________________
सकर्मक धातूनामर्थ : ]
व्युत्पत्तिवादः ।
( ५८५ )
'चैत्रश्चैत्रं न गच्छति ' इत्यादौ च तादृशभेदान्वितक्रियाकर्तृत्वाभाव एव चैत्रे प्रतीयते न तु क्रियायां द्वितीयार्थविशिष्टभेदस्य प्रतियोगितावच्छेदकत्व संबन्धावच्छिन्नाभावः - वादृशसंबन्धस्य वृत्त्यनियामकत्वात् । यदि तात्पर्यविशेववशात् क्रियानुयोगिकोप्यभावः क्वचित् प्रतीयते इत्यनुभवसिद्धम् ? तदा प्रतियोगितावच्छेदकत्वेपि द्वितीयाद्यर्थत्वमुपगम्य विशिष्टभेदप्रतियोगितावच्छेदकत्वाभावान्वय एव तत्रोपगन्तव्य इति दिक् ।
फलावच्छिन्नव्यापारबोधकधातूनां फले व्यापारे च शक्तिद्वयम् । कर्त्राख्यातस्थले फलं धात्वर्थव्यापारविशेषणतया भासते तत्र द्वितीयार्थाधेयत्वान्वयः । कर्माख्यातस्थले फलं धात्वर्थव्यापारस्य विशेष्यतया भासते. तस्य विशेष्यतयाssख्यातार्थ आश्रयत्वम् (भासते ) तद्विशेष्यतया कर्म ( भासते ) इतिदीधितिकृतः ।
केचित्तु संयोगादिरूपफलावच्छिन्नव्यापारबोधकानां गमिप्रभृतीनां कर्म
6
नञ्समभिव्याहारस्थलीयोपपत्तिमाह- चैत्र इति, ' चैत्रश्चेत्रं न गच्छति' इत्यत्र च स्वप्रतियोगितावच्छेदकत्व संबन्धेन तादृशभेदविशिष्टायाः क्रियायाः कर्तृत्वाभाव एव चैत्रे प्रतीयते अस्ति चात्र चैत्रे चैत्रवृत्तिसंयोग विशिष्टभेदविशिष्टक्रियाकर्तृत्वाभाव इति नानुपपत्तिः, न तूकस्थले क्रियायां द्वितीयार्थेन फलेन संयोगेन विशिष्टभेदस्य स्वप्रतियोगितावच्छेदकत्व संबन्धेनाभावः प्रतीयते तादृशसंबन्धस्य = प्रतियोगितावच्छेदकत्वसंबन्धस्य वृत्त्यनियामकत्वेनाऽभावीयप्रतियोगितावच्छेदकत्वाऽभावादित्यर्थः । पक्षान्तरमाह- यदीति, यदि तात्पर्यविशेषवशात् कचित् क्रियानुयोगिकोप्यभावः =क्रियायामुक्तद्वितीयार्थ विशिष्टमेदस्याभावः प्रतीयते तदा प्रतियोगितावच्छेदकत्वस्यापि द्वितीयादिकर्मप्रत्ययार्थत्वमुपगम्य ' चैत्रश्चैत्रं न गच्छति ' इत्यादौ तत्र = चैत्रादिवृत्तिक्रियायामुक्तद्वितीयार्थविशिष्टभेद ( फलविशिष्टभेद ) प्रतियोगितावच्छेदकत्वस्यैवाभावः स्वीकर्तव्यो न तु प्रतियोगितावच्छेदकत्वसंबन्धेनोक्तभेदाभावः - प्रतियोगितावच्छेदकत्व संबन्धस्य वृत्त्यनियामकत्वादित्यर्थः ।
दीधितिकारमतमाह - फलावच्छिन्नेति, गम्यादीनां संयोगादिरूपफलावच्छिन्नव्यापारबोधकत्वं पूर्वमेवोक्तम् । कर्त्राख्यातस्थले = ' ग्रामं गच्छति चैत्र: ' इत्यादौ । तत्र = फले । ' ग्रामवृत्तिसंयोगजनकव्यापारानुकूलकृतिमांश्चैत्रः इतिबोधोदयात् फलस्य व्यापारविशेषणत्वं स्पष्टमेव । कर्मेति - कर्माख्यातस्थले - ' चैत्रेण गम्यते प्रामः ' इत्यादौ । तस्य संयोगादि| भासते इत्यनुवर्तनीयम् । तद्विशेष्यतया = आश्रयत्वविशेष्यतया । अत्रापि भासते इत्यनुवर्तनीयम् । अत्र ' चैत्रवृत्तिव्यापारजन्य संयोगाश्रयत्ववान् ग्रामः ' इतिबोधोदयाद् व्यापार विशेष्यत्वं संयोगे संयोगविशेष्यत्वमाश्रयत्वे आश्रयत्वविशेष्यत्वं कर्मणि प्रामे स्पष्टमेवेत्यन्वयः ।
रूपफलस्य
परिहाराय मतान्तरमनुवदति - केचिदित्यादिना । गम्यादीनां संयोगाद्यनुकूलव्यापारबोध
"Aho Shrutgyanam"