________________
(५८४)
सादर्श:
[आख्यातप्रकरणेग्रामे न संयोगः अपि त्वन्यत्र तत्र 'ग्रामं गच्छति चैत्रः' इतिप्रयोगवारणाय स्वजनकक्रियावच्छिन्नप्रतियोगिताकत्वस्य. 'चैत्रो ग्रामं गच्छति' इत्यादी 'चैत्रश्चैत्रं गच्छति । इतिप्रयोगवारणाय सामानाधिकरण्यस्य, संबन्धमध्ये निवेशः। चरमस्थले चैत्रग्रामसंयोगस्यः ग्रामनिष्ठचैत्रक्रियावच्छिन्नभेदे संबन्धद्वयसत्त्वेपि चैत्रवृत्तित्वविशिष्टस्य तत्संयोगस्य तादृशभेदे सामानाधिकरण्यविरहाच्चैत्रक्रियायां तद्भेदप्रतियोगितावच्छेदकत्वसत्त्वेपि नातिप्रसङ्गः ।।
त्युक्तमेव, तथा च 'ग्रामं गच्छति चैत्रः' इत्यत्राधेयतासंबन्धेन ग्रामविशिष्टो यः संयोगस्तद्विशिष्टो यो भेदस्तद्विशिष्टा या क्रिया तादृशेक्रियानुकूलकृतिमांश्चैत्र इतिशाब्दबोधाकार इत्यन्वयः । फलस्य भेदे यः सामानाधिकरण्यस्वजनकक्रियावच्छिन्नप्रतियोगिताकत्वैतदुभयसंबन्धेनान्वय उक्तस्तत्रैतादृशसंबन्धकल्पनायाः फलमाह-योति, यदि फलस्य मेदे केवलसामानाधिकरण्यसंबन्धेनान्वय उक्तः स्यात्तदा यदा चैत्रक्रियया प्रामे न संयोगः, अपि स्वन्यत्रैव संयोग उत्पन्नस्तदापि 'ग्रामं गच्छति चैत्रः । इतिप्रयोगः स्यात्- ग्रामे क्रियावान्नेति भेदस्यापि सत्वात् तादृशभेदे सामानाधिकरण्यसंबन्धेन ग्रामे यश्चैत्रान्यवृत्तिक्रिययोत्पन्नः संयोगस्तदन्वयसंभवात् तादृशसंयोगविशिष्टभेदस्य क्रियायामन्वयसंभवात् तादृशक्रियायाश्चैत्रे सत्त्वादेव, यदा 'च स्वजनकक्रियावच्छिन्नप्रतियोगिताकत्वस्य :संबन्धे निवेशस्तदा ग्रामवृत्तितादृशसंयोगस्य चैत्रवृ. तिक्रियायां जनकत्वं नास्तीति मेदे स्वजनकक्रियावच्छिन्नप्रतियोगिताकत्वस्याभावात् तेन संबन्धेन भेदे फलान्वयो न संभवतीति तादृशभेदविशिष्टक्रियायाश्चैत्रेऽसत्वानोक्तस्थले ' चैत्रो ग्राम गच्छति । इतिप्रयोगापत्तिरित्यर्थः । उक्तसंबन्धे सामानाधिकरण्यनिवेशस्य फलमाह- चैत्र इत्यादिना यदि फलस्यभेदे केवलस्वजनकक्रियावच्छिन्नप्रतियोगिताकत्वसंबन्धेनान्वय उक्तः स्यात्तदा यदा चैत्रो प्रामं गच्छति तदा ' चैत्रश्चैत्रं गच्छति । इत्यपि प्रयोगः स्यात्- ग्रामचिर्यः क्रियावान्नेतिभेदस्तप्रतियोगितावच्छेदकीभूतायाश्चैत्रनिष्ठायाः क्रियायाश्चैत्रवृत्तिसंयोगजनकत्वात् फलस्य भेदे स्वजनकक्रियावच्छिन्नप्रतियोगिताकत्वसंबन्धेनान्वयसंभवात् तपशफलविशिष्टभेदस्य चैत्रवृत्तिक्रियायामन्वयसंभवात्, यदा च सामानाधिकरण्यस्य संबन्धे निवेशस्तदा भेदस्तु ग्रामे एव चैत्रवृत्तिसंयोगश्च चैत्रे एवेति भेदफलयोः सामानाधिकरण्याभावानोक्तस्थले 'चैत्रश्चैत्रं गच्छति' इतिप्रयोगापत्तिरित्यर्थः, एतदापत्तिपरिहारं स्वयमप्याह-चरमेति । यद्यपि यः खलु चैत्रग्रामसंयोगस्तस्य ग्राम निष्ठे चैत्रवृत्तिक्रियावच्छिन्नभेदे उक्तसंबन्धद्वयमस्ति-उभयोरपि भेदसंयोगयोमे सत्त्वादेव चैत्रवृत्तिक्रियायां च तादृशभेदप्रतियोगितावच्छेद. कत्वमप्यस्ति तथापि चैत्रवृत्तित्वविशिष्टस्य चैत्रवृत्तिग्रामसंयोगस्य तादृशभेदे सामानाधिकरण्यं नास्ति-- संयोगस्य चैत्रवृत्तित्वाद् भेदस्य ग्रामवृत्तित्वादिति चैत्रे ग्रामं गच्छति 'चैत्रश्चैत्रं गच्छति । इति प्रयोगापत्तिर्नास्तीत्यन्वयः ।
"Aho Shrutgyanam"