________________
लिङ्लोटोरर्थनिरूपणम् ] व्युत्पत्तिवादः ।
(६११) लिङ्लोटोविधिरर्थः- परप्रवृत्त्यर्थं तत्प्रयोगात् । विधिः प्रवर्तकज्ञानविषयो धर्मः, स च धर्मो न्यायनये कृतिसाध्यत्वं बलवदनिष्टाननुबन्धित्व (अजनकत्व) सहितमिष्टसाधनत्वं च, ' ओदनकामः पवेत् ' "स्वर्गकामो यजेत" इत्यादावोदनस्वर्गादिरूपं यत्फलं तत्साधनत्वं पाकयागादिक्रियायां प्रतीयते । तादृशफलानां च तत्तद्रूपेण लिङादिशक्यतावच्छेदककोटिप्रवेशे शत्यानन्त्यं सर्वसाधारण्येन व्युत्पत्त्यनुदयेनाऽपूर्वफलसाधनत्वबोधानिर्वाहश्चेतीष्टत्वेन तेषामनुगमः । इष्टत्वम् समभिव्याहतपदोपस्थापितकामनाविषयत्वम्, अत: 'स्वर्गकामः पचेत' इत्यादौ शक्तिभ्रमशून्यस्य नौदनादिसाधनत्वधी.. न वा तत्तात्पपेण तथाप्रयोगः प्रामाणिकानाम् ।
इष्टत्वज्ञानस्याऽप्रवर्तकत्वेपि शक्यफलानुगमार्थ तस्य शक्यता । वस्तुतस्त्व. झाधिकरणकदर्शनासंभवात्. अत्र च कलिङ्गगमनाभाव उक्त एव-"नाहं कलिङ्गान् जगाम " इत्यत्रात्यन्तापहवस्य सत्ताल्लिटः साधुत्वमस्त्येवेत्यर्थः । अयं चारयन्तापहवो न लिडर्थ इत्याह-- अत्यन्तापह्नव इति ।
लिङ्लोटोरर्थनिरूपणमारभते- लिङ्लोटोरिति, प्रवर्तकत्वमेव विधित्वमस्तीति लिब्लोटोः परप्रवृत्त्यर्थं प्रयोगाद्विध्यर्थकत्वमित्यर्थः । विधिस्वरूपमाह- विधिरिति । समन्वयमाह- ओदन इति । तादृशफलानाम् स्वर्गादिफलानाम् । तत्तद्रूपेण-स्वर्गत्वादिरूपेण । लिङादिशक्यतावच्छेदककोटीति-लिङः शक्यं यदिष्टसाधनत्वं तद्विशेषणीभूतेष्टस्य शक्यतावच्छेदकत्वं प्राप्तम् इष्टं च स्वर्गादिरेव तत्र स्वर्गादीनां स्वर्गवादिरूपेण शक्यतावच्छेदकत्वे शक्यानन्त्यं स्यात् तथा च सर्वसाधारण्येन व्युत्पत्त्यनुदयेन-शक्तिप्रहो न स्यादित्यज्ञातफलसाधनत्वबोधानुपपत्तिः स्यादिति तेषाम् स्वर्गादीनामिष्टत्वेनानुगमः- इष्टत्वेनेष्टसाधनत्वे लिङ्लोटोः शक्तिरित्यर्थः । इष्टत्वस्वरू. पमाह- इष्टत्वमिति, समभिव्याहृतं यत् स्वर्गकामपदं तदुपस्थिता या स्वर्गकामना तद्विषयत्वं स्वर्गस्यास्तीतीष्टत्वं प्राप्तम् । अत इति- यतः समभिव्याहृतपदोपस्थापितकामनाविषयत्वमिष्टत्वं तादृशेष्टसाधनखमेव च समभिव्याहृतव्यापार संभवत्यतः ' स्वर्गकामः पचेत ' इत्यत्र शक्तिभ्रमशून्यस्य पाकव्यापारे स्वर्गसाधनत्वज्ञानमेव जायेत न त्वोदनसाधनत्वज्ञानं समभिव्याहतस्वर्गकामपदेनेष्टत्वेन स्वर्गस्यैवोपस्थापितत्वात्, तत्तात्पर्येण ओदनसाधनवतात्पर्येण तथा' स्वर्ग. कामः पचेत ' इतिप्रयोगोपि न भवति किं तु स्वर्गसाधनत्वतात्पर्येणैव 'स्वर्गकामः पचेत । इतिप्रयोगः संभवति, भोदनसाधनत्वतात्पर्येण तु 'ओदनकामः पचेत । इत्येव. प्रयोगो भवतीत्यर्थः। - इष्टत्वेति- केवलमिष्टत्वज्ञानस्य प्रवर्तकत्वं न भवति, अन्यथा सुमेरुसमानयनेपि प्रवृत्तिः स्यादिष्टत्वादितीष्टस्वज्ञानस्याऽप्रवर्तकत्वेपि तस्य-इष्टत्वस्य शक्यभूतस्वर्गादिफलानामनुगमार्थ शक्यता स्वीक्रियते. अन्यथा शक्त्यानन्त्यं स्यादित्यर्थः । स्वाभिप्रायमाह- वस्तुतस्त्विति,
"Aho Shrutgyanam"