________________
( ६०२ )
सादर्श:
[ आख्यातप्रकरणे - अन्यथा पक्ष्यत्यपि वर्तमानवृत्तिपाककृत्यभावमादाय ' न पक्ष्यति' इत्यादिप्रयोगप्रसङ्गात् । न च पक्ष्यत्यप्यऽनागतयत् किंचित्कालावच्छेदेन वर्तमानमभावमादाय ' न पक्ष्यति इतिप्रयोगो दुर्वार एवेति वाच्यम्, अनागतकालावच्छिनत्वं हि तत्र वर्तमानक्षणध्वंसावच्छिन्नत्वम्, तादृशध्वंसनिष्ठावच्छेदकता चानवच्छिन्ना ग्राह्या, अनागतकृतिमति च पुंसि तदभाववृत्तौ वर्तमानक्षणध्वंसरूपः कालः प्रतियोगिवृत्तावप्यवच्छेदक इति विरोधभञ्जनाय तादृशकृत्यनवच्छेदकावान्तरकाल एवावच्छेदक उपेय इति नोक्तातिप्रसङ्ग इति ।
3
“
त्वात् तत्र कालान्वयाऽसंभवादित्यभिप्रायेणाह - एवमिति । विपक्षे बाधकमाह- अन्यथेति, अन्यथा=यद्युक्ताभावेऽनागतकालाम्बयो न स्वीक्रियेत तदाऽनागतकालानवच्छिन्नमेव कृत्यमाद मादाय न पक्ष्यति' इति प्रयोगो भविष्यति तथा च वर्तमानं वृत्तम् = भूतं च पाककृत्यभावमादाय किं वा वर्तमान वृत्तिम् = वर्तमानकालवर्तिनं पाककृत्यभावमादायापि न पक्ष्यति ? इति प्रयोगः स्यादेव - एतादृशस्यापि कृत्यभावस्याऽनागतका लानवच्छिन्नत्वादेव, यदा चानागतकालस्य कृत्यभावेऽन्वयः स्वीक्रियते तदा वर्तमानेत्यायुक्ताभावमादाय ' न पक्ष्यति' इति प्रयोगापत्तिर्नास्ति - वर्तमानाभावे वर्तमानकालस्य भूताऽभावे च भूतकालस्यान्वयसत्त्वेन तत्रानागतकालान्वयस्यासंभवादित्यर्थः । अत्र च यद्यपि भविष्यत्कालिक चैत्रकृतेरसंभवेन तदभावस्याप्रसिद्धिरिति न तादृशकृत्यभावेपि भविष्यत्कालान्वयः संभवति तथापि चैत्रीयवर्तमानकृतेः प्रसिद्धत्वेन तादृशकृत्यभावो भविष्यत्काले प्रसिद्धयत्येवेति तत्रैव भविष्यत्कालान्वयो विज्ञेयः । अञ वर्तमानवृत्ति " इत्यस्य स्थाने वर्त्तमानवृत्त " इत्यपि पाठः स चापि व्याख्यात एव । ननु यो भविष्यत्काले पाकं करिष्यत्यपि सोपि न सकलभविष्यत्काले पाकं करिष्यति किं तु यतुर्किचिद्भविष्यत्काले एव तथा च तदन्ययत् किंचिद्भविष्यत्काले वर्तमानम् - सन्तम् = यत् किंचिद्भविष्यत्कालावच्छिन्नं कृत्यभावमादायाभावे उक्तकालान्वयस्वीकारेण पक्ष्यत्यपि ' न पक्ष्यति' इति प्रयोगः स्यादेवेत्याशङ्क्याह - न चेति । उत्तरमाह - अनागतेति, तत्र = ' न पक्ष्यति ' इत्यत्र कृत्यभावे यदनागतकालावच्छिन्नत्वमुक्तं तद् वर्तमानक्षण ध्वंसावच्छिन्नत्वरूपं ज्ञेयम्, एवं हि कृत्यभावस्यात्र वर्तमानक्षणध्वंसावच्छिन्नत्वे प्राप्ते तादृशध्वंस एव कृत्यभावस्यावच्छेदक इति प्राप्तं तादृशावच्छेदकीभूतध्वंसनिष्ठा चाऽवच्छेदकता कालानवच्छिन्नैव प्राह्मा तथा च न पक्ष्यति ' इत्यत्र नञा सामान्यत एव वर्तमानक्षणध्वंसावच्छिन्नकृत्यभावो बोध्यते न त्वनाSगतयत् किंचित् कालावच्छिन्न वर्तमान क्षण ध्वंसावच्छिन्नकृत्यभावो येनानागतयत् किंचित् कालाव
46
L
८
"
च्छिन्नकृत्यभावमादाय पक्ष्यत्यपि न पक्ष्य इतिप्रयोगः स्यादित्यर्थः । प्रदर्शितदोषस्याभावं स्वयमप्युपपादयति- अनागतकृतीति, अनागत कृतिमति पुरुषे तदभाववृत्तौ - अनागतकृत्यभावसत्त्वे ( अनागतकृत्यभावे सति ) वर्तमानक्षणध्वंसरूपः कालस्तदभाववृनाववच्छेदकः स्यात् प्रतियोगिवृत्तौ = अनागतकृतिवृत्तावप्यवच्छेदक ः स्यात् अर्थात् यद्यनागतक
८८
"Aho Shrutgyanam"
..