________________
सकर्मकधातूनामर्थविचारः ] व्युत्पत्तिवादः।
(५८७). ति ' ' गच्छति ।- स्पन्दते , ‘त्यागः ' 'गमनम् ' ' स्पन्दः ' इत्यादी कर्मासमभिव्याहृते बोधवैलक्षण्यं च तत्तद्धातूनां फलविशेषावच्छिन्नव्यापारलक्षणोपगमेनोपपादनीयम् । फलान्वितस्वार्थव्यापारबोधकत्वं सकर्मकत्वं गम्यादेः स्वभावाधीनं तदभावात् स्पन्दिप्रभृतिष्वकर्मकत्वव्यवहार इत्याहुः।
तन्न- यागमिप्रभृतीनामिव त्यजिगमिप्रभृतीनामपि पर्यायतेतिभ्रमदशायाम् 'याति ''गच्छति' इत्यादाविव ' त्यजति' 'गच्छति' इत्यादितोप्यविलक्षणबोधोत्पत्त्या धातुविशेषसमभिव्याहारस्य फलविशेषबोधनियामकताकल्पनाऽसंभवात् । न च 'ग्रामं त्यजति' इत्यादितः संयोगावच्छिन्नव्यापारबोधस्तात्पर्यसत्त्वे इष्यत एव- त्वन्मतेपि तात्पर्यानुरोधेन लक्षणया तद्बोधोत्पत्तेरावश्यकत्वात्, परं तु तत्र विभागादिरूपफले एवं फलप्रत्ययतात्पर्यस्यानादितया संयोगादिरूपफलप्रत्यायनेच्छया स्वरसतो न तादृशप्रयोग इति वाच्यम्, विना मभिव्याहारो नास्ति तत्र कथं धातूनां विलक्षणबोधजनकत्वव्यवस्था स्यात् ? व्यापारमात्रवाचकत्वेन त्यजिगम्यादीनां समानाकारबोधजनकत्वप्रसङ्गादित्याशङ्क्याह- त्यजतीति, कर्मसममिव्याहाराभावस्थले गम्यादीनां संयोगादिरूपफलविशेषानुकूलव्यापारे लक्षणा स्वीकार्येति न समानाकारकबोधजनकत्वप्रसङ्ग इत्यर्थः । ननु धातूनां व्यापारमात्रवाचकत्वे गम्यादीनां स्पन्द्यादीनां च तुल्यत्वप्राप्त्या स्पन्द्यादीनामपि सकर्मकत्वं स्यान्न चैतदिष्टमित्याशङ्क्याहफलान्वितेति, गम्यादीनां व्यापारमात्रवाचकत्वेपि जनकतासंबन्धेन फलान्वितस्वार्थव्यापारबोधकत्वं नैसर्गिकमेवेति गम्यादीनां सकर्मकत्वं स्पन्द्यादिषु तु तदभावात् फलान्वितव्यापारबोधकत्वं नास्तीति न तेषां सकर्मकत्वं किं वऽकर्मकत्वमेवेत्यर्थः । स्पन्द्यादिबोध्यव्यापारे जनकतासंबन्धेनापि फलान्वयो न संभवतीति तेषामकर्मकत्वमिति यावत् ।
धातोर्व्यापारमात्रवाचितामतं परिहरति- तन्नेति, येतिगमनार्थको धातुः । पर्यायताभ्रमदशायां त्यजिगम्योः समानाकारकबोधजनकत्वं सर्वप्रसिद्धमेवेति धातुविशेषसमभिव्याहारस्य फलविशेषबोधनियामकत्वं त्वदुक्तं न संभवति- ' त्यजति ' इत्यत्रोक्तपर्यायताभ्रमदशायां गमिसममिव्याहासभावेपि संयोगरूपफलबोधस्येष्टवादिति न धातूनां व्यापारमात्रवाचिता किं तु फलवाचकतापि स्वीकार्येति फलानां संयोगादीनां विलक्षणत्वाद् धातूनां विलक्षणबोधजनकत्वं सिध्यतीत्यर्थः । शकते- न चेति, तद्बोधोत्पत्तेः त्यज्यादिभ्यः संयोगाद्यवच्छिन्नव्यापारबोधोत्पत्तेः । ननु यदि त्यजधातोस्तात्पर्यसत्त्वे संयोगावच्छिन्नव्यापारमोधकरवं त्वन्मतेस्ति तदा 'ग्रामं गच्छति' इत्यस्य स्थाने स्वरसतः ‘ग्रामं त्यजति' इतिप्रयोगस्त्वया कथं न क्रियते । इत्याशक्याह- परं त्विति, 'ग्रामं त्यजति । इत्यत्र फलप्रत्ययतात्पर्यस्य-कर्मप्रत्ययस्यानादितात्पर्य विभागरूपफले एवास्तीति न संयोगरूपफलप्रत्यायनेच्छया स्वरसतस्तादृशप्रयोगः'ग्रामं त्यजति । इति प्रयोगो मवतीत्यर्थः । परिहारमाह- विनेति । धातोरिति- धातोः
"Aho Shrutgyanam"