________________
सादर्श:
( ५९० )
पुरुषो
यत्नशून्यस्तदधीनाग्निसंयोगादिरूपः पच्यादेरर्थो विद्यते तदा
अयं न
<
पचति ' इतिप्रयोगात्, ' अयं पचति इत्युक्ते इदानीमयं पाकयत्नवान वा ' इतिसंशयनिवृत्तेः । पूर्वापरीभावापन्नस्थाल्यारोपणादिव्यापाराणां विशिष्य पच्याद्यर्थघटकत्वेन प्रत्येकतद्व्यापारेषु कालान्वयबोधापेक्षया कृत्यादिरूपैकार्थे, तदन्वयस्यैव लाघवेनोचितत्वाच्च ।
,
[ आख्यातप्रकरणे
"Aho Shrutgyanam"
£
वर्तमानकालश्च तत्तच्छब्दप्रयोगाधिकरणकालरूपस्तत्तच्छन्दार्थः, अतो नैककालप्रयुक्तलडादितोऽपरलडादिप्रयोगाधिकरणकालीनत्वस्य कृत्यादावन्वयः । स्वप्रयोगाधिकरणकालत्वेन स्ववाच्यत्वे स्वत्वाननुगमाच्छक्त्यानन्त्यं सामान्यतो व्युत्पत्तेदुर्घटतयाऽपूर्वव्यक्तिबोधानुपपत्तिः सर्वनामविचारदर्शितरीत्या समाध्यस्यते - विशिष्य तत्तकालत्वावच्छिन्नबोधस्यानुभवसिद्धतया सर्वनामशक्ती बुद्धिपच्यादिधात्वर्थस्यामिसंयोगादिरूपस्य सत्त्वे यत्नस्य चासत्त्वेपि " पचति इति प्रयोगः स्यात् न पचति ' इतिप्रयोगो न स्यात् भवति च यत्नशून्यदशायां न पचति ' इतिप्रयोगस्तस्माज्ज्ञायते कालस्य कृतावेवान्वयो भवति न तु क्रियायामित्यन्वयः । हेत्वन्तरमाह - अयं पचतीति, ' पचति ' इत्युक्ते वर्तमानकाले पाककर्तरि यत्नवत्त्वनिश्चय एव भवति न तु ' पाकयत्नवान्न वा ' इति यत्नवत्त्वसंशय इत्येतस्मादपि विज्ञायते आख्यातोपस्थाप्यकालस्याख्यातोपस्थाप्यकृतावेवान्ययो भवतीति अन्यथा पचति' इत्युक्तेपि पाकयत्नवान्न वा' इति संशयः स्वादेवेत्यन्वयः । उक्ते विनिगमनामप्याह - पूर्वापरीति, पच्याद्यर्थभूता हि पूर्वापरीभावापन्नाः स्थाल्यारोपणादयो बहनो व्यापाराः सन्ति प्रत्येकं तादृशव्यापारेषु कालान्वयापेक्षया कृतिरूपे एवैकस्मिन् पदार्थे आख्यातार्थभूते तदन्वये = कालान्वये लाघवमस्तीति कृतावेव कालान्वय उचितो न तु धात्वर्थक्रियायामित्यर्थः । " कालान्वयबोधापेक्षया" इत्यत्र ' कालान्वयापेक्षया ' इतिपाठो युक्तः ।
,
6
C
वर्तमानकालं निर्वक्ति- वर्तमानकाल इत्यादिना । तत्तच्छब्दार्थः = तत्तदाख्यातार्थः । 'पचति' इतिप्रयोगाधिकरणकाल एव ' पचति ' इतिपदघटकाख्यातार्थः स एवात्र वर्तमानकाल इति तस्यैवैतत्कालिककृतावन्वय इति न प्रयोगान्तराधिकरणीभूतकालस्य प्रयोगान्तरघटकाख्यातार्थकृतावन्वय इत्याह-- अत इति । स्वप्रयोगेति- स्वप्रयोगाधिकरणकालः स्ववाच्यः ( भाख्यातवाच्यः ) इत्येवमुक्ते स्वपदार्थाननुगमाच्छत्त्यानन्त्यं स्यात् किं च सामान्यतो लडादीनां तदर्थभूतकाले व्युत्पत्तिः - शक्तिप्रहो न स्यादित्यऽपूर्वव्यक्तेः = अगृहीतशक्तिककालस्य या बोधानुपपत्तिः सा सर्वनामशक्तिग्रहरीत्या लडादीनामपि तदर्थकाले शक्तिग्रहं व्युत्पाद्य समाधास्यते इत्यन्वयः । तादृशाभिप्रेतरीतिमाह - विशिष्येति, ' पचति ' इत्याद्युक्ते तत्तत्कालस्य विशेरूपेण बोधो भवत्येवेति यथा तत्पदस्य बुद्धिस्थत्वोपलक्षितधर्मावच्छिन्ने शक्तिरस्ति तथात्रापि शब्दप्रयोगाधिकरणत्वोपलक्षितधर्मावच्छिन्ने ( वर्तमानकाले ) लट: शक्तिरस्तीति नाऽपूर्वका
C
>