________________
( ६१२ ).
सादर्श:
[ आख्यातप्रकरणे
शक्यस्यैव तस्य शक्यानुगमकता सर्वनामस्थले बुद्धिस्थत्ववत् तेन रूपेण फलानां संकेतविषयतां विना शक्त्यैक्यासंभवात् । तस्य संकेतविषयत्वोपगमेपि यथा न तस्य वाच्यता तथा प्रपञ्चितमन्यत्र | अत्र चेष्टत्वस्य शाब्दबोधेऽभानाद विशिष्येष्टतावच्छेदकस्वर्गत्वादिप्रकारेण शाब्दबोधोत्पत्त्या विधवाक्यात् प्रवर्तकज्ञान निर्वाहः ।
यन्तु - इष्टत्वेन फलभानेपि स्वर्गकामादिपदैकदेशोपस्थितस्वर्गत्वावच्छिन्नस्य विध्यर्थैकदेशे इष्टेऽभेदान्वयात् प्रवर्तकज्ञाननिर्वाह इति, तन्न सत् - वृत्तिशब्दे - कदेशे इतरानन्वयनियमात् स्वर्गत्वादिप्रकारेण कामनाधीनप्रवृत्तौ स्वर्गत्वादिविशेषितफलसाधनताज्ञानस्य हेतुतयाऽभेदेन स्वर्गादिविशेषितफलसाधनताज्ञानतस्य=इष्टत्वस्य । तेन - इष्टत्वेन रूपेण । तथा च यथा बुद्धिस्थत्वोपलक्षितधर्मावच्छिन्ने तत्पदस्य शक्तिस्तथात्र इष्टत्वोपलक्षितधर्मावच्छिन्नसाधनत्वे लिङः शक्तिरित्यर्थः । तस्य = उपलक्षणस्य । यथा ' बुद्धिस्त्वोपलक्षितधर्मावच्छिन्नं तत्पदं बोधयतु इत्येवं संकेत स्वीकारादुपलक्षणस्य बुद्धिस्त्वस्य संकेतविषयत्वमस्ति यद्यपि तथापि न वाच्यत्वमित्यन्यत्र शक्तिवादे प्रतिपादितं तथात्रापीष्टत्वस्योपलक्षणस्य ' इष्टत्वोपलक्षितधर्मावच्छिन्नसाधनत्यं लिङ् बोधयतु ' इत्येवं संकेतविषयत्वेपि न वाच्यत्वमित्यर्थः । प्रवृत्तिर्हि विशेषरूपेण ज्ञाने सत्येव भवति न त्विष्टत्वमात्रज्ञा" . नादन्यथा स्वर्गादीनामिष्टत्वात् पाकादीनां चेष्टसाधनत्वात् स्वर्गकामः पाके तृप्तिकामश्च यागेपि प्रवर्तेत न चैवमस्तीति शाब्दबोधे सामान्यरूपेणेष्टत्वभानं न भवति किं तु विशेषरूपेणेष्टतावच्छेदकं यत् स्वर्गत्वादिकं तत्प्रकारेणैव शाब्दबोधो भवति विशेषरूपेण च शाब्दबोधे जाते न प्रवृत्त्यनुपपत्तिरिति प्रवर्तकज्ञान निर्वाहः = लिङादिजन्यशाब्दबोधस्य प्रवर्तकत्वनिर्वाह: संभवतीत्याह- अत्रेति । उक्तेन विधिवाक्यात् प्रवर्तकं ज्ञानं जायते इत्यस्य निर्वाह: संपन्न इति यावत् ।
L
ननु फलस्य स्वर्गादेरिष्टत्वेन सामान्यरूपेण मानेपि प्रवर्तकज्ञानानुपपत्तिर्नास्ति यतः स्वर्ग - कामपदार्थैकदेशो यः स्वर्गस्तस्य विध्यर्थो यदिष्टसाधनत्वं तदेकदेशेनेष्टपदार्थेनामेदान्वयः संभवत्येव तत्र स्वर्गाभिन्नेष्टसाधनत्वज्ञानादपि यागादौ प्रवृत्तिः संभवत्येवेति मतमुपस्थापयतियत्त्विति । परिहरति- तन्नेति, ' स्वर्गकामः ' इतिकृदन्तवृत्तिशब्दस्तदेकदेशेन स्वर्गपदेनेष्टपदस्या मेदान्वयो न संभवति, अन्यथा ऋद्धस्य राजमातङ्गाः ' इत्यत्राप्यभेदान्वयः स्पादित्यर्थः । " वृत्तिशब्देकदेशे " इत्यत्र ' वृत्तिशब्दार्थैकदेशे ' इतिपाठो युक्तस्तस्य च वृत्तिशब्दार्थो यः स्वर्गकामपदार्थस्तदेकदेशे स्वर्गे इतरस्य - इष्टस्याभेदान्वयो न युक्त इत्यर्थः स्यात् । किं च स्वर्गत्वप्रकारककामनाधोना या यागे प्रवृत्तिस्तस्यां स्वर्गत्वविशिष्टफलसाधनत्वज्ञानं हेतुरस्तीत्यऽभेदेन स्वर्गविशिष्टं यदिष्टरूपं फलं तत्साधनताज्ञानस्य स्वर्गत्यप्रकारककामनाधीनप्रवृत्तावुपपयोगोपि नास्ति येन त्वदुक्तरीत्या स्वर्गे विध्यर्थैकदेशेष्टस्या भेदान्वयः कल्प्येतेत्याह- स्वर्गत्वा दीति । नन्वमेदेन स्वर्गप्रकारक स्वर्गरूपेष्टसाधनताज्ञानम् = स्वर्गाभिन्नं यदिष्टं तत्साधनताज्ञानमपि
"Aho Shrutgyanam"
,