________________
(५८८)
सादर्श:
आख्यातप्रकरणेशक्तिभ्रमं लक्षणाग्रह च ' ग्रामं त्यजति ' इत्यादितः सत्यपि तात्पर्ये संयोगावच्छिन्नव्यापारामतीतेरानुभविकतया धातोः फलविशेषवाचिताया आवश्यकत्वात् ।
. 'ज्ञायते इष्यते क्रियते घटः ' इत्यादी विषयत्वरूपं कर्मत्वं तङर्थः । न च कृतिविषयतायाः फलतत्साधनतदुपादानसाधारणतया यत्र ‘घटः क्रियते' इत्यादि प्रयुज्यते तत्र ‘जलाहरणं क्रियते' 'कपालं क्रियते' इत्यादिप्रयोगस्यापतिरिति वाच्यम, कृत्यर्थकधातुसमाभिव्याहतकर्मप्रत्ययस्य चिकीर्षाप्रयोज्यसाध्यताख्यविलक्षणविषयत्वमेवार्थ उक्तस्थले च कपालादौ कृतेस्तादृशविषयत्वाभावानोक्तप्रयोगप्रसङ्गः । 'काशाः कटाः क्रियन्ते' इत्यादी साध्यताख्यविषयताश्रयकर्मान्तरसमभिव्याहृतकर्मप्रत्ययेन व्यापार्यतारूपविषयतापि प्रत्याय्यतेऽत उपादानतया कृतिविषयकाशादौ साध्यतारूपकृति विषयताविरहेपि न ताशप्रयोगानुपपत्तिः । तादृशकर्मसमभिव्याहाररूपतत्प्रयोजकविरहात् 'काशाः क्रियन्ते ' इत्यादौ काशादौ व्यापार्यताबोधानुपपत्तेर्न तादृशप्रयोग इति । फलवाचकत्वे तु त्यज्यादीनां विभागादिरूपफलवाचकत्वात् संयोगादिरूपफलप्रत्यायनेच्छया शक्तिभमं लक्षणाग्रहं वा विना त्यज्यादीनां प्रयोगो न भवतीति धातूनां विलक्षगबोधजनकत्वव्यवस्था संभवति न तु व्यापारमात्रवाचकत्वेपीति धातोः फलविशेषवाचकत्वमावश्यकमेवेत्यर्थः ।
ज्ञादिधातूत्तरकर्मप्रत्ययार्थमाह- ज्ञायत इत्यादिना । ' ज्ञायते घटः । इत्यस्य 'ज्ञानविषयो घटः' इत्यर्थः, एवमपि । ननु कृतिविषयता हि फले फलसाधने फलसाधनोपादानकारणे च तुल्यरूपैवेति — घटः क्रियते । इत्यत्र ' जलाहरणं क्रियते' इत्यपि प्रयोगः स्यादित्याशङ्कयाह- न चेति । ' जलाहरणम् ' इति फलम्, 'घटः' इति तत्साधनम्, 'कपालम् ' इति फलसाधनोपादानमिति विवेकः । उत्तरमाह- कृत्यर्थकेति, चिकीर्षाप्रयोज्या या साध्यताख्या विलक्षणविषयता सा कृत्यर्थकधातुसमभिव्याहृतकर्मप्रत्ययार्थोस्ति. उक्तस्थले 'घटः क्रियते । इत्यत्र च कृते:-कृतिनिरूपिता तादृशविषयता चिकीर्षाप्रयोज्यसाध्यतास्यविषयता घटे एवास्ति न तु कपालादाविति 'कपालं क्रियते । इत्यादिप्रयोगापत्तिर्नास्तीत्यर्थः । काशा इति- 'काशाः कटाः क्रियन्ते । इत्यत्र साध्यताख्यविषयताश्रयो यः काशापेक्षया कर्मान्तरं कटस्तत्सम भिव्याहृतेन 'क्रियन्ते । इतिधातूत्तरकर्मप्रत्ययेन व्यापार्यतारूपविषयता व्यापारविषयता ( व्यापारकर्मत्वम् ) अपि प्रत्यारपते साध्यताख्यविषयतापि प्रत्याय्यते तत्र साध्यताख्यविषयता कटेस्ति काशे च साध्यताख्यविषयताया असत्त्वेपि व्यापरविषयतास्त्येव- कटानुकूलव्यापारकर्मत्वादिति काशानामपि कर्मत्वप्राप्त्या ' काशाः कटाः क्रियन्ते । इतिप्रयोगानुपपत्तिर्नास्ति, अन्यथा काशे साध्यताविरहात् काशानां कर्मत्यासंभवादेतादृशप्रयोगो नोपपद्यतेत्यर्थः । कि वा ननु काशेषु साध्यताख्यविषयताविरहेण कर्मत्वासंभबात् 'काशाः कटाः क्रियन्ते ' इति प्रयोगो नोपपद्यतेत्याशझ्याह- काशा इति । साध्य
"Aho Shrutgyanam"