________________
( ५९२ )
सादर्श:
[ आख्यातप्रकरणे
यदि च स्वप्रागभावानधिकरणस्वाश्रयकर्तृकमकृत क्रियानाशप्रागभावाधिकरशब्दप्रयोगाधिकरणकाल एव वर्तमानकाल आधेयतासंबन्धेन कृतावन्वेत्यस्तो नोक्तस्थले 'चिन्तामणिमयमधीते' इत्यादिप्रयोगानुपपत्तिः, आरम्भावधिसमाप्तिपर्यन्तस्य स्थूलकालस्यापि तथात्वेन शब्दप्रयोगाधिकरणक्षणादिरूपान्तराल कालेऽध्ययनाद्यनुकूलकृतिविच्छेदेपि शब्दप्रयोगाधिकरणत्वोपलक्षिततादृशस्थूलकाल वृत्तित्वस्यापि तादृशक्रियानुकूलकृतावऽबाधेन योग्यतानिर्वाह इत्युच्यते ? तदा यः समग्रचिन्तामणिमधीत्य किंचित्कालोत्तरं पुनश्चिन्तामणिमध्येष्यते तत्रान्तं
दूषयितुं परिष्कारान्तरमनुवदति - यदीत्यादिना । स्वं स्वं कृतिः, ' अधीते ' इत्यत्राध्ययनानुकूलकृति प्रागभावानधिकरणं तथाध्ययनानुकूलकृत्याश्रयश्चैत्रस्तत्कर्तृकप्रकृता याध्ययनक्रिया तन्नाशप्रागभावाधिकरणं च यः शब्दप्रयोगाधिकरणकालः स एव वर्तमानकालस्तस्य कृतावाधेयतासंबन्धेनान्वयः– कृतेस्तादृशकाले वर्तमानत्वादिति उक्तस्थले=अध्ययनाधिकरणस्थूल कालान्तर्गतेऽध्ययनानधिकरणक्षणे ‘अधीते ' इतिप्रयोगानुपपत्तिर्नास्तीत्यर्थः । अत्र विवक्षितकृतेः पूर्वकालस्य व्यावृत्त्यर्थं स्वप्रागभावानधिकरणेत्युक्तमुत्तरकालव्यावृत्त्यर्थं च नाशप्रागभावाधिकरणेत्युक्तम्- उत्तरकाले नाशस्यैव सत्त्वेन नाशप्रागभावासंभवादिति विशेषणद्वयेन विवक्षितकृत्यनुवृतिकाल एव ग्रहीतुं शक्यते इति भावः । प्रयोगानुपपत्तेरभावमुपपादयति- आरम्भेति, तथात्वेनस्वप्रागमावानधिकरणत्वाश्रय कर्तृकप्रकृत क्रिया नाशप्रागभावाधिकरणशब्दप्रयोगाधिकरणकालरूपत्वेन विवक्षिताध्ययनादिकृत्यनुवृचिकाकत्वेनेति यावत् ' अधीते ' इत्यादिशब्दप्रयोगाधिकरणी भूतों यः क्षणादिरूपोन्तरालकालोऽध्ययनरहितका उस्तत्राध्ययनाद्यनुकूलकृतेर्विच्छेदेपि-अभावेपि शब्दयोगाधिकरणत्वोपलक्षितो यस्तादृशस्थूलकाल:-उक्तारम्भावधिसमाप्तिपर्यन्तः स्थूलकालस्तद्वृत्तित्वं तादृशक्रियानुकूलकृतौ अध्ययनाद्यनुकूलकृतावस्त्येवेति न योग्यतानुपपत्तिरपि तथा चाध्ययनाधिकरणस्थूलकालान्तर्गताध्ययनानधिकरणक्षणेपि न 'अधीते' इतिप्रयोगानुपपत्तिः - ' अधीते ? इत्यत्राध्ययनारम्भावधिसमाप्तिपर्यन्तस्यैव स्थूलकालस्य वर्तमानत्वेनाभिप्रेतत्वात् । एवमेवान्यत्रापि विवक्षितक्रियारम्भावधितादृश क्रियासमाप्तिपर्यन्तस्यैव कालस्य वर्तमानकालत्वं ज्ञेयं स च कालः क्षणमात्ररूपो वा स्याद् वर्षरूपो वा स्यादित्यर्थः । अत्रापि दोषमुद्घाटयति - तदेति, एवं हि यत्रैकदा चिन्तामणिरधीता पुनरपि कालान्तरेऽध्येतव्यास्ति तत्रान्तरालदशायाम् = चिन्तामणेः प्रथमाध्ययनानन्तरं द्वितीयाध्ययनाच्च पूर्वमपि चिन्तामणिमधीते ' इतिप्रयोगापत्तिः स्यादेव – एतादृशान्तरालका लेप्यऽध्ययनानुकूलकृतिप्रागभावानधिकरणत्वमस्त्येव - प्रथमाध्ययनानुकूलकृतेर्जातत्वात् तादृशाध्ययनानुकूलकृत्याश्रयी भूतचेत्रादिकर्तृकप्रकृताध्ययनक्रियानाशप्रागभावाधिकरणत्वमप्यस्त्येव - भाविद्वितीयाध्ययनक्रियानाशस्याऽजातत्वेन तत्प्रागभावाधिकरस्वस्य सत्त्वादित्यर्थः । अत्र द्वितीयाध्ययनक्रिया येन न प्राह्या स्यादेतादृशनिवेशस्तु नास्त्ये
6
"Aho Shrutgyanam"