________________
लुढाथेकालनिवेचनम् ] व्युत्पत्तिवादः।
(६०१) ‘पता' इत्यादी लुटोऽनद्यतनभविष्यत्वमर्थः । अनद्यतनभविष्यत्त्वं च शब्दप्रयोगाधिकरणदिवसाऽवृत्तित्वे सति शब्दप्रयोगकालीनप्रागभावप्रतियोगित्वम्. शब्दप्रयोगाधिकरणदिवसध्वंसोत्पत्तिकत्वं वा।
केचित्तु-भविष्यत्वमेव तस्यार्थः, क्रियायाः कृतेर्वा स्वरूपसदनद्यतनत्वमेव तत्साधुतानियामकम् । असाधुत्वादेव — अद्य पक्ष्यति' इत्यादौ — पक्ता' इति न प्रयोग इत्याहुः । तन्न- तथा सति भविष्यत्त्वादिकमपि नाख्यातार्थः स्थाव, स्वरूपसद्भविष्यत्त्वादिकमेव लडादिप्रत्ययस्य साधुतानियामकम्, असाधुत्वादेव · पक्ष्यति' इत्यादौ 'पक्ता' इतिवत् 'पचति ' इत्यादौ
पक्ष्यति ' इतिप्रयोगविरह इत्यस्यापि वक्तुं शक्यत्वात् ।। . 'पचति' — पक्ष्यति । इत्यादेरविलक्षणबोधजनकत्वमनुभवविरुद्धमिति कालविशेषबोध आवश्यक इतिचेत ?, तदा 'पक्ता'' पक्ष्यति' इत्यादेरापि विलक्षणबोधजनकत्वस्याऽऽनुभविकतयाऽनद्यतनत्वान्वयबोधोपि दुर्वारः। यदि च 'पक्ष्यति' इत्यादिवाक्यजन्यबोधे सति भविष्यत्त्वादिसंशयानुदयाद् : भविव्यवादेः शाब्दधीविषयत्वमावश्यकमित्युच्यते ? तदाऽनद्यतनंबोधेपीहशीमेव युक्तिं गृहाण । . एवम् — न पक्ष्यति' इत्यादावभावेऽनागतकालावच्छिन्नत्वभानमावश्यकम्,
लुडर्थत्वेन विवक्षितं कालमाह- पक्तेति । अनद्यतनमविष्यत्वार्थमाह- शब्देति । पक्षान्तरमाह- शब्देति ।
कालभूतलुडथै मतान्तरमाह- केचिदिति । तस्य लुटः । तत्साधुता लुट्साधुता । लुडर्थकृतावनद्यतनत्वं स्वरूपसदस्तीति 'अद्य पक्ष्यति । इत्यस्य स्थाने ' पक्ता ' इतिप्रयोगोऽसाधुरेवेत्याह- असाधुत्वादिति । ' पक्ष्यति' इत्यस्य सामान्यतो भविष्यदर्थकत्वेन तत्स्थाने ' पक्ता ' इतिप्रयोगः संभवत्येवेत्यभिप्रायेणोक्तम् ' अध पक्ष्यति । इति । परिहरति- तन्नेति, प्रतिबन्युत्तरमाह-- तथा सतीति । तथा सति-अनद्यतनत्वस्य लुडर्थत्वाभावे सति । : शङ्कते-पचतीति । कालविशेषबोध इति-पति ' इत्यत्र वर्तमानकालबोधः, 'पक्ष्यति' इत्यत्र भविष्यत्कालबोधः । उत्तरमाह- तदेति । पुनराशकते- यदीति । सति जाते। उत्तरमाह- तदेति । ईदृशीम् = पक्का' इतिवाक्यजन्यबोधे जातेऽनद्यतनत्वसंशयानुदयादनद्यतनत्वस्य शाब्दधीविषयत्वमावश्यकमिति तादृशानद्यतनत्वस्यान्यतो भानासंभवाल्लुडर्थत्वं सिद्धमेवेत्यर्थः । ___ यथा ' पक्ष्यति । इत्यादौ कृतौ कालान्वयस्तथा 'न पक्ष्यति । इत्यादि नसमभिव्याहारस्थले कृत्यभावे .एव कालान्वयः कर्तव्यो न तु कृती- पूर्वमेव " नतमभिव्याहारस्थलेपि ५९५ " इत्यादिना दोषस्य प्रदार्शतत्वात्, किं च भविष्यत्कालिकचैत्रकृतेरसंभवेनाऽसद्भूत
"Aho Shrutgyanam"