________________
लडकालान्वय बेचार : ]
व्युत्पत्तिवादः ।
(939)
नञ्समभिव्याहारस्थलेपि प्रतियोगिन्येव कालान्वय इति तु न सत्-तत्तत्क्षणवृत्तिपाकादिकृतेर भावस्यान्यक्षणावच्छेदेन तदानींतनस्थूलकालावच्छेदेन ताकृतिमति सत्त्वेनोक्तातिप्रसङ्गस्य दुर्वारत्वात् ।
न च कालानवच्छिन्नाधारता संबन्धेन नञर्थस्प पुरुषेऽन्वयानोक्तातिप्रसङ्ग इति वाच्यम्, तादृशस्थूलकाले यत्रात्मनि पाकादिकृतिस्तादृश कालान्तर्गतवाहशकृत्यनधिकरणक्षणे न पचति' इत्यादिप्रयोगोपपत्तये तत्तत्क्षणावच्छिनपाकादिकृत्यभाक्बोधस्यैव तत्र तत्र स्वीकरणीयतया क्वचित् प्रतियोम्बऽप्रसिद्धेर्दुर्वारत्वात् ।
स्थले आपत्तिर्नास्तीत्यर्थः । ननु वर्तमानक्षणस्तु शब्दप्रयोगाधिकरणक्षण एवं तस्पोपस्थित्यसंभवात् ' नाधीते ' इत्यादौ नत्रा वर्तमानक्षणमात्रान्त्रितस्य तादृशक्रियानुकूल कृत्यभावस्य कथं बोधः स्यादित्याशङ्क्याह- उक्तरीत्येति । उक्तरीत्या = " शब्दप्रयोगाधिकरणवृत्ति कालत्वया - प्यधर्मत्वेन ५९३ " इत्याद्युक्तरीत्या क्षणादिकाले लट: शक्तिरस्तीति तस्य विशिष्य लट्प्रत्यये बोधसंभवान काचिदनुपपत्तिरित्यर्थः ।
ननु ' नाधीते ' इत्यादिन समभिव्याहारस्थले स्वया कृत्यभावे वर्तमानकालस्यान्वय उक्तस्तन्न वक्तव्यम् अन्यथा नञसमभिव्याहारस्थले कृतौ नञ्समभिव्याहारस्थले कृत्यभावे कालान्वय इति वैषम्यं स्यादिति प्रतियोगिभूतकृत्यादावेव कालान्वयः कर्तव्यस्तथा च शब्दप्रयोगाधिकरणक्षणवृत्तिकृतेरभावो नत्रा बोधयिष्यते इत्याशङ्कयाह - नञिति । परिहारहेतुमाह - तत्तत्क्षणेति, एवं हि तदानींतन:-शब्दप्रयोगाधिकरणीभूतो यः स्थूल कालस्तदवच्छेदेन तदवच्छिन्नः = तद्व्याप्यो योन्यक्षणः–कृत्यभावक्षणस्तदवच्छेदेन तादृशकृतिमत्यपि चेत्रादौ तत्तत्क्षणवृत्तिपाकाद्यनुकूलकृतेरभावस्य सत्त्वेनोक्तातिप्रसङ्गस्य = ' न पचति' इत्यादिप्रयोगापत्तेर्दुर्वारत्वं स्यातू - अन्यक्षणवृत्तिकृतेरन्यक्षणावच्छेदेनाभावे बाधकाभावादित्यर्थः । अभावे कालान्वये तु तत्क्षणावच्छेदेन कृतौ सत्यां कृत्यभावस्यासत्वात् ' न पचति ' इत्यादिप्रयोगापत्तिर्नास्तीति मावः ।
ननु कृतिः पुरुषे भवतीति पुरुषस्य कृत्यधारत्वात् ' नाधीते ' इत्यादौ कालानवच्छिन्नाधारतासंबन्धेन अर्थात् कालानवच्छिन्नाधारतासंबन्धावच्छिन्नप्रतियोगिताकस्य कृत्यभावस्य पुरुषऽन्वयः कर्तव्यस्तथा च पुरुषेऽध्ययनकृतिसत्त्वक्षणे ' नाधीते ' इतिप्रयोगापत्तिर्नास्तीत्याशङ्क्याह-- न चेति । कालावच्छिन्नाधारतायाः संबन्धत्वे हि क्षणान्तरवृत्तिकृतेरभावस्य कृत्यवच्छि नक्षणेपि पुरुषेऽन्वयसंभवात् अध्ययनादिकृतिक्षणेपि ' नाधीते ' इतिप्रयोगः स्यात् केवलाधारतायाः संबन्धत्वे त्वेतादृशापत्तिर्नास्ति- पुरुषे कृतिसत्त्वे कृत्यभावबोधनासंभवादिति भावः । परिहोरमाह- तादृशेति, तादृशस्थूलकाले = शब्दप्रयोगाधिकरणीभूतस्थूलकाले यस्मिन् पुरुषे पाकादिकृतिरस्ति तस्मिन् पुरुषे शब्दप्रयोगाधिकरणी भूतकालान्तर्गततादृशकृत्यनधिकरणक्षणे 'न पचति' इतिप्रयोगोपपत्तये त्वया तत्तत्क्षणावच्छिन्ना या पाकादिकृतिस्तदभावबोध एव स्वीकार्य :
"Aho Shrutgyanam"