________________
कर्तृप्रत्ययस्थलीयपदार्थाः ] व्युत्पत्तिवादा।'
(५८३) यत्र मल्लेन ग्रामो गम्यते न तु मल्लान्तरं तत्र मल्लनिष्ठग्रामसंयोगे मल्लान्तरनिष्ठक्रियावच्छिन्नभेदसामानाधिकरण्यस्य तन्मल्लान्तर्भावेन सत्वेपि तादृशभेदप्रतियोगितावच्छेदकमल्लान्तरनिष्ठक्रियाजन्यत्वस्याऽसत्त्वात् तद्घाटितोभयसंबन्धेन मल्लनिष्ठक्रियावच्छिन्नभेदविशिष्टस्य फलस्याभावो मल्लेऽक्षत एवेति न कश्चिद् दोषः ।
कर्तृप्रत्ययस्थले चाधेयतया प्रकृत्यान्वितस्य फलस्य भेदरूपाऽपरार्थे सामानाधिकरण्यस्वजनकक्रियावच्छिन्नप्रतियोगिताकत्वोभयसंबन्धनान्वयः, ताशभेदस्य च स्वप्रतियोगितावच्छेदकत्वसंबन्धेन क्रियायाम् । यत्र चैत्रक्रियया नास्तीत्यर्थः । " एवमपि मल्लेन यत्रापरमल्लो न गम्यते " इत्याद्युक्तदोषं परिहरतियत्रेति, उक्तस्थले मल्लनिष्ठग्रामसंयोगे नाम प्रथमान्तार्थमल्लनिष्ठग्रामसंयोगे तन्मल्लान्तर्भावन= तृतीयान्तार्थमल्लान्तर्भावेन मल्लान्तरनिष्ठा-तृतीयान्तार्थप्रामगन्तृमल्लनिष्ठा या गमनक्रिया तदवच्छिन्नः तादृशक्रियावच्छिन्नप्रतियोगिताको यः क्रियावान्नेत्याकारकभेदस्तादृशभेदसामानाधिकरण्यमस्त्येव एतादृशमेदस्य ग्रामसंयोगस्य च प्रथमान्तार्थमल्ले सत्त्वादेव अथापि एतादृशस्य प्रथमान्तार्थमल्लनिष्ठस्य भेदस्य प्रतियोगितावच्छेदकीभूता या मल्लान्तरनिष्ठा-तृतीयान्तार्थमल्लनिष्ठा क्रिया तजन्यत्वं तु नास्ति- प्रथमान्तार्थमल्लनिष्ठप्रामसंयोगस्य प्रथमान्तार्थमल्लसमवेतग्रामगमनक्रियाजन्यत्वात् तथा च फले स्वप्रतियोगितावच्छेदकजन्यत्वस्य संबन्धैकदेशस्यासत्त्वात् उक्तोभयसंबन्धेन फले मेदान्वयो न संभवतीति तद्धस्तिोभयसंबन्धेन उक्तजन्यस्वघटितोभयसंबन्धेन मल्लनिष्ठा तृतीयान्तार्थमल्लनिष्ठा या क्रिया तदवच्छिन्नमेदविशिष्टं यत्फलं संयोगस्तदभावः प्रथमान्तार्थमल्लेऽक्षत एवेति तादृशफलामावमादाय न कश्चिद्दोवा' मल्लेन मल्लो न गम्यते ' इतिप्रयोगस्यानुपपत्तिर्नास्तीत्यर्थः । वस्तुतस्तु “ तन्मल्लान्तर्भावेन " इति विशेषणस्य सार्थक्यं चिन्त्यम् । .. कर्माख्यातार्थमुक्त्वा संप्रति कर्तृप्रत्ययस्थले=' चैत्रो ग्रामं गच्छति । इत्यादौ कर्मप्रत्ययस्य द्वितीयाया अर्थमाह- कर्तृप्रत्ययेति, प्रकृत्यर्थस्य ग्रामादेः फले-संयोगादावाधेयत्वसंबन्धेनान्थयो भवतीत्याधेयतया प्रकृत्यान्वितस्य फलस्य भेदरूपे कर्मप्रत्ययार्थे सामानाधि, करण्यस्वजनकक्रियावच्छिनप्रतियोगिताकत्वैतदुभयसंबन्धेनान्वयो भवति- फलं भेदश्च कर्मप्रत्ययार्थ इत्युक्तमेष प्रामे संयोगादिरूपफलमपि भवति क्रियावान्नेतिभेदोपि भवतीति भेदे फलसामानाधिकरण्यं वर्तते स्वं फलं क्रियावान्नेतिमेदप्रतियोगिनि चैत्रादौ प्रतियोगितापि वर्तते क्रियापि वर्तते सैव च क्रिया फलजनिकेति प्रतियोगिता स्वजनकक्रियावच्छिन्ना जातेति भेदे स्वजनकक्रियावच्छिन्नप्रतियोगिताकत्वमपि वर्तते इति तादृशोमयसंबन्धेन फलस्य मेदेऽन्वयः, तादृशभेदस्य उक्तोभयसंबन्धेन फलविशिष्टमेदस्य स्वप्रतियोगितावच्छेदकत्वसंबन्धेन कियायाम: संयोगादिरूपफलजनकक्रियायामन्वयः, स्वं भेदः, भेदप्रतियोगितावच्छेदकत्वं क्रियायामस्ती
"Aho Shrutgyanam"