________________
(६००)
सादर्श:
[आख्यातप्रकरणेवादेर्दर्शितविशिष्टसंबन्धाऽसत्त्वेनाऽतिप्रसङ्गविरहात् । ध्वंसपूर्वत्वं च तदनधिकरणत्वमेव ।
न चान्तरालिककृतिजन्यस्य पच्यर्थव्यापारस्प पूर्वव्यापारानुकूलकृत्यजन्यतयाऽऽन्तरालिककृतेः पूर्वकृतिजन्यपाकाननुकूलत्वमक्षतमेवेति तस्या अपि निरुक्तविशिष्टसंबन्धेन वर्तमानप्रागभावादिमत्त्वमक्षतमेवेति वाच्यम्, कृतिजन्यपाकेत्यत्रं कृतिजन्यव्यापाराधीनफलानुकूलव्यापारस्य विवक्षितत्वात् ।
वर्तमानकालध्वंसस्त्र लुडर्यस्य ' पक्ष्यति' इत्यत्र लुडर्यकृतावन्वयः स्वीक्रियते तथा च वर्तमानकालध्वंसस्य कालरूपत्वेन तदाधेयता भविष्यत्पाककृतौ वर्तते एव वर्तमानकालध्वंसरूपभविष्यत्कालात् पूर्वकालिककृतिजन्यो यः पचमानकर्तृकपाकस्तदननुकूलस्वमपि वर्तते इत्येताहशसंबन्धेन भविष्यत्पाककृती वर्तमानकालध्वंसान्वयसंभवान्न पक्ष्यमाणे 'पक्ष्यति ' इतिप्रयोगानुपपत्तिः, पचमानकर्तृकपाकानुकूलोदीच्यकृतौ तु पचमानकर्तृकपाकाननुकूलत्वस्य संबन्धघटकस्याऽसत्त्वान्न तादृशकृती वर्तमानकालध्वंसान्वयः संभवति येन पचमानेपि ‘पक्ष्यति ' इतिप्रयोगापत्तिः स्यादित्यन्वयः । फलमाह- उदीच्यकृताविति । उदीच्यकृती वर्तमानपाकोदी. ध्यकृतौ । द्वितीयसंबन्धस्वरूपे स्वपूर्वेति यदुक्तं तदर्थमाह- ध्वंसेति, स्वपूर्वकाल इत्यनेन वर्त, मानकालध्वंसानधिकरणकालो ग्राह्य इत्यर्थः । स च कालो वर्तमानकाल एव तादृशकालीनकृतिजन्यपाकाननुकूलत्यन्वयः ।
ननु पचमानकर्तृकपाकानुकूला ह्येकाऽऽद्या कृतिरपरोदीच्या कृतिरपरा च तन्मध्यकालवतिनी आन्तरालिककृतिरपि भवत्येव तत्रान्तरालि ककृतिजन्यो व्यापारः पूर्वव्यापारानुकूलकृतिजन्यो न भवति पूर्वकृतिजन्यश्च व्यापार आन्तरालिककृतिजन्यो न भवतीत्यान्तरालिककृती पूर्वकृतिजन्यपाकाननुकूलत्वमस्त्येवेत्यान्तरालिककृतावुक्तसंबन्धेन लुडर्थकालस्यान्वयसंभवात् पचमाने 'पक्ष्यति' इतिप्रयोगः स्यादेवेत्याशङ्कयाह- न चेति । परिहरति- कृतिजन्येति । विवक्षितत्वादिति- तथा च ' स्वविशिष्टकालवृत्तिकृतिजन्यव्यापाराधीनफलानुकूलव्यापाराननुकूलत्वसमानाधिकरणप्रतियोगितासंबन्धेन कृतौ वर्तमानप्रागभावस्य लडथस्थान्वयः' इति वक्तव्यं तथा च वर्तमानप्रागभावविशिष्टो यो वर्तमानकालस्तवृत्तिकृतिजन्यो यः पाकादिव्यापारस्तदधीनं यद् विक्लित्तिरूपं फलं तदनुकूलो यः स एव वर्तमानः पाकव्यापारस्तदननुकूलत्वं भविष्यत्पाककृतौ स्वस्तीति न पक्ष्यमाणे · पक्ष्यति । इतिप्रयोगानुपपत्तिः, आन्तरालिकोक्तकृती तु पूर्वकृतिजन्यपाकाधीनफलानुकूलतादृशपाकानुकूलत्वमेवास्ति न तु तदननुकूलत्वमिति नान्तरालि ककृतौ वर्त. मानप्रागभावान्वयः संभवति येन पचमानेपि त्वदुक्तरीत्या पक्ष्यति ' इतिप्रयोगापत्तिः स्यादित्यर्थः । पचमानकर्तृकव्यापाराणां फलान्नुकूलत्वं नास्ति फलानुकूलव्यापाराननुकूलत्वं च पचमानवृत्तिकृतिषु नास्तीति भावः ।
"Aho Shrutgyanam"