________________
( ६१० )
खादर्श:
[ आख्यातप्रकरणे -
"
केचित्तु वक्तृभिन्नकर्तृकत्वमेव परोक्षत्वम्, अत एव लिट उत्तमपुरुषाsसंभवेनाsपरोक्षतायामपि लिटः साधुत्वे " णलुत्तमो वा इत्यादेर्शापकत्वमुपायकारोक्तं संगच्छते, अन्यथा निद्रादिदशायां स्वकर्तृकगमनादिक्रियायाः स्वपरोक्षत्वसंभवेन ज्ञापकत्वाऽसङ्गते रित्याहुः ।
5
"व्यातेने
कलिङ्गे दृष्टोसि, नाहं कलिङ्गान् जगाम इत्यादावत्यन्तापह्नवस्थले सूत्रान्तरेण क्रियाया अपरोक्षत्वेपि लिविधानात् तादृशज्ञापकबलेन किरणावलीम् " इत्यत्र लिटः साधुत्वोपपादनमुपायकृतामयुक्तमेवेति बोध्यम् । अत्यन्ताऽपद्दवश्चाऽबाधितपरोक्त विपरीत बोधनाय तदुपपादकाभावप्रतिपादनेच्छा कलिङ्गाधिकरणकदर्शनादेरुपपादकं कलिङ्गगमनादिकं तेन विना तदसंभवात् । अत्यन्तापह्नवः स्वरूपसन्नेव लिट्साधुतानियामकः ।
,
मतान्तरमाह- केचिदिति । उक्ताध्यासनक्रियायामपि कविभिन्नराजकर्तृकत्वमस्त्येव । अत एव = परोक्षत्वस्य वक्तृभिन्न कर्तृकत्वरूपत्वादेव उत्तमपुरुषस्य च वक्तृकर्तृकत्वालिट उत्तमपुरुषप्रयोगो नैव संमवेत्तथा च "लुत्तमो वा" इत्यनेन लिट उत्तमपुरुषादेशविधानं व्यर्थमेव स्यात् न च सूत्रवैयर्थ्य युक्तमित्यऽपरोक्षतायामपि लिटः साधुत्वं स्वीकार्यमित्यर्थः । विपक्षे बाधकमाहअन्यथेति, यदि साक्षात्काराविषयत्वमेव परोक्षत्वं स्यात्तदा निद्रादिदशायां स्वकर्तृकपार्श्वपरिवर्त नादिक्रियायां स्वपरोक्षत्वसत्त्वेन तादृशस्वपरोक्षक्रियोदेशेन लिट उत्तमपुरुषप्रयोगसंभवात् "लुत्तमो वा " इत्यादेशविधानं व्यर्थं न स्यादिति " णलुत्तमो वा " इत्यस्योपायकारेण यजूज्ञापकत्वमुक्तं तन्न संगच्छेत तस्मात् परोक्षत्वं वक्तृभिम्नकर्तृकत्वमेव न तु साक्षात्काराविषयत्वमित्यर्थः । परोक्षत्वस्य वक्तृन्निकर्तृकत्वरूपत्वे हि निद्रादिदशायामपि स्वकर्तृकगमनादौ स्वभि• कर्तृकत्वरूपं परोक्षत्वं नास्तीति " णलुत्तमो वा " इति सूत्रं व्यर्थं सजू ज्ञापयति- अपरोक्षतायामपि लिङ् भवतीति तथा च निद्रादिकालिकस्वीयगमनादौ परोक्षत्वाभावेपि लिङ्घटितप्रयोगस्य साधुत्वमुपपद्यते इत्यर्थः प्रतिभाति ।
कलिङ्गेति - चैत्रेण मैत्रं प्रत्युक्तम् ' कलिङ्गे दृष्टोसि ' तत्र मैत्रेणोक्तम्- ' नाहं कलिङ्गान् जगाम कथमहं कलिङ्गे त्वया दृष्टः ' इत्यर्थः । अत्र जगामेतिक्रियायाः परोक्षत्वाभावालिटो. ऽसंभवेप्यऽत्यन्तापह्नवस्थले सूत्रान्तरेण = " अत्यन्तापह्नवे लिट् वक्तव्यः " इतिवार्तिकेनाऽपरोक्षत्वेपि लिड् भवति. अस्ति चात्राऽत्यन्तापह्नव इति नात्र लिटोऽनुपपत्तिरित्यर्थः । एताः
ज्ञापन "व्यातेने " इत्यत्र लिटः साधुत्वोपपादनमुपायकारोक्तमयुक्तमेव - " व्यातेने " इत्यत्रात्यन्तापह्नवस्याभावात् क्रियाया अपरोक्षत्वेपि सूत्रान्तरेणोक्तेनाऽत्यन्तापह्नवस्थळे' एव लिड् विधानादित्यर्थः । अत्यन्तापह्नवस्वरूपमाह - अत्यन्तेति, अबाधितं यत्परोक्तं तद्विपरीतबोधनाय तदुपपादकस्य = अबाधितपरोक्तोपपादकस्य योऽभावस्तत्प्रतिपादनेच्छा तथा च कलिङ्गाधिकरणकदर्शनोपपादकं दृष्टस्य कलिङ्गगमनमेव तेन कलिङ्गगमनेन विना तदसंमवात == कलि
"Aho Shrutgyanam"