________________
(६०६.)
साद
[आख्यातप्रकरणेशबोधजनकताया अव्युत्पन्नत्वाद येनोक्कातिप्रसङ्ग स्यात्, किं तु. 'पाक आकाशाकर्मक: पाककृत्यभाववान् घटः' इत्यादिसमूहालम्बनबोध एव, उक्तस्थले च चैत्रे पाककर्तृत्वाभाववाधान प्रामाण्यप्रसङ्गः । अस्तु वा तत्राभावान्वितक्रियाकर्तृत्वाभावविषयकोऽसमूहालम्बनरूप एव बोधस्तथापि न दर्शितातिप्रसङ्गःतादृशबोधेन्वयितावच्छेदकावच्छेदेन प्रथमाभावभाननियमात् पाकत्वावच्छेदेन च तण्डुलादिकर्मकत्वाभावान्वये योग्यताविरहात् । 'अन्ध आकाशं न पश्यति' इत्यादांवपीहशी गतिः।
अथ यत्तण्डुलादिकर्मको यत्पुरुषकर्तृका पाको प्रसिद्धस्तत्पुरुषेऽन्यकर्मकपाकयते का कथा पुनः तण्डुलमयं न पचति । इत्यत्र तादृशबोधप्रसङ्गस्येत्यर्थः, तथा च न तण्डुलं पचत्यपि 'तण्डुलमयं न पचति । इतिप्रयोगापत्तिरित्याह- येनेति । ननु 'आकाशं न पचति घटः ' इत्यत्र ययुक्तरूपो न वाक्यार्थबोधस्तदा कीदृशो बोधो भवतीत्याशक्याहकिं त्विति । एवं च ' तण्डुलमयं न पचति । इत्यादिस्थलेपि ' पाकस्तण्डुलाकर्मकश्चैत्र: पाककृत्यभाषवान् । इत्याकारकसमूहालम्बनात्मकबोध एव स्वीकर्तव्यस्तत्तु न संभवति- पचति चैत्रे पाककृसेरेव सत्त्वेन पाककृत्यभावस्य बाधात् तथा चोक्तस्थले पचति चैत्रे न पचति । इति वाक्यस्य न प्रामाण्यप्रसङ्गः, तथा च पचति चैत्रे न ' न पचति । इति प्रयोगापत्ति:अप्रमाणत्वादित्याह-उक्तस्थले इति । नत्र उक्तविशिष्टबोधजनकत्वमभ्युपगम्योक्तप्रयोगापत्ति परिहरति- अस्तु वेति, तत्र पचमानमपि चत्रमुद्दिश्योक्ते न पचति ' इतिवाक्येऽभावान्वितातत्तण्डुलकर्मकवाभावान्विता या पाकक्रिया तदनुकूलकृत्यभावविषयक एव तत्तण्डुलाकर्मकेत्यादिनोको विशिष्टोऽसमूहालम्बनरूपो ना बोधो भवतु तथापि दर्शितः पञ्चत्यपि चैत्रे 'न पचति' इतिप्रयोगातिप्रसङ्गो नास्त्येवेत्यन्वयः । अतिप्रसङ्गाभावे हेतुमाह-- तादृशबोधे इति, तादृशबोधेउक्तेऽभावान्वितक्रियाकर्तृत्वाभावबोधे प्रथमामावस्यान्वयितावच्छेदकावच्छेदेनान्वयो भवतिनियमादत्रान्वयितावच्छेदकं यत्पाकत्वं तदवच्छेदेनैव तण्डुलकर्मकत्वाभावस्यान्वयः स्यात्. न च पाकत्वावच्छेदेन तण्डुलकर्मकत्वाभावान्वयः संभवति योग्यताभावादिति नैतादृशविशिष्टबोधजनकवाक्यस्य प्रामाण्यं संभवति येन पचत्यपि न पचति ' इतिप्रयोगापत्तिः स्यादित्यर्थः । * भन्ध आकाशं न पश्यति ' इत्यत्रापि 'दर्शनमाकाशाकर्मकं दर्शनकृत्यभाववानन्धः । इतिसमूहालम्बनात्मक एव बोधो भवति नोक्तविशिष्टबोध इत्याह- अन्ध इति । किं वा 'अन्ध आकाशं न पश्यति । इत्यत्र आकाशकर्मकत्वाभावविशिष्टं यद् दर्शनं तदनुकूलकृत्यऽभावविषयको विशिष्टबोधोपि संभवति-आकाशकर्मकत्वामावस्याऽन्वयितावच्छेदकं यद् दर्शनत्वं तदवच्छेदेनान्वयसंभवात् दर्शनानुकूलकृत्यभावस्य चान्धेऽन्वयसंभवात् । वस्तुतस्त्वेतादृशवाक्यानामप्रामाण्यमेवेति पूर्वमेव द्वितीयाकारकग्रन्धे व्युत्पादितमित्यवधेयम् ।
शङ्कते- अथेति, अन्यपुरुषपच्यमानत्वादेः अन्यपुरुषकर्तृकपाककर्मस्वस्य । अमेति-ताश
...
"Aho Shrutgyanam"