ्क्याह - न चेति । परिहारमाह - एवमपीति, उक्तरीत्या नत्रा भेदसहितफलाभावबोधनेपि यत्र मलेन मल्लो न गम्यते किं तु ग्रामो गम्यते तत्र ' मल्लेन मल्लो न गम्यते ' इतिप्रयोगानुपपत्तिरस्त्येवेत्यन्वयः । अत्र हेतुमाह- ग्रामाद्यगन्तरीति, ग्रामाद्यगन्तरि मले मल्लान्तरनिष्ठा = प्रामादिगन्तुमलुनिष्ठा या क्रिया तदवच्छिन्नो यः क्रियावान्नेतिभेदः स वर्तते एव अथ च ग्रामाद्यगन्तरि मले मलत्वेन रूपेण स्वात्मको यो ग्रामगन्ता मलस्तन्निष्ठो यः क्रियाजन्यो ग्रामादिसंयोगस्तस्यापि सत्त्वाद् भेदसमानाधिकरणः संयोग एव प्राप्तो न तु तादृशविशिष्टस्य भेदसहितस्य संयोगस्याभाव इति नञा तादृशविशिष्टाभावस्याऽसतो बोधनासंभवात् ' मलेन मल्लो न गम्यते ' इति प्रयोगो नोपपद्यते इत्यर्थः । यद्यप्यत्र ग्रामसंयोगो ग्रामगन्तुमले एवं नाऽगन्तृमलेपि तथापि ग्रामगन्तृमल्लस्य स्वात्मकत्वात् ( मलत्वेन रूपेण ग्रामागन्तृमलरूपत्वात् ) ग्रामगन्तृमलनिष्ठो ग्रामसंयोगों ग्रामाऽगन्तृमलेऽस्त्येव --मलत्वावच्छिन्नसमवेतस्यैव संयोगस्यात्र ग्राह्यत्वाद् अत एवोक्तम् - " स्वात्मकमलनिष्ठ " इति । " ग्रामाद्यगन्तरि " इत्यस्य स्थाने " ग्रामादिगन्तरि " इति पाठस्तु प्रामादिक एव प्रतिभाति - प्रथमान्तमलपदार्थे एव विशिष्टाभावबाधस्य प्रतिपाद्यत्वात् तस्मिन् ग्रामगन्तृत्वाभावादित्यवधेयम् । " ग्रामादिगन्तरि " इतिपाठस्य साधुत्वे तु एको मलः प्रथमं ग्रामं गच्छति द्वितीयश्च तत्पश्चाद् ग्राममेव गच्छति नाग्रेसरमलं तत्र यो प्रामादिगन्ता नाम प्रथमं ग्रामं गन्ता स एव प्रथमान्तमलपदार्थस्तस्मिन् ग्रामादिगन्तारे मल्ले उक्तरीत्या मल्लान्तरनिष्ठक्रियावच्छिन्नभेदसहितस्य स्वात्मकमलनिष्ठक्रियाजन्यग्रामादिसंयोगस्य सत्त्वेन विशिष्ट भावबाधात् ' मलेन मल्लो न गम्यते ' इत्यादेरनुपपत्तिरित्येवं ग्रन्थाभिप्रायो विज्ञेयः । अत्र पश्चाद् ग्रामगन्ता तृतीयान्तमलपदार्थः ।
दूषयितुं मतान्तरमनुवदति - यदीत्यादिना, तस्य संयोगादिरूपफलस्य । कर्मणि= प्रामादौ । ग्रामादावाश्रयत्वमपि वर्तते स्वं फलं तज्जनकक्रियावच्छिन्नो यः क्रियावान्नेति भेदः सोपि वर्तते एवेत्येतादृशोभयसंबन्धेन ग्रामादौ फलान्वय इष्टः । ' मलेन मल्लो न गम्यते ' इत्यादिनञ्सम
"Aho Shrutgyanam"