________________
लङलिटोरर्थः]
व्युत्पत्तिवाद। लङ्गप्रत्ययस्वाऽतीतत्ववदनद्यतनत्वमप्यर्थ:- अद्य पचति 'अपचत् । इत्यप्रयोगात् । “ अभून्नृपः" इत्यादावनद्यतनत्वसत्त्वेपि तदविवक्षया न लङ्गप्रत्ययेन लुबाधः । अतोप्यऽनयतनत्वबोधकत्वं लप्रत्ययस्यावश्यकम्- स्वरूपसदनद्यतनत्वस्य लङ्साधुतानियामकत्वेनद्यतनत्वस्य वस्तुसतोऽविवक्षामा णोक्तस्थले लवारणानुपपत्तेः । इदमप्यग्नघतनत्वम्-प्रकृतशब्दप्रयोगाधिकरणदिनाऽवृत्तित्वम् । अथ वा स्वातन्त्र्येणाऽनद्यतनत्वं न लङर्थः किं तु ताशदिनाचक्षणवृत्तिध्वंसप्रतियोगित्वरूपमऽनद्यतनातीतत्वं विशिष्टमेव ।
अतीतत्वमऽनद्यतनत्वं परोक्षत्वं च लिटोर्थः । “ अध्यास्त सर्वर्तुसुखामयोध्याम् " इत्यादौ परोक्षत्वसत्त्वेपि परोक्षत्वाविवक्षया न लिट् । परोक्षत्वं च
वक्तुः साक्षात्काराविषयत्वम् । . स्यान्वयः संभवतीति न पचमाने पुरुषे मध्यदशायां वर्तमानपाकानुकूलातीतकृतिमादाय — अपाक्षीत् । इतिप्रयोगापत्तिरित्यर्थः । वस्तुतस्तु- अन्त्यकृतिध्वंसस्य लुङर्थत्वं स्वीकार्य तथा च वर्तमानपाकानुकूलान्यकृतेः पाकवर्तमानतादशायां ध्वसो न जात इति न तदानीम् ' अपाक्षीत् ' इतिप्रयोगापत्तिरी तिश्रीगुरवः ।
लङर्थभूतकालं निरूपयति- लङ्प्रत्ययस्येति । अतीतानद्यतनत्वं लङर्थ इत्यर्थः । उक्त हेतुमाह- अद्येति, यदि लोऽनद्यतनत्वं न स्यात्तदाद्य पचत्यपि-वर्तमानदिने कृतो नष्टश्च यः पाकस्तत्कर्तर्यपि चैत्रे ' अपचत् । इतिप्रयोगः स्यात्. न चैवं भवति तस्मादजद्यतनत्वमपि लङर्थोस्त्येवेत्यर्थः । ननु यद्यऽनद्यतनातीतत्वं लर्थस्ता " अभून्नृपः " इत्यत्र नृपेऽनद्यततनातीतवस्य सत्तात लदेव स्यान्न तु लङित्याशङ्कयाह- अभूदिति, मनद्यतनत्वस्य विवक्षा नास्तीति लुङः प्रयोगेपि न दोष इत्यर्थः । भनद्यतनत्वस्य लङर्थत्वे उपपत्त्यन्तरमाह-अतोपीति, यदि लङोऽनद्यतनार्थकत्वं न स्यात् किं तु स्वरूपसदेवानद्यतनवं लङ्साधुता नियामक स्वात्तदा स्वरूपसतः वर्तमानस्याऽविवक्षाया असंभवात् तादृशाऽविवक्षामात्रेण "अभून्नृपः " इत्यत्र लछारण नोपपद्येत यदा चानद्यतनत्वं लङर्थ एव तदा तु तस्याऽविवक्षा संभवतीत्यन द्यतनत्वस्याऽविवक्षया " अभून्नृपः " इत्यत्र लवारणं लुङः उपपादानं च संभवतीत्यर्थः । अनद्यतनत्वस्वरूपमाह- इदमिति । अपिशब्दाल्लुडानद्यतनत्वपरामर्शः । पक्षान्तरमाह- अय वेति, तादृशदिनम् शब्दप्रयोगाधिकरणदिनं तस्य य आद्यक्षणस्तवृत्तिध्वंसप्रतियोगित्वमनद्यतनातीतत्वं तदेव लङयः, आद्यक्षणवृत्तिध्वंसग्रहणेन वर्तमानदिने कृते नष्टेपि पाके ' अपचात् । इति लङः प्रयोगापत्तिर्नास्तीत्यर्थः । । लिडर्थभूतकालनिरूपणमारभते- अतीतत्वमिति । ननु यदि परोक्षत्वं लिडर्थस्तदा " अध्यास्त सर्वर्तुसुखामयोध्याम् " इत्यत्रायोध्यायाः परोक्षत्वेन लिट एव प्रयोगः स्यान तु " अध्यास्त " इतिलप्रयोग इत्याशङ्कयाह- अध्यास्तेति, परोक्षत्वविवक्षाया अभावादेवात्र न लिडित्यर्थः । परोक्षत्वस्वरूपमाह- परोक्षत्वमिति ।
"Aho Shrutgyanam"