________________
सादर्श:
[ भाख्यातप्रकरणे
( ५९८ ) तथा च वर्तमानप्रागभावप्रतियोगित्वं प्रतियोगितासंबन्धेनाऽन्वयी वर्तमानमार्गभावो वा लट्प्रत्ययार्थः । प्रागभावानङ्गीकारे वर्तमानकालध्वंस एव तदर्थः, ध्वंसस्य कालोपाधित्वेन स्वसमानकालपदार्थाधारतयाऽऽधेयता संबन्धेन. अनागतकृतेर्वर्तमानकालध्वंसोत्पत्तिमत्तया उत्पत्तिसंबन्धन वा कृत्यादावन्वयः ॥
6
व्यथ पचमानेप्युदीच्यपाकानुकूलकृतिमादाय पक्ष्यति' इत्यादिमयोगापत्तिः, पाकानुकूलकृतित्वावच्छेदेन चाऽनागतत्वबोधस्वीकारो न संभवतिपूर्वपूर्वपाकानुकूलकृतौ तद्वाधात् पक्ष्यमाणेपि ' पक्ष्यति' इतिप्रयोगानुपपत्तेः । इतिप्रयोगापत्तिर्नास्तीति बोध्यम् । एवमेव 'मविष्यति' इत्यत्रापि भविष्यत्कालस्योत्पत्तावेवान्वयो विज्ञेयो न तु घटे, अन्यथा वर्तमानघटमादायापि तस्य भाविकालसंबन्धसंभवेन ' भविष्यति इतिप्रयोगः स्यात् न चैतदिष्टम्, अनुत्पन्नघटमुद्दिश्यैव ' भविष्यति' इतिप्रयोगस्येष्टत्वादिति सारः । कालभूतलडमाह - तथा चेति, 'पक्ष्यति' इत्यादौ वर्तमान शब्दप्रयोगाधिकरणक्षणवृत्तिप्रागभावप्रतियोगित्वं पाककृत्यादी. 'ज्ञास्यति' इत्यादौ च ज्ञानादावस्त्येव, किं वोक्तकृत्यादौ वर्तमानप्रागभावप्रतियोगिता वर्तते एवेति तादृशप्रतियोगितासंबन्धेन कृत्यादौ यो वर्तमानप्रागभावः स ऌडर्थ इत्यर्थः । ननु : प्रागभावो हि स्वप्रतियोगिसमवायिकारणे एव भवति नान्यत्र नाशश्च ध्वंस एव ध्वंसस्य च न समवायिकारणं किमपि भवति यत्र व्वंसरूपनाशस्य प्रागभावः संभवेदिति 'नङ्क्ष्यति' इत्यत्र कथं नाशस्य वर्तमानप्रागभावप्रतियोगित्वं स्यादित्याशङ्क्याह- प्रागभाबानङ्गीकारेति, नाशस्येत्यादिः । नाशस्य प्रागभावानङ्गीकारे हि वर्तमानकालस्य व्वंस एव लुडर्थः । किंवा मीमांसकैकदेशिमतमुद्दिश्याह - प्रागभावानङ्गीकारे इति । 'पक्ष्यति' इत्यादावनागतकृतौ कालोपाधिस्वरूपवर्तमानकालध्वंसाधेयता वर्तत एव--वर्तमानकालध्वंसस्य कालोपाधित्वेन स्वसमानकालिक कृत्यादिपदार्थाधारत्वात् क्षणादिवदिति तादृशाधेयतासंबन्धेन वर्तमानकालध्वंसस्य तादृशकृत्यादावन्वयः, किं वा तादृशानागतकृतौ या वर्तमानकालध्वंसस्योत्पत्तिस्तत्संबन्धेन तादृशानागतकृत्यादौ वर्तमानकालध्वंसस्यान्वयो भविष्यति । भाविपदार्थानां बौद्धत्वेन सत्त्वं स्वीकृत्यैष विचारो विज्ञेयः । '
८
शङ्कते - अथेति, पचमानपुरुषस्य पाकानुकूलकृतयोप्यवान्त रफूत्कारादिव्यापाराणां पूर्वापभावापन्नानां भेदादनेका भवन्ति तत्र पक्ष्यति' इत्यत्र भविष्यत्त्वस्य प्रागभावप्रतियोगित्वरूपस्योक्तस्य ऌडर्थस्य कृतावन्त्रयस्वीकारेप्युदीच्या पाकानुकूलकृतिम् = क्रियमाणपाकानुकूलामेवोदीच्यां कृतिमादाय पचमानेपि 古 " पक्ष्य इतिप्रयोगः स्यात् - उदीच्यतादृशकृतौ भविष्यत्त्वस्य सत्त्वादेवेत्यर्थः । ननु भविष्यत्त्वस्य कृतित्वावच्छेदेनान्वयः क्रियते इति क्रियमाणपाकानुकूलोदीच्यकृतौ भविष्यत्त्वसत्त्वेपि क्रियमाणपाकानुकूलयावदूकृतौ भविष्यत्त्वस्याऽसत्त्वान्न पचमाने ' पक्ष्यति' इतिप्रयोगापत्तिरित्याशङ्क्याह- पाकानुकूलकृतित्वेति, पूर्वपूर्वपाकानुकूलकृतीनां जातत्वेन तत्र तद्वाधात् = अनागतत्वान्त्रयबाधात्, करिष्यमाणपाकानुकूलकृतिष्वपि पूर्व
"Aho Shrutgyanam"