________________
( ५८६ )
सादर्श:
[ आख्यातप्रकरणे
प्रत्ययापेक्षया बहूनां फले शक्तिकल्पनामपेक्ष्य कर्मप्रत्ययानां फले शक्तिकल्पनमेव लघीयः, धातूनां च व्यापारमात्रवाचिता: । धातोः फलबोधकतामते नामार्थधात्वर्थयोराधाराधेयभाव संबन्धेन साक्षादन्वयासंभवात् फलाश्रयत्वस्य कर्मणि प्रकारतया भानस्योपगन्तव्यतया तत्संसर्गस्याधिकस्य भानकल्पनेनापि गौरवम्, फलस्य प्रत्ययार्थत्वे च तदाश्रयत्वं संबन्ध एवेति लाघवम् ।
6
न च धातूनां व्यापारमात्रवाचित्वे ' ग्रामं त्यजति ' इत्यादितोपि ' ग्राम गच्छति' इत्यादित इव संयोगादिरूपफलावच्छिन्नस्पन्दबोधापत्तिः, ग्रामस्त्यज्यते ' इत्यादितोपि ' ग्रामो गम्यते ' इत्यत इव स्पन्दजन्यसंयोगादिमत्त्वेन भानप्रसङ्ग इति वाच्यम्, कर्मप्रत्ययस्य संयोगविभागादिरूपनानाफलवाचित्वेपिं तत्तत्फलबोधे धातुविशेषसमभिव्याहारज्ञानस्यापेक्षयाऽतिप्रसङ्गविरहात् । ' त्यज
कस्वात् संयोगादिरूपफलावच्छिन्नव्यापारबोधकत्वम् । कर्मप्रत्ययानां संख्या न्यूनास्ति तदपेक्षया गम्यादीनां संख्याधिकास्तीत्युक्तम् - " बहूनाम् " इति । एवकारो भिन्नक्रम इति कर्म प्रत्ययानामेवेत्यन्वयः । धातोः फलबोधकतामते गौरवं प्रदर्शयति- धातोरिति, नामार्थस्य = कर्मभूतप्रामादेः, धात्वर्थस्य=फलरूपसंयोगादेश्च परस्परं साक्षाद् भेदेनान्वयासंभवात् फलस्य प्रत्ययार्थाश्रयत्वेऽन्वयः कर्तव्यः फलाश्रयत्वस्य कर्मणि ग्रामादौ प्रकारतयान्वयः कर्तव्य इति तत्संसर्गस्य-फलाश्रयत्वसंबन्धस्याप्यधिकस्य शाब्दबोधविषयत्वं स्यादिति गौरवम्, फलस्य प्रत्ययार्थस्वस्वीकारे तु प्रत्ययार्थत्वात् फलस्य ग्रामादौ कर्मण्याश्रयत्व संबन्धेन साक्षादन्वयः संभवति बाधकाभावात् धात्वर्थनामार्थयोरेव साक्षाद् भेदान्वयस्य व्युत्पत्तिविरुद्धत्वात् संबन्धभूताश्रयत्वस्य संबन्धान्तरमानकल्पना पत्तिर्नास्तीत्यस्मन्मते लाघवमिति कर्मप्रत्ययानामेव फले शक्तिर्म तु गम्यादिधातूनामित्यर्थः ।
,
ननु तव मते धातूनां व्यापारमात्रवाचकत्वात् तादृश व्यापारमात्र बोधकत्वस्य त्यजिगमिप्रभूतिषु सर्वेष्वेव धातुषु साधारणत्वात् ' गच्छति ' इत्यत इव ' त्यजति ' इत्यतोपि संयोगानुकूलव्यापारबोधः स्यात् ' गम्यते ' इत्यत इव ' त्यज्यते ' इत्यतोपि ग्रामादेः संयोगादिमत्त्वेन भानं स्यादित्याशङ्क्याह- न चेति । उत्तरमाह- कर्मप्रत्ययस्येति, यद्यपि कर्मप्रत्ययस्यैव फलवाचकत्वं न तु धातूनां तथापि कर्मप्रत्ययस्य संयोगविभागादिरूपफलबोधने धातुविशेषसमभिब्याहारज्ञानस्यापेक्षास्तीति गमिसमभिव्याहारे कर्मप्रत्ययेन संयोगरूपमेव फलं बोध्यते व्यजिसमभिव्याहारे च कर्मप्रत्ययेन विभागरूपमेव फलं बोध्यते इत्युक्तस्य धातूनां समानाकारबोधजनकत्वस्यातिप्रसङ्गः=आपत्तिर्नास्तीत्यर्थः । पूर्वोत्तरपक्षौ चेतौ परस्परमसंबद्धार्थकाविति विभावनीयम् । किं वा वाक्यान्तरयोजनया व्याख्येयौ । ननु 'ग्रामं गच्छति' 'मामं त्यजति' इत्यादिकर्मसमभिव्याहारस्थले कर्मप्रत्ययेन संयोगादिरूपफलविशेषोपस्थितौ धातूनां तदनुकूलव्यापाबोधकत्वेन त्वदुक्तरीत्या बोधव्यवस्था संभवति यत्र हि ' त्यजति ' गच्छति' इत्यादौ कर्मस
"Aho Shrutgyanam"