________________
सादर्श:
[ आख्यातप्रकरणे जन्यफलाभाव एव तत्रान्वेतीत्युच्यते ?, तदापि यत्र चैत्रमैत्रयोरुभयकर्मजस योगस्तत्र चैत्रनिष्ठतादृशसंयोगस्य चैत्रे आश्रयत्वस्वानुकूलक्रियावच्छिन्नभेदवत्वो. भवसंबन्धेन सत्त्वात् 'चैत्रेण चैत्रो न गम्यते' इत्यस्यानुपपत्तिः 'चैत्रेण चैत्री गम्यते' इत्यापत्तिश्च । ___ अत्रोच्यते-भेदः फलं च कर्माख्यातार्थः, स्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेन चैत्रादिनिष्ठक्रियाविशेषितभेदस्य स्वसामानाधिकरण्यस्वप्रतियोगितावच्छेदकजन्यत्वोभयसंबन्धेन फलेन्वयः, विशिष्टफलस्य नाऽसमभिव्याहारे विशिष्टफलाभावस्य नसमभिव्याहारे च कर्मण्यऽन्वयः। चैत्रमैत्रयोरुभयकर्मजसंयोगस्थले चैत्रवृत्तिक्रियावच्छिन्नभेदस्य चैत्रेऽसत्त्वेन विशिष्टफलाभावोऽक्षतः ।
-- - ------------ - मिव्याहारे चोक्तोभयसंबन्धेन क्रियाजन्यफलाभाव एव तत्र प्रथमान्तार्थकर्मण्यऽन्वेति नत्रा बोध्यते इत्यन्वयस्तथा च 'मल्लेन मल्लो न गम्यते' इत्यत्र मल्ले मल्लान्तरनिष्ठक्रियाजन्यसंयोगो नास्तीति तदभाव एव ना बोध्यते इति नैतत्प्रयोगानुपपत्तिरित्यर्थः । अत्र दोषमुद्घाटयति- तदा पीति, चैत्रनिष्ठस्य तादृशसंयोगस्य-उभयकर्मजसंयोगस्य चैत्रे आश्रयत्वस्वानुकूलक्रियावच्छिन्नमेदवत्त्वोमयसंबन्धेन सत्त्वमेवास्ति- चैत्रे आश्रयत्वस्यापि सत्त्वात् तादशसंयोगजनिका या मैत्रनिष्ठा क्रिया तदवच्छिन्नो यो मैत्रनिष्ठक्रियावान्नेतिभेदस्तस्यापि च सत्त्वादिति नञा तदुभयसंबधावच्छिनफलाभावस्य चत्रे बोधनासंभवात् 'चैत्रेण चैत्रो न गम्यते' इतिप्रयोगो नोपपद्येत. चैने तादृशसंयोगस्य सत्त्वेन 'चैत्रेण चैत्रो गम्यते' इतिप्रयोगश्चापद्यतेत्यर्थः ।
निर्वस्तुमारमते- अत्रोच्यत इत्यादिना, भेदः फलं च पृथक् पृथगेव कर्माख्यातार्थ इत्यर्थः । क्रियाविशेषितभेदस्य क्रियाविशिष्टभेदस्य । स्वं क्रिया, क्रियावान्नेतिभेदस्य प्रतियोगितावच्छेदिका क्रियेवेति स्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेन क्रियाया मेदेऽन्वयस्तादृशक्रियाविशिष्टभेदस्य च स्वसामानाधिकरण्यस्वप्रतियोगितावच्छेदकजन्यत्वैतदुभयसंबन्धेन फलेऽन्वयः, यत्र ग्रामादौ फलं भवति तत्रैव भेदोपीति फले भेदसामानाधिकरण्यमप्यस्ति भेदस्य प्रतियोगितावच्छेदकीभूता या क्रिया तज्जन्यस्वमपि संबन्धभूतमस्त्येव. स्वं स्वं भेदः । तादृशोभयसंबन्धेन मेदविशिष्टफलस्य ' चैत्रेण गम्यते ग्रामः ' इत्यादौ नञऽसममिव्याहारे कर्मणि प्रामादावन्वयः, 'चैत्रेण चैत्रो न गम्यते । इत्यादौ नसमभिव्याहारे च कर्मणि प्रथमान्तार्थे चैत्रादावुक्तोभयसंबन्धेन भेदविशिष्टस्य फलस्याभावोऽन्वेति तथा च चैत्रमैत्रयोरुभयकर्मजसंयोगस्थले चैत्रे चैत्रवृत्तिक्रियावच्छिन्नभेद: चैत्रवृत्तिक्रियावान्नेतिभेदो नास्तीति चेत्रनिष्ठसंयोगे तादृशभेदसामानाधिकरण्यमपि न संभवतीति चैत्रे भेदसमानाधिकरणस्य विशिष्टफलस्य संयोगस्यामावोस्त्येव स एवं संयोगाभावो नञा प्रत्याय्यते इति · चैत्रेण चैत्रो न गम्यते । इतिप्रयोगस्यानुपपत्तिर्नास्ति, चैत्रे भेदसमानाधिकरणसंयोगस्यासत्त्वात् 'चैत्रेण चैत्रो गम्यते । इतिप्रयोगस्यापत्तिरपि
"Aho Shrutgyanam"