________________
वर्तमानकाल निर्वचनम् ]
व्युत्पत्तिवादः ।
( ५९३ )
6
राब्दशायामपि अयं चिन्तामणिमधीते ' इतिप्रयोगापत्तिः । यदि स्तुतिपाठादिविच्छेददशायामपि प्रत्यहमयं स्तुतिं पठति ' इत्यादिवदुक्तस्थलेपि दर्शितप्रयोग इष्ट एवेत्युच्यते ? तदापि स्वपदेन विशिष्य तत्तत्कृतीनामुपादानेनाननुगमो दुरुदर एवेतिचेत् ?,
न - शब्दप्रयोगाधिकरणवृत्तिकालत्वव्याप्यधर्मत्वेनोपलक्षणेनाऽनुगतीकृतततत्क्षणदिनमासवर्षत्वाद्यवच्छिन्ने एव काले लटः शक्तिः । क्रियारम्भात् पूर्वं कर्मसमाप्त्युत्तरं च ' अधीते ' ' पचति ' इत्यादिप्रयोगवारणाय कृत्यादिरूप - व्यापारे तादृशकालस्य स्ववृत्तिप्रागभावाऽप्रतियोगित्वस्ववृत्तिध्वंसाऽप्रतियोगिप्रकृतक्रियाकर्तृनिष्ठत्वाभ्यां विशेषितेनाधेयतासंबन्धेनोऽन्वयनियम उपगन्तव्यः, तत्तत् क्रियारम्भपूर्वमपि तत्समाप्युत्तरमपि वा वर्तते यस्तत्तत् क्रियानुकूलकृत्य
C
वेति विज्ञेयम् । ननु यथा स्तुतिपाठविच्छेददशायामपि ' प्रत्यहं स्तुतिं पठति' इतिप्रयोग इष्टस्तथा उक्तस्थले==प्रथमाध्ययनानन्तरं द्वितीयाध्ययनारम्भात् पूर्वमेतादृशान्तरालदशायामपि ' अधीते ' इतिप्रयोग इष्ट एवेति प्रयोगापत्तिर्न दोष इत्याशङ्क्याह- यदीति । अत्र दोषमाह - तदापीति, उक्ते " स्वप्रागभावानधिकरणस्व " इत्यादिपरिष्कारे स्वपदेन विशेषरूपेणैव तत्स्कृतीनां ग्रहणापत्त्याऽननुगमस्त्वऽपरिहार्य एवेत्यर्थः ।
अथेत्यादिना शङ्कितं परिहरति- नेति, ' अधीते ' इत्यादिशब्दप्रयोगाधिकरणीभूतो यः कालस्तद्वृत्तिकालत्वव्याप्यधर्मत्वेनोपलक्षणभूतेन विवक्षितकृत्यनुवृत्त्यधिकरणीभूतक्षणदिनमासवर्षादीनामनुगमः संभवत्येव तादृशानुगतीकृतकाले एव लटः शक्तिः स एव च वर्तमानकाल इत्युच्यते तथा च शब्दप्रयोगाधिकरण कालवृत्तिकालत्वव्याप्यधर्मोपलक्षितधर्मावच्छिन्ने ( क्षणदिनमासवर्षादौ ) लटः शक्तिरस्तीत्यत्र स्वपदप्रवेशो नास्तीति न त्वत्प्रदर्शिताऽनुगमापत्तिरित्यर्थः । नन्वेवं क्रियारम्भपूर्वकालस्य क्रियासमाप्त्युत्तरकालस्यापि च शब्दप्रयोगाधिकरणकालवृत्तिकाल - त्वव्याप्यधर्मोपलक्षितधर्मावच्छिन्नत्वात्तत्रापि पचति ' ' अधीते ' इत्यादिप्रयोगः स्यात्. न चैतदिष्टमित्याशङ्कयाह- क्रियारम्भादिति, कृत्यादिरूपव्यापारे = पाकाद्यनुकूलकृतौ तादृशकालस्य = शब्दप्रयोगाधिकरणकालवृत्तिकालत्वव्याप्यधर्मोपलक्षितधर्मा (क्षणत्वादि ) वच्छिन्नकालस्य स्ववृत्तीत्यादिविशेषणविशिष्टाधेयता संबन्धेनान्वयः कृतौ हि तादृशकाले वर्तमानत्वादाधेयत्वमस्त्येव, स्त्रवृत्तीति-- ' अधीते ' इत्यादी स्त्रं तादृशकालस्तद्वृत्तिप्रागभावाप्रतियोगित्वमध्ययनायनुकूलकृतावत्येव तादृशकाले तादृशकृतेजतत्वेन कृतिप्रागभावस्याऽसत्त्वात् स्वं तादृशकालस्तद्वृत्तिध्वंसाऽप्रतियोगिभूता या प्रकृताध्ययनादिरूपा क्रिया तत्कर्तृनिष्ठत्वमप्यध्ययनाद्यनुकूलकृतावस्त्येव - तादृशकाले क्रियाया वर्तमानत्वेन ध्वंसप्रतियोगित्वं नास्त्येव तादृशाध्ययनादिकृतावातापि वर्तते इति साधेयता सामानाधिकरण्यसंबन्धेन स्ववृत्तिप्रागभावाप्रतियोगित्वस्ववृत्तिध्वंसाप्रतियोगिप्रकृतक्रियाकर्तृनिष्ठत्वाभ्यां विशिष्टा जातेत्येतादृशविशिष्टाधेयतासंबन्धेनोक्तका
३८
"Aho Shrutgyanam"