________________
ऌडर्थकालस्वरूपान्त्रयविचारः ] व्युत्पत्तिवादः ।
( ५९७ )
दीधितिकृदुपजगाम । वस्तुतस्तु नाशत्वमुत्पत्तिमभावत्वं तथा च धातुप्रतिपाद्यतावच्छेदकोत्पत्तावेव कालान्वय इत्येव साधीयः । वर्तमानकालस्योत्पत्तिसंबन्धेन धात्वर्थेऽन्वय इत्यपि वदन्ति ।
लट्प्रत्ययेन 'पक्ष्यति' इत्यादौ प्रत्ययार्थकृतौ. 'ज्ञास्यति' इत्यादी क्रियायां भविष्यत्त्वं प्रत्याय्यते । यद्यपि भुव उत्पत्त्यर्थकतयाऽनागतकालोत्पत्तिकत्वं भविव्यच्छन्दार्थस्तथापि 'पक्ष्यति' इत्यादौ प्रत्ययार्थकृत्यादावनागतत्वमात्रस्य प्रती - तिरुपेयते-उत्पत्तिप्रतीतेर्निष्फलत्वात् । 'भविष्यति' 'उत्पत्स्यते' इत्यादौ च वातुनैव ताशोत्पत्तिः प्रत्याय्यते । 'नक्ष्यति' इत्यादौ व दर्शिता गतिः । · लढाद्यर्थत्वं स्वीकार्य तथा च लडाद्यर्थकालस्यात्र लडाद्यर्थभूतनाशोत्पत्तावेवान्वयः कर्तव्य उत्प श्वानित्यत्वेन विनष्टदशायामसत्त्वान्न विनष्टदशायाम् 'नश्यति' इतिप्रयोगापत्तिरित्यर्थः । स्वाभिप्रायमाह - वस्तुतस्त्वित्ति, 'नश्यति' इत्यत्र धात्वर्थो नाशो नाशश्च ध्वंसरूपत्वादुत्पत्तिमान् (उत्पत्तिविशिष्टः ) अभावपदार्थ एवेत्युत्पत्तेर्धातुप्रतिपाद्यतावच्छेदकत्वम् = धात्वर्थतावच्छेदकत्वं प्राप्तमिति तादृशोत्पत्तावेव कालान्वय इत्यर्थः । अत्र चोत्पत्तौ उडादेः शक्तिकल्पनापेक्षा नास्तीती- दमेव लाघवम्. अन्यत्सर्वं पूर्ववदेव । केचित्तु 'नश्यति' इत्यत्रापि कालस्य धात्वर्थनाशे एवोत्पत्तिसंबन्धेनान्वयः कर्तव्यो विनष्टदशायां च नाशस्याऽनन्तत्वेन सत्त्वेपि संबन्धभूतोत्पत्तेस्तत्रामा-वान विनष्टेपि 'नश्यति' इतिप्रयोगापत्तिरिति वदन्ति तदाह- वर्तमानकालस्येति ।
लृटः कालरूपार्थं निर्वतुमारभते - लडित्यादिना । 'पक्ष्यति' इत्यत्राख्यातार्थकृतौ लडर्थमविष्यत्वस्यान्वयो भवति, 'ज्ञास्यति' इत्यत्र तु भविष्यत्त्वस्य ज्ञानक्रियायामेवान्वयो न तु ज्ञानाश्रयत्वे - पूर्वोक्तदिशा ज्ञानासत्त्वेपि तदाश्रयत्वस्य वर्तमानत्वात् 'ज्ञास्यति' इतिप्रयोगानुपपत्तेरित्यर्थः । यद्यपीति-यद्यपि भविष्यत्त्वमित्यत्र भूधातोत्पत्त्यर्थकतया 'पक्ष्यति' इत्यादी पाककृत्या - दावनागतकालोत्पत्तिकत्वं यदस्ति तदेव भविष्यच्छन्दार्थोस्तीति पाककृत्यादावनागतकालोत्पत्तिकत्वप्रतीतिरेव लूटा प्राप्ता तथाप्युत्पत्तिप्रतीतेर्निष्फलत्वात् प्रत्ययार्थकृतावनागतत्वमात्रस्य लूटा प्रतीतिः स्वीक्रियते इत्यर्थः । 'भविष्यति' इत्यादावुत्पत्तेरेव धात्वर्थतया तादृशोत्पत्तावेवाऽनाग-तत्वस्यान्वयः कर्तव्य इत्याह-भविष्यतीति । दर्शितेति - 'नक्ष्यति' इत्यत्रोत्पत्तेर्लडर्थत्वं धात्वर्थतावच्छेदकत्वं वा ( १९६ ) उक्तरीत्या स्वीकृत्य तादृशोत्पत्तावेव डर्थकालस्यान्वयः कर्तव्यः, अन्यथा=भविष्यत्कालस्य नाशे धात्वर्थेऽन्वयस्वीकारे विनष्टघटप्रतियोगिकवर्तमाननाशस्य स - रूपस्याऽनन्तत्वेन भाविकालेपि संभवात् तत्र भविष्यत्कालस्यान्वयसंभवाच्च तादृशविनष्टघटमादायापि 'नक्ष्यति' इतिप्रयोगः स्यादेव न चैतदिष्टमिति नाशोत्पत्तौ ऌडर्थकालस्यान्त्रयः कर्तव्यस्तथा च वर्तमानो यो घटस्तस्प्रतियोगिकनाशस्योत्पत्तेर्मावित्वात् तत्र भविष्यत्कालान्वयो युक्त इति भाविविनाशस्य प्रतियोगिभूतघटमादायैव 'नक्ष्यति' इतिप्रयोगः संभवति, विनष्टघटप्रतियोगिकनाशोत्पत्तेश्च विनष्टत्वेन तत्र भविष्यत्कालान्वयाऽसंभवाद् विनष्टघटमादाय 'नक्ष्यति'
"Aho Shrutgyanam"