________________
लुडर्यकालान्वयनिर्वचनम् ] व्युत्पचिवादः ।
(६०७) कर्तृत्वस्य तत्तण्डलादौ चान्यपुरुषपच्यमानत्वादेर्भमदशापाम् ‘तण्डुलमयं न पक्ष्यति ' इत्यादिवाक्यस्य बोधकताया अनुभवसिद्धत्वेनाऽपाकर्तुमशक्यत्वानो. क्तप्रकारः साधीयान्-विरोधिनिश्चयसवेन तत्पुरुषे पाककर्तृत्वसामान्यामावस्य पाकत्वावच्छेदेन तण्डुलकर्मकत्वाभावस्य च प्रतीत्यऽसंभवादितिचेत्,
न-तत्र तादृशवाक्यस्यैकाभावावगाहिभ्रमजनकत्वोपगमात् । न च सर्वत्रैव तदुपगमौचित्येन प्रयासवैफल्यमिति वाच्यम्, विशेषदर्शिभिरमतातरकैरपि तथाविधवाक्यप्रयोगात् तस्य प्रसिद्धार्थकतासंपादनस्यावश्यकत्वात् । न च तत्तण्डुतण्डुलकर्मकपाकस्याऽप्रसिद्धत्वात् तादृशतण्डुले यत्पच्यमानत्वज्ञानं तभ्रमात्मकमेव संभवति यत्पुरुषकर्तृकश्च पाकोऽप्रसिद्धस्तादृशपुरुषे पाककर्तृत्वज्ञानमपि अमात्मकमेव स्यान्न तु प्रमात्मकमित्युक्तम्--भ्रमदशायामिति । एतादृशभ्रमदशायाम् ‘तण्डुलमयं न पक्ष्यति । इतिवाक्यस्य बोधजनकत्वानोक्तप्रकारः साधीयान्, उक्तप्रकार:=प्रथमाभावस्याऽन्वयितावच्छेदकावच्छेदेनान्वयो भवति. इति प्रकारो न साधीयानित्यन्वयः, उक्त हेतुमाह-विरोधीति, विरोधिनिश्चयस: त्वेन तत्तण्डुले पाककर्मत्वनिश्चयसत्त्वेन तत्पुरुषे पाककर्तृत्वनिश्चयसत्त्वेन च तत्पुरुषे पाककर्तृत्वाभावस्य पाके तण्डुलकर्मकत्वाभावस्य च प्रतीतिर्न संभवति । उक्तप्रकारस्य च साधुस्वेऽत्रापि प्रथमाभावस्य-तण्डुलकर्मकत्वामावस्य पाकत्वावच्छेदेनान्वयः स्यात् न च पाकत्वावच्छेदेन तण्डुलकर्मकत्वाभावान्वययोग्यतास्तीति योग्यताया अभावात् तादशबोधजनकत्वं न स्यात् अस्ति च बोधजनकत्वमिति नोक्तप्रकार: साधीयानित्यर्थः।
परिहरति-नेति, तत्र उक्तश्रमदशायाम्, ताशवास्यस्य तण्डुलमयं न पक्ष्यति ' इति वाक्यस्य तण्डुलकर्मकत्वाभावविशिष्टपाकानुकूलकृस्यमावबोधकत्वरूपमऽभावद्वयावगाहिभ्रमजनकत्वं नास्ति किं त्वेकामावावगाहिभ्रमजनकत्वम्-तण्डुलकर्मकपाकानुकूलकृत्यभावबोधकत्वमेव स्वीक्रियते तच्च संभवत्येव तत्पुरुषे तण्डुलकर्मकपाककृत्यभावस्याऽबाधादिति पूर्वोक्तस्थले उक्ताभावद्वयावगाहनस्वीकारेपि किं वा प्रथमाभावस्यान्वयितावच्छेदकावच्छेदेनान्वयनियमेपि न दोष इत्यर्थः । ननु 'आकाशं न पचति घटः ' इत्यादावपि 'आकाशकर्मकपाककृत्यभावबोधकत्वरूपमेकाभावावगाहिज्ञानजनकत्वमेव युक्तं न त्वभावद्वयावगाहिज्ञानजनकत्वमित्याशक्याह न चेति । परिहारमाह- विशेषेति, ये खलु पाके आकाशकर्मकत्वाभावं घटे च पाककर्तृत्वाभावं जानन्ति तेपि 'आकाशं न पचति घटः । इति प्रयोगं कुर्वन्तीति तस्य प्रयोगस्य प्रसिद्धार्थकतासंपादनायाऽभावद्वयावगाहिबोध उपगम्यते-- आकाशकर्मकत्वं प्रतिपादनादी प्रसिद्धमस्ति तदभावः पाकेन्वेति पाककर्तृकत्वं पुरुषादी प्रसिद्धं तदभावो घटेऽन्वेतीत्यभावद्वयावगाहिबोधजनकत्वं संभवति न त्वेकाभावावगाहिंबोधजनकस्वम्- भाकाशकर्मकपाकाऽप्रसिद्धरित्यर्थः । ननु पाके तत्तण्डुलकर्मकत्वं हि तत्तण्डुलनिष्ठविक्लित्तिजनकत्वमेव तथा च पाकस्य तत्तण्डुलकर्मकत्वं नास्तीति तत्तण्डुलनिष्ठविक्लित्तिजनकत्वस्याप्रसिद्धचा
"Aho Shrutgyanam"