________________
वर्तमान काल विचारः ]
व्युत्पत्तिवादः ।
( ५९१ ) स्थत्ववच्छब्दप्रयोगाधिकरणत्वमुपलक्षणविधया व्यावर्तकं वाच्यम् । न च तत्तत्कालत्वस्यैवमप्यऽवाच्यत्वे तद्भानानुपपत्तिरसमाधेयैवेति वाच्यम्, शब्दप्रयोगाधिकरणवृत्तिकालत्वव्याप्यधर्मत्वेन तत्तत्कालत्वानामेवोपलक्षणीयत्वात् ।
अथ शब्दप्रयोगाधिकरणवृत्तिकालत्वव्याप्यधर्मो वर्षत्वादिकमपि कालदयावृत्तिधर्मत्वनिवेशेप्येतद्रूपमासत्वादिव्यावर्तनमशक्यम्, क्षणद्वयावृत्तिक्षणवृत्ति
धर्मत्वेन तद्व्यावर्तने चाऽध्ययनाद्यनधिकरणेप्यऽध्ययनाद्यधिकरणस्थूलकालान्तर्गतक्षणेऽसमाप्तारब्धाध्ययने पुंसि चिन्तामणिमयमधीते ' इत्यादिप्रयोगानुपपत्तिः ।
C
लव्यक्तिबोधानुपपत्तिरित्यर्थः । ननु तत्तच्छब्दप्रयोगाधिकरणत्वोपलक्षितधर्मावच्छिन्नस्य वाच्यत्वे हि तत्तत्कालव्यक्तीनामेव वाच्यत्वं स्यात् तत्तत्कालव्यक्तीनां चानन्त्यादऽपूर्वकालव्यक्तिभानानुपपत्तिरस्त्येव, न चोक्तरीत्या कालत्वस्य वाच्यत्वं प्राप्तं येन कालत्वेन रूपेणापूर्व कालव्यक्तेरपि बोधः स्यादित्याशङ्क्याह-- न चेति । उत्तरमाह - शब्दप्रयोगेति, शब्दप्रयोगाधिकरणीभूतो यः कालस्तद्वृत्तिर्यः कालत्वव्याप्यधर्मस्तेन कालत्वव्याप्यधर्मत्वेन सामान्यरूपेण तत्तत्कालत्वानामेव शब्दप्रयोगाधिकरणत्वमुपलक्षणं स्त्रीक्रियते इति तत्कालत्वस्य वाच्यत्वं प्राप्तमेवेति नाऽपूर्वकालव्यक्तिज्ञानानुपपत्ति:- कालत्वेन रूपेण तासामप्याख्यातजन्यबोधविषयत्वसंभवादित्यर्थः प्रतिभाति । (2 तत्तत्कालत्वस्यैवमपि " इत्यत्र " तत्कालस्यैवं सति ' इत्यपि पाठो दृश्यते ।
शङ्कते - अथेति, शब्दप्रयोगाधिकरणीभूतो यः काकस्तद्वृत्तिकालत्वेन व्याप्यमेव वर्षत्वादिकमिति ' पचति ' इत्युक्ते पाकानुकूलकृतौ वर्षस्याप्यन्वयः स्यात् न च वर्षपर्यन्तं ताहशकृतिरनुवर्तते इत्यर्थः, ननु शब्दप्रयोगाधिकरणवृत्तिकालत्वव्याप्यधर्मो हि कालद्वयाऽवृत्तिरेव धर्मो
वर्षत्वं तु शब्दप्रयोगाधिकरणकाले शब्दप्रयोगानधिकरणकाले च वर्तते - वर्षस्य सखण्डकालत्वादिति वर्षत्वादिकं न गृह्यते इति नोक्तदोषापत्तिरित्याह- कालद्वयेति । अत्रापि दोषमाह - एतद्रूपेति, मासकालस्त्वखण्ड एवेति मासत्वं कालद्वयावृत्त्येवेति मासत्वग्रहणे प्राप्ते उक्तत्या पाकादिकृतौ मासाद्यखण्डकालस्यान्वयः स्यादेव न चैतदिष्टमित्यर्थः । ननु शब्दप्रयोगाधिकरणवृत्तिकालत्वव्याप्यधर्मो हि क्षणद्वयावृत्तिक्षणवृत्तिधर्मो गृह्यते तादृशधर्मश्च क्षणत्वमेव क्षणत्वावच्छिन्नकालस्य च पाककृत्यादावन्वय इष्ट एव, मासत्वादिकं च क्षणवृत्त्यपि न क्षणद्वयावृत्तीति न पाकादिकृतौ मासाद्यऽन्वयापत्तिरित्याह- क्षणद्वयेति । तदूव्यावर्तने मासत्वादिव्यावर्तने । अत्रापि दोषमाह- अध्ययनेति, एवं हि ' अधीते ' इत्यत्राध्ययनानुकूलकृतावपि क्षणकालस्यैवान्वयः स्यादित्यऽध्ययनाधिकरणीभूतस्थूलकालान्तर्गतेऽध्ययनानधिकरणे क्षणे (रायनादिक्षणे ) ' अधीते ' इतिप्रयोगानुपपत्तिः स्यात् न चैतदिष्टम् - तादृशाध्ययनानधिकरणेपि क्षणे ' अधीते ' इतिप्रयोगस्येष्टत्वादित्यर्थः ।
"Aho Shrutgyanam"