________________
सादर्श:
[ आख्यातप्रकरणेव्यापाराबोधकेन च लडादिप्रत्ययेन क्रियायामेव वर्तमानत्वान्धयो बोध्यते 'जानाति' इत्यादौ न तु लडाश्रयत्वादी-ज्ञानाद्यऽसत्त्वेपि तदाश्रयत्वादिसंबन्धे सति 'जानाति' इत्यादिप्रयोगापत्तेः । ज्ञानादिविशिष्टे आश्रयत्वादौं। कालान्वयमुपगम्यातिप्रसङ्गवारणे ? विशेषणे ज्ञानादावपि तदन्क्यस्यावश्यकत्वे तस्यैव स्वीकारौचित्यात् ।
'नश्यति ' इत्यादौ क्रियायां कालान्वयस्वीकारे विनष्टादावपि 'नश्यति । इत्यादिप्रयोगः स्यादिति तत्रोत्पत्तेरपि लडाद्यर्थत्वमुपगम्य तत्रैव कालान्वयं अभावप्रतियोगिन्येव त्वया कालान्वयस्वीकारात् तथा च कचित प्रतियोग्यऽप्रसिद्धिः स्यात् यतक्षणावच्छिन्नाया कृतेरभावो बोधनीयस्तत्क्षणे कृतेरसत्त्वे ततक्षणावच्छिन्नकृतेः प्रतियोगि भूताया अप्रसिद्धिः प्राप्ता, अप्रसिद्धप्रतियोगिकस्य चाभावस्य बोध एत्र न भवतीति तत्र 'नाधीते' इत्यादिवाक्यजन्यबोधाभावप्रसङ्गः स्यात् न चैतदिष्टमित्यर्थः । वस्तुतस्तु नसम: भिव्याहारस्थले प्रतियोगिनि कालान्वयस्वीकारे 'नाधीते' इत्यनेन शब्दप्रयोगाधिकरणतत्क्षणा: वच्छिन्नायाः कृतेरभावो बोधनीयो न च तत्क्षणे कृतिः संभवति तदभावस्यैव सत्त्वादिति सर्व त्रैव प्रतियोग्यप्रसिद्धिः, तत्क्षणे कृतिसत्त्वे च तदभावासंभवात् तद्बोधनं न संभवतीति विज्ञेयम् । तस्मात् नञ्समभिव्याहारस्थलेऽभावे एव कालान्वयः स्वीकार्यस्तथा च 'नाधीते' इत्यादिशब्द, प्रयोगाधिकरणक्षणे कृतिर्नास्ति तादृशकृत्यभावस्त्वस्त्येवेति क्षणान्तरवृत्त्यध्ययनकृतेः शब्दप्रयो गाधिकरणक्षणेऽभावबोधनं नत्रा नानुपपन्नमिति भावः ।
'पचति । इत्यादी लडाद्यर्थकालस्य लडाद्यर्थकृतावेवान्वयेपि 'जानाति । इत्यादौ तु व कडाद्यर्थाश्रयत्वादी लडाद्यर्थकालस्यान्वयो भवति किं तु धात्वर्थज्ञानादिरूपक्रियायामेवान्वयो भव. तीत्याह- व्यापारेति । व्यापाराऽबोधकेनेति पचति' इत्यादिस्थले लडादेः कृतिरूपव्यापारबो. धकत्वं यदुक्तं तत् 'जानाति' इत्यादौ न संभवति--ज्ञानाद्यनुकूलकृतेरसंभवादित्याशयेन व्यापाराबोधकत्वमुक्तमित्याशयः । यदि लडाद्यर्थकालस्य जानाति' इत्यादी लडाद्यर्थाश्रयत्वेऽन्वयः स्यात्तदा ज्ञानाश्रयत्वं हि ज्ञानसमवाय एव समवायश्च नित्य एवेति ज्ञानासत्वेपि तदाश्रयत्वादिसंबन्धेसति ज्ञानाश्रयत्वरूपसमवायसंबन्धस्य सत्त्वात् ज्ञानाभावकालेपि 'जानाति' इतिप्रयोग आपद्येत न चैव दिष्टमित्याह- ज्ञानाद्यसत्त्वेपीति । ज्ञाने कालान्वये तु ज्ञानाभावकाले 'जानाति' इतिप्रयोगापत्ति स्तीत्यर्थः । ननु 'जानाति' इत्यत्र ज्ञानविशिष्टाश्रयत्वे कालान्वयं वक्ष्यामस्तथा च ज्ञानसमवाय नित्यत्वेपि ज्ञानस्यानित्यत्वेन ज्ञानाभावकाले ज्ञान विशिष्टाश्रयत्वमपि न संभवतीति न ज्ञानाभावका 'जानाति' इतिप्रयोगापत्तिरित्याशङ्क्याह- ज्ञानादिविशिष्ट इति । उत्तरमाह- विशेषण इति ज्ञानविशिष्टाश्रयत्वे कालान्वये विशेषणीभूतज्ञानेपि कालान्वयः प्राप्त एवेति तस्य-ज्ञाने एव काला न्वयस्य स्वीकार उचित इत्यर्थः ।
नश्यतीति- 'नश्यति' इत्यत्र नाशक्रियायां कालान्वये नाशस्य ध्वंसरूपत्वेनाऽनन्तत्वात विनष्टदशायामपि 'नश्यति' इतिप्रयोगापत्तिः स्यादिति तत्र='नश्यति' इत्यादौ नाशोत्पत्ते
"Aho Shrutgyanam"