________________
( ६०८ )
सादर्श:
[ आख्यातप्रकरणे - लादिकर्मकत्वम् = तन्निष्ठविक्लित्तिजनकत्वं तदपि चाप्रसिद्धमिति कथं पाके तद्भावप्रत्यय इति वाच्यम्, विक्लित्त्यादावेव तत्तद्वृत्तित्वाभाव बोधोपगमात् ।
* अपाक्षीत् ' इत्यादौ लुङोऽतीतकालोऽर्थः, तस्याप्याख्यातसामान्यार्थकृत्यादावन्वयः, तस्य च संबन्ध आधेयत्वम् । अथः वा कालाऽविशेषणतयैवातीतत्वं ङोर्य आश्रयतासबन्धेन च तस्य कृत्यादावन्वयः - कालान्तर्भावस्य व्यर्थत्वात् । अतीतत्वम् = वर्तमानध्वंसप्रतियोगित्वम् । वस्तुतो वर्तमानध्वंस एव ढुङाद्यर्थस्तस्य प्रतियोगितासंबन्धेन कृत्यादावन्वयः । मध्यदशायाम् क्षीत् ' इत्यादिप्रयोगवारणमुक्तरीत्या बोध्यम् ।
L
अपा
- पाके तत्तण्डुलकर्मकत्वाभावबोधोपि कथं स्यात् - अप्रसिद्धप्रतियोगिकाभावस्याऽस्वीकारादित्याशङ्कयाह - न चेति । उत्तरमाह - विक्कित्त्यादाविति, तत्तद्वृत्तित्वाभावस्य तत्तत्तण्डुल वृत्तिस्वाभावस्य बोध उपगम्यते तथा च तण्डुलवृत्तित्वाभाववती या विक्कि तिस्तादृशविक्कित्तिजनकपाकानुकूलकृत्यभाववान् इतिबोधः स्यात्, अन्यवृत्तिविक्लित्तौ च तण्डुलवृत्तित्वाभावः प्रसिद्ध एवेति न कोपि दोष इत्यर्थः ।
लुकालं निरूपयति- अपाक्षीदिति, तस्य = लुङर्थ भूतस्यातीतकालस्य, तस्य लुकालस्य । ' अपाक्षीत् ' इत्युक्तकृतिर्हि तादृशकाले आसीदिति तादृशकालस्य कृतावाधेयतासंबन्धेनान्वयः । पक्षान्तरमाह- अथ वेति, लुङोऽतीतकालार्थत्वे ह्यर्तीतत्वं काले विशेषणमस्ति संप्रति कालेऽविशेषणीभूतमेवाऽतीतत्वम् = अतीतत्वमात्रमेव लुङर्थ इत्यर्थः, अतीतत्वं च कृतावेवेति तस्य= अतीतत्वस्याश्रयतासंबन्धेन कृतावन्ययः I कालान्तर्भावस्य = विशिष्टस्याऽतीतकालस्य लुङर्थत्वस्वीकारवैयर्थ्यात् । अतीतत्वपदार्थमाह- अतीतत्वमिति, वर्तमानो योऽतीतकृतिच्वंसस्तत्प्रतियोगित्वं यदतीत कृतावस्ति तदेवातीतत्वमित्यर्थः । स्वाभिप्रायमाह - वस्तुत इति, वर्तमानध्वंसः वर्तमानो यः कृतिध्वंसः स एव लुङोर्थस्तस्य = वर्तमानध्वंसस्य तादृशध्वंसप्रतियोगिता कृतावस्त्येवेति तेन संबन्धेन तस्य कृतावन्वय इत्यन्वयः । मध्यदशायामिति - वर्तमानपाकस्याप्याद्या कृतिर्नष्टेति तद्ध्वंसस्य पाकवर्तमानतादशायामपि सत्त्वात् ' अपाक्षीत् ' इति - प्रयोगः स्यादेवेति तद्वारणं पूर्वोक्तरीत्या बोध्यम् । मध्यदशायाम् = पाकमध्यदशायाम् | उक्तरीत्या = " वर्तमानप्रागभावस्य प्रत्ययार्थत्वे तस्य १९९ " इत्याद्युक्तरीत्या, तथा हि वर्तमानध्वं सस्य स्वविशिष्टकालवृत्तिकृतिजन्यपाकाननुकूलत्वविशिष्टप्रतियोगितासंबन्धेन कृतावन्वयः कर्तव्यः, अत्र स्वं वर्तमानध्वंसस्तदूविशिष्टो यो वर्तमान कालस्तद्वृत्तिकृतिजन्यो यः पचमानपुरुषकर्तृकः पाकस्तदननुकूलत्वसमानाधिकरणप्रतियोगिता संबन्धेन वर्तमानध्वंसस्य लुङर्थस्य कृतावन्वयः कर्तव्यस्तथा च पचमानकर्तृकर्तृकपाकानुकूलातीतकृतौ वर्तमानध्वंसप्रतियोगितायाः सत्त्वेप्युक्तस्वविशिष्टकालवृत्तिकृतिजन्यपाका ( पचमानकर्तृकपाका ) ननुकूलवं नास्ति - पचमानकर्तृकपाकानुकूलत्वस्यैव सत्त्वादिति न पचमानकर्तृकपाकानुकूलातीतकृतावुक्तसंबन्धेन वर्तमानध्वंस
"Aho Shrutgyanam"