________________
लुढर्थकालान्वयनिर्वचनम् ] व्युत्पत्तिवादः ।
(६०५) लानागतकृतेः कतरि भानस्योपगन्तव्यतया तदुत्तर कदाचिदपि येन न पक्ष्यते तादृशकर्तृसमभिव्याहृतदर्शितवाक्यस्य प्रामाण्योपपादनाऽसंभवात् । अगत्या तु यत्कर्मको यत्कर्तृका पाकोऽप्रसिद्धस्तादृशकर्मकर्तृघटितार्थकनपदवदाक्यस्थाऽयोग्यतोपगम्यते। __ केचित्तु तत्रापि पाके तत्कर्मकत्वाभावस्य तादृशे च कर्तरि पाककृत्यभावस्य बोधमुपगम्य प्रामाण्यमुपपादयन्ति- तात्पर्यसत्त्वे एकेनापि नञाऽभावद्वयबोधनसंभवात् । न चैवं तण्डुलमात्रं पचति पक्ष्यति वा चैत्रेपि तण्डुलमयं न पचति न पक्ष्यति' इतिप्रयोगः स्यात्- तत्तण्डुलाऽकर्मकपाकानुकूलवर्तमानादिकृत्यऽभावाऽबाधादिति वाच्यम्, यतः सुबर्थप्रतियोगिकस्वार्थाभावान्वितक्रियाकर्तृत्वाभाव
बोधकत्वं नञः 'आकाशं न पचति घटः' इत्यादावपि न स्वीक्रियते-ताहप्रसिद्धिः स्वीकार्य पाकप्रसिद्धया च तादृशपाकानुकूलानागतकृतेरपि प्रसिद्धिः प्राप्तैव तस्याश्च कृतेस्तादृशपाककर्तरि भानमुपगन्तव्यं तथा च तदुत्तरम्-वर्तमानकालानन्तरं येन पुंसा कदाचिदपि न पक्ष्यते तादृशकर्तसमभिव्याहृतस्य-पाकव्यापाररहितकर्तृसममिव्याहृतस्य 'चैत्र ओदनं न पक्ष्यति' इतिवाक्यस्य प्रामाण्यं न स्यात- तत्र चैत्रीयपाकव्यापारस्याप्रसिद्धत्वेन तत्र चैत्रीयौदनकर्मकत्वाभावान्वयस्याऽसंभवादित्यर्थः । तस्माद् नञ्समभिव्याहारस्थले नअर्थाभावे एवं प्रत्ययार्थकालस्यान्वयो युक्त इति तात्पर्यम् । ननु यत्कर्मको यत्कर्तृकश्च पाकोऽप्रसिद्ध एव तादृशकर्तृकर्मघटितस्य “ अयमेतत्तण्डुलं न पक्ष्यति । इतिवाक्यस्य वन्मते का गतिरित्याशक्य तादृश्यवाक्ये बाधाभावरूपयोग्यताया अमावादगत्या प्रामाण्याभाव एवेत्याह- अगत्येति । ... मतान्तरमाह- केचिदिति,तत्र-यत्कर्मको यत्कर्तृकश्च पाकोऽप्रसिद्धस्तादृशकर्तृकर्मघटितार्थके नपदवति 'अयमेतत्तण्डुलं न पक्ष्यति' इतिवाक्येपि पाके तत्कर्मकत्वामावस्य तादृशकर्तरि च पाककृत्यमावस्यान्यत्र प्रसिद्धप्रतियोगिकस्य बोधमुपगम्य प्रामाण्यमुपपादयन्ति । नन्वेकस्य नञ्पदस्योक्ताभावद्वयबोधकत्वं कथं स्यादित्याशङ्क्याह- तात्पर्यसत्त्वे इति । शङ्कते- न चेति, तण्डुलं पचत्यपि चैत्रे ' तण्डुलमयं न पचति । इति प्रयोगः स्यात--तदानीं चैत्रे पच्यमानतण्डुलकर्मकपाकानुकूलकृत्यभावस्य बाधेपि पच्यमानतण्डुलाऽकर्मकपाकानुकूलकृत्यभावस्य वर्तमानस्याऽबाधात्. अर्थात् नञोऽभावद्वयबोधकत्वस्वीकारेणात्रापि पाके तादृशतण्डुलकर्मकत्वाभावस्य चत्रे च तादृशपाककृत्यभावस्य बोधसंभवेन विशिष्टस्यापि तत्तण्डुलाकर्मकपाकानुकूलकृत्यभावबोधस्य संभवादिति । एवं पक्ष्यत्यपि ' न पक्ष्यति । इतिप्रयोगापत्तिदलस्य योजना विज्ञेया । आदिपदादस्मिन् पक्षेऽनागतकृत्यभावाबाधादिति वक्तव्यम् । परिहारमाह-यत इति, त्वया हि तत्तण्डुलाकर्मकेतिवचनेन सुबर्थप्रतियोगिकः द्वितीयार्थतण्डुलकर्मकत्वप्रतियोगिको यः स्वार्थोऽभावस्तदन्विता या पाकक्रिया तत्कर्तृत्वाभावबोधकत्वं नत्र उक्तं तत्तु 'आकाशं न पचति घटः । इत्यत्रापि पाककर्मताशून्याकाशस्य पाककर्तृत्वशून्यघटस्य च समभिव्याहारस्थलेपि न स्वीक्रि
"Aho Shrutgyanam"