________________
(५९४)
सादर्शः
( आख्यातप्रकरणेधिकरणकालस्तस्य दर्शितविशिष्टाधेयतासंबन्धस्तादृशकृतौ बाधितोऽप्रसिद्धोवेति न शब्दप्रयोगाधिकरणतादृशकालमादाय दर्शितप्रयोगापत्तिः । संबन्धे स्वपदा. र्थस्य विशिष्य निवेशेप्युपपत्तिश्चिन्त्या ।।
न च क्रियानुकूलकृतिशून्यान्तरालदशायां स्थूलकालमादाय 'पति' 'अधीते' इत्यादिवत् तादृशकृत्यधिकरणक्षणेपि स्थूलकालावच्छिन्नाभावमादाय 'न पचति ' 'नाधीते ' इत्यादिप्रयोगः- तत्र नओ वर्तमानक्षणमात्रान्वितताशक्रियानुकूलकृत्यभावबोधकतानियमात्, उक्तरीत्या विशिष्य शब्द. प्रयोगाधिकरणक्षणादिरूपकालस्यापि लट्प्रत्ययेन बोधनसंभवात् । लस्य कृतावन्वयः स्वीक्रियते तथा च विवक्षितक्रियाया आरम्भात् पूर्वकालस्य समाप्त्युत्तरकालस्य च विवक्षितकृतावुक्तविशिष्टाधेयतासंबन्धेनान्वयो न संभवति क्रियारम्भात् पूर्वकाले कृतेः प्रा. गमावाऽप्रतियोगिवासंभवात् क्रियासमाप्त्युत्तरकाले च क्रियाध्वंसस्यैव जातत्वेन धंसाप्रतियोगिप्रकृतक्रियाकर्तृनिष्ठत्वासंभवाचाऽध्ययनाद्यारम्भात् पूर्वमध्ययनादिसमाप्त्युत्तरं च न' अधीते । इत्यादिप्रयोगापत्तिरित्यर्थः । स्थूलकालगतमैक्यमादाय भूतभविष्यस्कालयोरपि तत्तत्पाकादिक्रियानुकूलकृत्यधिकरणत्वं संभवत्येवेत्यभिप्रायेणोक्तम्- तत्तक्रियानुकूलकृत्यधिकरणकाल इति । बाधित इति~ अध्ययने सति भूतभविष्यकालस्य संबन्धो बाधितः, यदि चाध्ययनमेवाऽसिद्धं तदाऽप्रसिद्ध इति विवेकः । संबन्धविशेषणे प्रथमदलमारम्भात् पूर्व तादृशप्रयोगवारणाय द्वितीयदलं च समाप्त्युत्तरं तादृशप्रयोगवारणाय विज्ञेयम् । नन्वत्रापि संबन्धमध्ये स्वपदार्थ निवेशादननु - गमापत्तिः स्यादित्याशङ्क्याह- संबन्धेति । चिन्त्येति-स्वपदवाच्याना कालव्यक्तीनां संबन्धमध्ये प्रवेशादुपस्थित्यपेक्षा नास्ति येनाननुगमः स्यादित्यर्थः ।।
ननु स्थूलकाले कृतिरपि भवति कृत्यभावोपि भवति-स्थूलकालान्तर्गतकिंचित्क्षगादावेव कृतिसंभवादिति यथाऽध्ययनायनुकूलकृतिशून्यायामन्तरालदशायां स्थूलकालमादाय स्थूलकालवृत्तिकृतिमुद्दिश्य 'अधीते ' इत्यादिप्रयोगो भवति तथा स्थूलकालवृत्चितादृशकृत्यभावमादाय तादृशकृत्यधिकरणक्षणे ' नाधीते ' इत्यपि प्रयोगः स्यादित्याशङ्क्याहन चेति । उत्तरमाहतत्रेति, तत्र' नाधीते । इत्यत्र नत्रा वर्तमानक्षणमात्रान्चितो यस्तादृशक्रियानुकूलकृत्यभावः स बोध्यते वर्तमानक्षणे च तादृशक्रियानुकूलकृत्यभावो नास्तीति न स्थूलकालावच्छिन्नाभावमादाय तादृशकृत्यधिकरणक्षणे ' नाधीते ' इत्यादिप्रयोगापत्तिरित्यर्थः । किं च भावान्त्रयबोधस्थले किंचितक्षणावच्छेदेनाप्यऽध्ययनादिसंबन्धसत्वे 'मासमधीते, इत्यादिप्रयोगो भवति. अभावान्वयबोधस्थले त्वभावस्य विवक्षितकालस्य यावतक्षणकूटेन संबन्धे सत्येव 'नाधीते' इत्या. दिप्रयोगो भवति अन्यथाऽध्ययनस्येवाऽध्ययनामावस्यापि मासवृत्तिकिंचित्क्षणावच्छेदेन संबन्वस्य सत्त्वात् — मासमधीते । इतिवत् 'मासं नाधीते' इत्यपि प्रयोगः स्यादेव तथा चात्रापि स्थूलकालस्य यावतक्षणकूटेनाध्ययनाभावसंबन्धस्यासत्त्वात् 'नाधीते, इत्यादिप्रयोगस्योक्त
"Aho Shrutgyanam'