________________
लटो वर्तमानार्थकत्वम् ]
व्युत्पत्तिवादः ।
( ५८९ )
'काशाः कटाः क्रियन्ते ' इत्यादावपि विशेष्यभेदेन वाक्यार्थभेदात् कर्मtयवाचकपदयोः समभिव्याहारे व्यापार्यताबोधानुपपत्तिः, एवम्- क्रियते ' इत्यत्र विषयतायाः कर्मप्रत्ययार्थत्वे पाकानुपधायककृतिमादाय ' पाकोऽकारि ' इत्यादिप्रयोगापत्तिरित्यादिकं तु दूषणं निराकृतमधस्तात् ।
८
L
कर्तृकर्मवत् कालविशेषेऽनुशिष्टा लडादयः कालविशेषमपि बोधयन्ति । तत्र लट्प्रत्ययस्य वर्तमानकाले शक्तिः, पचति ' इत्यादी कृत्यादिरूपव्यापारबोधकप्रत्ययोपस्थाप्यकालस्तादृशव्यापार एवान्वेति न तु क्रियायाम् - यदा ताख्यविषयताश्रयकर्म समभिव्याहृतेनैव कर्मप्रत्ययेन व्यापार्यतारूपविषयता प्रत्याय्यते नान्यथेति काशाः क्रियन्ते ' इत्येतादृशप्रयोगापत्तिर्नास्ति - अत्र काशेषु साध्यताख्यविषयतापि नास्ति साध्यताख्यविषयताश्रयी भूतकटरूपकर्मान्तरसमभिव्याहाराभावात् कर्मप्रत्ययेन व्यापार्यतारूपविषयता च न प्रत्याय्यते यस्याः काशेष्यन्वयः स्यादिति न काशाः क्रियन्ते इतिप्रयो गापत्तिरित्यर्थः ।
6
L
ननु ' काशाः कटा क्रियन्ते इत्यत्र काशानां व्यापार्यत्वात् कटस्य च साध्यत्वाद् विशेष्यभेदेन वाक्यार्थभेदः स्यादिति कर्मद्वयवाचकपदयोः समभिव्याहारे कर्मप्रत्ययेन व्यापायताबोधो नोपपद्यते इत्याशङ्कयाह - काशा इति । इत्यादिकं तु दूषणं निराकृतमध - स्तात् " इत्यनेनान्वयः । अधस्तात् = द्वितीयाकारके कृत्यर्थकधातुनिरूपणे ३४३ | वाक्यार्थभेदापत्तौ हि ' काशाः कटाः क्रियन्ते ' इत्येकवाक्यार्थस्थाने 'काशाः क्रियन्ते' कटाः क्रियन्ते ' इत्येवं प्रयोगद्वयमापद्येत न चैतदिंष्टमिति तत्रैवात्रापि व्यापार्यतारूपविषयताकत्व विशिष्टे व्यापारे सांध्यतारूपविषयताकत्वस्यान्वयस्वीकारान विशेष्यतामेदस्तथा च न वाक्यार्थभेदापत्तिर्वा - क्यार्थमेदापत्त्यभावाच्च व्यापार्यताबोधानुपपत्तिर्नास्तीत्यर्थः । ननु ' क्रियते ' इत्यत्र यदि विषयतामात्रं कर्मप्रत्ययार्थस्तदा पाकाऽजनककृतिमादायापि ' पाकोडकारि ' इतिप्रयोगः स्यादेव - पाकाजनककृतिविषयत्वस्यापि पाके संभवादित्याशङ्क्याह- क्रियते इति । अधस्तात् -" असा - धारणानुकूलत्वं हि यत्ने क्रियायाः संबन्धतया भासते ९६५१ इत्यादिना । तथा च पाकादीनां कृतावसाधारणानुकूलत्वसंबन्धेनान्वयस्येष्टत्वात् पाकानुपधायककृतौ चाऽसाधारणाऽनुकूलत्वं नास्तीति तादृशसंबन्धेन पाकान्वयासंभवाद् न पाकानुपधायककृतिमादाय पाकोऽकारि ' इत्यादिप्रयोगापत्तिरित्यभिप्रायः प्रतीयते ।
65
लकाराणां कालविशेषबोधकत्वं व्युत्पादयति-कर्तृकर्मवदित्यादिना । लटो वर्तमानकालबोधकत्वमाह - तत्रेति । ' पचति ' इत्यादावाख्यातस्यैव कृतिबोधकत्वं वर्तमान कालबोधकत्वं चास्तीति कृतिरूपव्यापारबोधको य आख्यातप्रत्ययस्तदुपस्थाप्यकालस्य तादृशव्यापारे= आख्यातोपस्थाप्यकृतिरूपव्यापारे एवान्वयो भवति न तु धात्वर्थक्रियायामित्यन्वयः । उक्ते हेतुमाह-- यदेति यद्याख्यातोपस्थाप्यकालस्य धात्वर्थ व्यापारेऽन्वयः
स्यात्तदा
ラ
"Aho Shrutgyanam"