________________
लुटोऽनद्यतनभविष्यदर्थकत्वम् ] व्युत्पत्तिवादः।
उक्तयुक्त्याऽनागतत्वस्य यथा लडाद्यर्थत्वं तथा 'अद्य पक्ष्यति न पक्ता' इत्यत्रानद्यतनकालावच्छिन्नत्वस्याभावेऽभाने पक्ष्यत्यप्यन्यतनानागतकालावच्छिन्नपाककृत्यभावमादाय ‘न पक्ता' इतिप्रयोगासनेन लुटोऽनद्यतनार्थत्वमावश्यकम् ।
अनागतानद्यतनकालावच्छिन्नत्वमप्युक्तरीत्यातिप्रसङ्नावारणाय प्रकृतशब्दप्रयोगाधिकरणदिनध्वंसनिष्ठानवच्छिन्नावच्छेदकताकत्वरूपं ग्राह्यम् । अवच्छेद्यावच्छेदकभावश्च संबन्धविधया भासते ध्वंस एव पदार्थ इत्यवधेयम् । तिमति पुंसि तदभावः अनागतकृत्यभावः स्यात्तदा वर्तमानक्षणध्वंसरूपः कालोऽनागतकृतेस्तदमावस्य चावच्छेदकः स्यात् न चैतत्संभवति- एकस्यैव पदार्थस्य तत्तदभाषोभयावच्छेदकत्वाऽसंभवादिति वर्तमानक्षणध्वंसरूपकालस्यानागतकृतितदभावोभयावच्छेदकत्वप्राप्तिरूपस्य विरोधस्य मलनाय-परिहाराय तादृशकृत्यनवच्छेदकोऽवान्तरकाल एव तदभावावच्छेदक इत्युपेयम्-अर्थात पक्ष्यमाणे पुरुषे याऽनागतकृतिस्तदवच्छेदकोऽन्योवान्तरकालस्तादृशकृत्यमावावच्छेदकश्चान्योऽ. वान्तरकाल इति स्वीकार्य तथा चानागतकृत्यवच्छेदकावान्तरकाले पक्ष्यमाणे पुंसि 'न:पक्ष्यति । इतिप्रयोगापत्तिरूपोतिप्रसङ्गो नास्ति- अनागतकृत्यवच्छेदकावान्तरकालापेक्षयाऽनागतकृत्यभावावच्छेदकावान्तरकालस्य भिन्नत्वात, किं चानागतकृतितदभावयोरवच्छेदककालयोरेवं भेदे प्राप्ते उक्तावच्छेदकताविरोधोपि नास्तीत्यर्थः ।
प्रकृतमाह- उक्तयुक्त्येति यथाऽनागतत्वं लूडर्थस्तथाऽनद्यतनत्वं लुर्थ इति स्वीकर्तव्यम्, अन्यथा 'भद्य पक्ष्यति न पक्ता ' इत्यत्र पाशानुकूलकृत्यमावेऽनद्यतनत्वस्यान्वयस्तद्भानं च, न स्यात् तथा च श्वा-आगामिदिने पक्ष्यत्यपि पुरुषेऽद्यतनाऽनागतकृत्यभावमादाय ' न पक्ता, इतिप्रयोगापत्तिः स्यादेव न चैतदिष्टं तस्मादनद्यतनत्वं लुडर्थोस्त्येव तथा च 'न पक्ता ' इत्यत्र नाऽनद्यतनानागतस्य कृत्यभावस्य बोधनादद्यतनानागतकृत्यभावमादाय श्वः पक्ष्यति पुंसि 'न पक्ता । इतिप्रयोगापत्तिर्नास्तीत्यर्थः।
अनागतेति-न पक्ता ' इत्यत्र पाकानुकूलकृत्यभावेऽनागतानद्यतनकालावच्छिन्नत्वम्-वर्त. मानदिनध्वंसावच्छिन्नत्वमस्तीति ताशवर्तमानदिनध्वंसनिष्ठा याऽवच्छेदकता सा दर्शितदिशा कालानवच्छिन्ना ग्राह्या. अन्यथाऽनद्यतनानागतकाले 'पक्ष्यत्यपि पुरुषेऽनद्यतनानागतयत्किंचित्कालावच्छिन्नं कृत्यभावमादाय ' न पक्ता' इतिप्रयोगापत्तिरूपोतिप्रसङ्गः स्यादेवेत्यर्थः । 'न पक्ता' इत्यत्र कृत्यभावे यदनागतानद्यतनकालावच्छिन्नत्वं तत् प्रकृतशब्दः' न पक्ता, इतिशग्दस्तत्प्रयोगाधिकरणदिनस्य यो ध्वंसस्तनिष्ठा याऽनवच्छिन्नावच्छेदकता तादृशानवच्छिनावच्छेदकताकत्वरूपं ग्राह्यमित्यन्वयः । ' पक्ता ' इत्यत्रापि यत् पाकानुकूलकृतावुक्तवर्तमानदिनध्वंसरूपलुडर्थकालावच्छिन्नवं भासते तत्रोक्तध्वंस एव लुखाद्यर्थोस्ति तादृशध्वंसस्य योऽनद्यतनाऽनागतकालेनावच्छेद्यावच्छेदकमावः स संबन्धविधया भासते इत्याह-अवच्छेयेति । ध्वंसः= लुट्लूडाद्यर्थवेनाभिमत उक्तविशिष्टध्वंस एव पदार्थः लुलडाद्यर्थः ।
"Aho Shrutgyanam'