________________
उक्तविधिप्रत्ययार्थनिर्वचनम् ] व्युत्पत्तिवादः ।
(६१३) स्यानुपयोगित्वाच्च । 'अभेदेन स्वर्गादिप्रकारकस्वर्गादीष्टसाधनवाज्ञानमपि स्वर्गस्वादिप्रकारकावृत्ती हेतुः, अत एव " स्वर्गकामो यजेत " इत्यादितः प्रवृत्तिः' इति तु न युक्तम्-स्वर्गत्वप्रकारककामनाया अधिकारत्वानुपपत्तेः।
अथेष्टत्वस्थ शक्योपलक्षणत्वे वदंशाऽभाननिर्वाहेपि स्वर्गवादेरशक्यस्य भानं न संभवति-अशक्यस्य भानोपगमेऽतिप्रसङ्गादितिचेत् ?, स्वर्गवाद्यवणिों समभिव्याहतकामनाविषयत्वज्ञानसहकृतस्य तादृशकामनाविषयतावच्छिन्नशक्ति ज्ञानस्य स्वर्गवादिप्रकारकशाब्दधीहेतुत्वोपगमेऽतिप्रसङ्गानवकाशात् । वस्तुतस्ता
शकामनाविषयतावच्छेदकत्वोपलक्षितस्वर्गवादिविशिष्टसाधनत्वे शक्तिस्वीकारात् सर्वसामञ्जस्यम् । स्वर्गत्वादिप्रकारककामनाधीनप्रवृत्ती हेतुः संभवत्येव. अन्यथा “ स्वर्गकामो यजेत'" इत्यनेन यागे प्रवृत्तिरेव न स्यात यागे स्वर्गाभिन्नेष्टसाधनत्वज्ञानासंभवादित्याशङ्कयाह- अभेदेनेति । परिहरति-नेति, एवं हि स्वर्गत्वप्रकारककामनाया यदिष्टमधिकारत्वं तन्न स्यात् किं त्वभेदेन स्वर्गप्रकारकस्वर्गरूपेष्टफलकामनाया एवाधिकारत्वं स्यात् न चैतदिष्टम्. " स्वर्गकामः " इतिपदेनाधिकारिविशेषणीभूतायाः स्वर्गत्वप्रकारककामनाया एवाधिकारत्वप्रतीतेरित्यर्थः ।। _ननूपलक्षणस्य शाब्दबोधे भानं न भवतीत्युपलक्षणीभूतस्येष्टत्वरूपांशस्य लिङर्थस्य शाब्दबोधे भानामावसंभवेपि स्वर्गत्वादेरशक्यस्य लिङा भानं न संभवति-लिङः स्वर्गत्वावच्छि नेष्टसाधनत्वे शक्त्यऽभावात्. अन्यथा पाकादाविष्टसाधनत्वज्ञानं न स्यात् पाकादौ स्वर्गत्वावच्छिन्नेष्टसाधनस्वाभावात्, लिड इष्टसाधनत्वे. शक्तिरस्ति न च तत्र स्वर्गस्य प्रवेशोस्ति येन स्वर्गवस्य वाक्यत्वं तेन च मान स्यात, अशक्यस्यापि शाब्दबोधे भानस्वीकारेऽतिप्रसन: बट स्वादीनामपि भानं प्रसज्येतेत्याशङ्कते-अथेति । उत्तरमाह-स्वर्गवाद्यवच्छिन्नेति, " स्वर्गकामो यजेत " इत्यत्र स्वर्गस्य सममिव्याहृतकामनाविषयत्वमस्तीति स्वर्गवावच्छिन्ने यत्समभिव्याहृतकामनाविषयत्वज्ञानं तत्सहकृतं यत्स्वर्गे सममिव्याहृतकामनाविषयतावच्छिन्नशक्तिज्ञानं तेन स्वर्गत्वादिप्रकारक एव शाब्दबोधो जायते इति न स्वर्गत्वस्य भानानुपपत्तिर्न वान्य-- धर्मस्य भानापत्तिरित्यन्वयः, अत्र स्वर्गस्य कामनाविषयत्वमस्त्येव कामनाविषयत्वमेव चेष्टत्वं.. सममिव्याहृतकामनाविषयतावच्छिन्नं चेष्टमिति लिनिष्ठा या शक्तिस्तज्ज्ञानं तादृशकामनाविषयतावच्छिन्नसाधनत्वविषयकमेवेति प्राप्तं तादृशशक्तिज्ञानेनात्र यागे स्वर्गवावच्छिन्नसाधनत्वस्यैव बोधो भवतीति न स्वर्गवस्य भानानुपपत्तिर्न वान्यधर्ममानापत्तिरिति भावः । निष्कर्षमाहवस्तुत इति, समभिन्याइतकामनाविषयत्वो (इष्टत्यो ) पलक्षितं यत् स्वर्गवं तदवच्छिन्नसाधनत्वे लिङः शक्तिः स्वीकारात् सर्वसामञ्जस्यम् स्वर्गत्वस्यापि शक्यकोटिप्रवेशेन न मानानुपपत्तिर्न वान्यधर्मभानापत्तिस्तस्य शक्यकोटिप्रवेशाभावात, शक्यकोटिप्रवेशश्च सममिव्यातकामनाविषयतावच्छेदकधर्मस्यैव संभवति नान्यस्येत्यर्थः ।
"Aho Shrutgyanam"