________________
लडर्थकालान्दय निरीक्षणम् ] व्युत्पत्तिवादः ।
( ५९९ )
¿
1
“
तत्तत्पाकानुकूलकृतित्वावच्छेदेनापि तदन्वयाऽसंभवः- तत्तत्पाकत्वेन पदादनुपस्थितेः । नापि यत् किंचित्वाकानुकूलाद्यकृतित्वावच्छेदेन तदन्वयः- आद्यत्वोपस्थापकपदाभावात् तत्तद्व्यक्तिमनन्तर्भाव्य दुर्वचत्वाच्चेति चेत् ?, न- प्रागभावस्य वर्तमानत्वम् - शब्दप्रयोगाधिकरण क्षणवृत्तित्वम्, वर्तमानप्रागभावस्य प्रत्ययार्थत्व तस्य स्वविशिष्टकालवृत्तिकृतिजन्यपाकाननुकूलत्वविशिष्टप्रतियोगितासंबन्धेन. वर्तमानकालध्वंसस्य तदर्थत्वे व स्वपूर्वकालीन कृतिजन्यपाकाननुकूलत्वविशिष्टाधेयत्व संबन्धेनः कृत्यंशेऽन्वयोपगमे उदीच्यकृतौ वर्तमानप्रागभापूर्वकृतिव्यक्तिषु तद्वाधात् पक्ष्यमाणेपि ' पक्ष्यति' इतिप्रयोगो न स्यादित्यर्थः । ननु पाकानुकूलकृतौ भविष्यत्वान्वयः' इत्यत्र पाकपदेन भविष्यत्तत्पाकव्यक्तिं ग्रहीष्यामस्तदनुकूलकृतौ च भविष्यत्त्वान्वयस्वीकारे नोक्तदोषप्रसङ्ग इत्याशङ्कयाह-- तत्तत्पाकेति । 'पक्ष्यति' इत्यादाविति शेषः । उक्ते हेतुमाह- तत्तत्पाकखेनेति । ननु यत् किंचित्पाकानुकूला याऽऽद्या कृतिस्तत्र लुडर्थभविष्यत्त्वस्यान्वयं कुर्मस्तथा च पचमानपुरुषकर्तृकपाकानुकूलायामुदीच्यकृतौ भविष्यत्त्वस्य सत्त्वेप्याद्यकृतौ भविष्यत्त्वं नास्ति तस्या जातत्वादिति न पचमाने ' पक्ष्यति इतिप्रयोगापत्तिः, पक्ष्यमाणकर्तृकभविष्यत्पाकानुकूलायामाद्यकृतौ तु भविष्यत्त्वमस्त्येवेति न पक्ष्यमाणे पक्ष्यति • इतिप्रयोगानुपपत्तिश्चेत्याशङ्कयाह - नापीति । ' पक्ष्यति' इत्यादावाद्यत्वपस्थापकपदाभावेन आद्यकृतित्वावच्छेदेनान्वयो न संभवतीत्याह- आद्यत्वेति । किं चात्रपक्षे पाककृतिव्यक्तीनां तत्तद्व्यक्तित्वेन ग्रहणे प्राप्ते ननुगमः स्यादित्याह - तत्तद्व्यक्तिमिति । परिहरति- नेति । उक्तऌडर्थभूतवर्तमानप्रागभावप्रतियोगित्वघटकस्य प्रागभावस्य वर्तमानत्वमाह-प्रागभाव - स्येति । उक्तदोषापत्ति निवारयति - वर्तमानेति, वर्तमानप्रागभावस्य = शब्दप्रयोगाधिकरणक्षणवृत्तिप्रागभावस्य प्रत्ययार्थत्वे =लडर्थस्खे, तस्य = वर्तमानप्रागभावस्य स्वविशिष्टत्यादिसंबन्धेन कृतावन्वय इत्यन्वयः, स्वविशिष्टेति - स्वं वर्तमानप्रागभावस्तद्विशिष्टो यो वर्तमान कालस्तद्वृत्ति कृतिजन्यो यः पचमानकर्तृकः पाकस्तदननुकूलत्वसमानाधिकरणप्रतियोगिता संबन्धेन वर्तमानप्रागभावस्य ऌडर्थस्य ऌडर्थकृतावन्वय इष्टोस्ति तथा च पचमानकर्तृकर्तृकपाकानुकूलोदीच्यकृती वर्तमानप्रागभावप्रतियोगितायाः सत्त्वेप्युक्तस्वविशिष्टकालवृत्तिकृतिजन्यपाका ( पचमानकर्तृकवपाका ) ननुकूलत्वं नास्ति- तादृशपाकानुकूलत्वस्यैव सत्त्वादिति नोक्तोदीच्यकृतावुक्तसंबन्धेन र्तमानप्रागभावस्यान्वयः संभवतीति न पचमाने उक्ता पक्ष्यति ' इतिप्रयोगापत्तिः, मवि - ष्यत्पाककृतौ तु पचमानकर्तृकपाकाननुकूलत्वं वर्तमानप्रागभावप्रतियोगित्वं चात्येवेत्येतादृशसंबन्धेन वर्तमानप्रागभावस्य भविष्यत् पाककृतादन्वयः संभवत्येवेति न पक्ष्यमाणे पक्ष्यति इतिप्रयोगानुपपत्तिरित्यर्थः । वर्तमानकालध्वंसस्य तदर्थत्वे-ऌडर्थत्वे तत्संबन्धस्वरूपमाह-स्वपूर्वेति, अत्रापि वर्तमानकालध्वंसपरामर्शकम् तस्य " इतिपदमनुवर्तनीयम् । अत्र स्वं वर्तमानकालध्वंसस्तत्पूर्वकालिका या कृतिस्तज्जन्यपाकाननुकूलत्वसमानाधिकरणाधेयता संबन्धेन
霖
2
८८
6
" Aho Shrutgyanam"
,