________________
(६१४)
सादर्शः
[ आख्यातप्रकरणे न च स्वर्गरवादिविशिष्टसाधनत्वस्य विधिप्रत्ययवाच्यत्व न संभवति- स्वर्गवादेगङ्गास्नानादिजन्यस्वर्गादिसाधारण्येन यागादिजन्यतानवच्छेदकतया यागादों स्वर्गत्वादिविशिष्टसाधनत्वबाधात. न हि जन्यतानवच्छेदकधर्मो जन्यत्वनिरूपके विशेषणमितिवाच्यम्, स्वर्गत्वादेः शक्यविशेषणत्वेपि तदुपलक्षितवैजात्यावच्छिननिरूपितजनकताया यागादाकऽबाधितायाः स्वर्गादिजनकतात्वेन विधिप्रत्ययतो भानसंभवात् । घटत्वादिविशिष्टवाचकपदघटितात् 'घटं द्रव्यत्वेनैव जानाति इत्यादिवाक्याद् घटत्वाद्युपलक्षितघटादिविशेष्यकत्वभानवत् । __न च तद्धर्मावच्छिन्ननिरूपिततत्साधनत्वज्ञानं विना तद्धर्मप्रकारकफलेच्छा/नप्रवृत्त्यनिर्वाह इतिशङ्क्यम्, वह्नित्वादिप्रकारकेच्छातोपि तृणादिसमवधाने
ननु " स्वर्गकामो यजेत " इत्यत्र स्वर्गसाधनत्यस्य लिङ्वाच्यत्वं न संभवति स्वर्गो हि गङ्गास्नानादिनापि भवत्येव न तु यागेनैव भवति येन यागजन्यतावच्छेदकत्वं स्वर्गत्वस्य स्यात् तथा च यागे स्वर्गसाधनत्वस्य यागत्वे च स्वर्गसाधनतावच्छेदकत्वस्य बाधः प्राप्त:- अन्यूनानतिप्रसक्तधर्मस्यैवावच्छेदकत्वस्वीकारात.यागादौ स्वर्गसाधनत्वस्य बाधितत्वाच्च न विधिप्रत्ययवाच्यत्वं संभवतीत्यन्वयः, उक्त हेतुमाह- न हीति, अत्र जन्यतानवच्छेदकं यत्स्वर्गत्वं तस्य जन्यत्वनिरूपके जनके साधने विशेषणत्वं न संभवति जन्यतानवच्छेदकधर्मावच्छिन्ननिरूपिता जनकतान भवति. अत्र च त्वया यागे स्वर्गसाधनत्वं वक्तव्यं तत्र च स्वर्गस्वस्यापि विशेषणत्वं प्राप्तमेवेत्याशक्याह-न चेति । उत्तरमाह- स्वर्गवादेरिति, यद्यपि स्वर्गत्वं शक्य विशेषणं गङ्गास्नानादिजन्यस्वर्गसाधारणं च तथापि स्वर्गवोपलक्षितं यद्वैजात्यं यागजन्यस्वर्गनिष्ठं वैलक्षण्यं तादृशवैजात्यावच्छिन्नो यः स्वर्गस्तन्निरूपितजनकता तु यागे एव न गङ्गास्नानादाविति स्वर्गादिजनकतात्वेन रूपेण स्वर्गजनकत्वस्य स्वर्गसाधनत्वस्य यागादौ विधिप्रत्ययेन भानं संभवत्येवेत्यर्थः । ननु स्वर्गस्वस्य विशेषणत्वे वैजात्योपलक्षणत्वं कथं स्यादित्याशक्य दृष्टान्तमाह- घटत्वेति, 'घटं द्रव्यत्वेनैव जानाति ' इत्यत्र यद्यपि घटत्वं शक्यघटविशेषणमेव तथाप्यत्र घटत्वोपलक्षितद्रव्यत्वप्रकारकघटविशेष्यकं भानं भवतीत्येतादृशविशेष्यकत्वभाने यथा शक्य विशेषणस्यापि घटत्वस्य द्रव्यत्वोपलक्षणत्वं तथोक्तस्थले शक्यस्वर्गविशेषणस्यापि स्वर्गत्वस्योक्तवैजात्योपलक्षणत्वं संभवत्येवेत्यर्थः । स्वर्गस्वस्थ स्वर्गविशेषणत्वेपि सामानाधिकरण्येन वैजात्योपलक्षणत्वे बाधकाभावाद् यद्विशेषणत्वं तदुपलक्षणत्वे एव विरोधादिति सारः । - ननु तद्धर्मावच्छिन्न निरूपितं यत् तत्साधनत्वं तज्ज्ञानं विना तद्धर्मप्रकारकफलेच्छाधीना प्रवृत्तिर्न संभवति यथा तन्तुषु पटत्वावच्छिन्ननिरूपितसाधनत्वज्ञाने सत्येव या पटत्वप्रकारकफलेच्छा तदधीना प्रवृत्तिर्भवति नान्यथा त्वया च स्वर्गत्वस्य वैजात्योपलक्षणत्वमुक्तमिति यागे स्वर्गवावच्छिन्ननिरूपितसाधनत्वज्ञानं न प्राप्तं तथा च स्वर्गत्वप्रकारकस्वर्गेच्छाधीनप्रवृत्तिर्यागे नस्यादित्याशङ्क्याह- न चेति । उत्तरमाह- वह्नित्वादीति, तृणादिकार्यतावच्छेदकं न वह्नित्वं बहित्वस्य करीषादिजन्यवहावपि सत्त्वात् किं तु तृणजन्यवह्नित्वमेव तत्र यथा वहित्वप्रकारके
"Aho Shrutgyanam"