________________
(६०४)
सादर्शा
[ आख्यातप्रकरणे
'अथ नञ्समभिव्याहारस्थलोप कृतावेव कालान्वयोस्तु. अनागतकृतिश्च महाप्रलयस्याऽप्रामाणिकतया सर्वत्रैव प्रसिद्धयतीति न प्रतियोग्यप्रसिद्धिः, अभावान्वयश्चात्मनि कालानवच्छिन्नाश्रयतासंबन्धेनोपगम्यतामिति चेत् ?, नयदुत्तरकाले चैत्रीयौदनपाकादिकमप्रसिद्धं तदानीम् 'चैत्र ओदनं न पक्ष्यति' इतिप्रयोगानुपपत्तेः- अनागतचैत्रीयौदनकर्मकपाकानुकूलकृत्य प्रसिद्ध्या तदभावप्रत्यायनासंभवात् ।
न चाभावे कालान्ययोपगमोप यत्तण्डुलव्यत्तयादिकर्मकपाक एवाप्रसिद्धस्तद्व्यत्तयादिपरस्य 'एतत्तण्डुलं न पक्ष्यति' इत्यादिवाक्यस्याऽप्रमाणत्वापत्ति:प्रतियोग्यप्रसिद्धेर्दुरित्वादिति तत्र पाके तव्यक्तिकर्मकत्वाभाव एव नत्रा बोध्यते इत्युपगन्तव्यं तथा चोक्तस्थलेपि तत्तत्पाके चैत्रीयौदनकर्मकत्वाभावबोधोपगमेनोपपत्तिरिति वाच्यम्, पाके तत्कर्मकत्वाभावबोधोपगमे तादृशपाकानुक
" नञ्तमभिव्याहारस्थले प्रतियोगिन्येव कालान्वयः ॥ इत्यादि (पृ. ५९५) यदाशङ्कितं तदेवाशङ्कते- अथेति । योत्र प्रतियोग्यप्रसिद्ध्या ( पृ. ५९५ ) दोषः प्रदर्शितस्तं पराचष्ट- अनागतेति, यदि महाप्रलयः स्यात्तदा तदधिकरणककृतेरप्रसिद्ध्या प्रतियोग्यप्रसिद्धिः स्यादपि न चैवमस्ति, महाप्रलयान्यकाले तु कस्या अपि कृतेः सत्त्वादत्यन्ताभावो न संभवतीत्यर्थः । यदुक्तम् " न च कालानवच्छिन्नाधारतासंबन्धेन (पृ. ५९५)" इति- तदेवाहअभावान्वय इति । परिहरति- नेति । यदुत्तरकाले यादृशोत्तरकाले ( यदा शब्दप्रयोगाधिकरणकालानन्तरम् ) चैत्रकर्तृकपाकोऽप्रसिद्ध: असंभवी तदानीम्=तादृशोत्तरकाले चित्र भोदनं न पक्ष्यति । इतिप्रयोगानुपपत्तिः स्यात् त्वया तत्र तादृशोत्तरकालवृत्तिकृतेरमाषः प्रत्यायनीयः स च न संभवति- प्रतियोगिभूतायास्तादृशोत्तरकालवृत्तिकृतेरप्रसिद्धत्वादित्यर्थः, तस्मात् नसमभिव्याहारस्थले कृत्यभावे एव कालान्वयः कर्तव्य इति सर्व प्रतिपादितम् ।
ननु 'न पक्ष्यति' इत्यादौ पाकानुकूलकृतेरमावेपि कालान्वयोपगमे यत्तण्डुलव्यक्तिकर्मकपाकोप्रसिद्धस्तद्व्यक्तिपरस्य-तत्तण्डुलव्यक्तिमुद्दिश्य प्रयुक्तस्य एतत्तण्डुलं न पक्ष्यति ' इतिवाक्यस्याऽप्रामाण्यं स्यादेव- प्रतियोग्यप्रसिद्धेः तत्तण्डुलकर्मकपाकाप्रसिद्धौ तदनुकूल कृतेरप्यूप्रसिद्धिः प्राप्ता कृत्यभावबोधनस्थले च कृतिरेव प्रतियोगिभूता भवति अप्रसिद्धप्रतियोगिकामावबोधस्य चानम्युपगमात्, न चोक्तस्थलेप्युक्तवाक्यस्याऽप्रामाण्यमिष्टमिति तत्यामाण्योपपत्त्यर्थं तत्र पाके तत्तण्डुलव्यक्तिकर्मकत्वाभाव एव नना बोध्यते इतिस्वीकार्य तथा चोक्तस्थलेपि यदुत्तरकाले चैत्रीयौदनपाकादिकमप्रसिद्धं तदानीम् 'चैत्र ओदनं न पक्ष्यति' इत्यत्रापि तत्पाके चैत्रीयौदनकर्मकत्वाभावचैत्रकर्तृकत्वौदनकर्मकत्वाभाव एष नत्रा बोध्यते तच्च संभवत्येवेति नोक्तस्थले एतद्वाक्य प्रयोगानुपपत्तिरित्याशङ्क्याह- न चेति । अत्रापि दोषमाह- पाके इति, चैत्र ओदनं न पश्यति ' इत्यत्र पाके चैत्रीयौदनकर्मकत्वाभावबोधस्वीकारे एतदभावान्वयिपाकस्याऽनागतस्य
"Aho Shrutgyanam"