________________
उक्त विधिप्रत्ययार्थनिर्वचनम् ]
व्युत्पत्तिवादः ।
( ६१५ )
ऽभ्रान्तप्रवृत्तेरानुभविकत्वात्, भूयः सुखार्थिनामपि भ्रमं विना क्रियाविशेषे प्रवृत्तेश्वतद्धर्मावच्छिन्नफलार्थिप्रवृत्तौ तद्धर्मप्रकारेण भासमानफलं प्रति साधनताज्ञानस्यैव प्रवर्तकत्वात् । स च धर्मः कार्यतावच्छेदकतया भासतां कार्यांशे उपलक्षणतयैव वेत्यन्यदेतत् । न हि वह्नित्वादिकं तृणादिजन्यतावच्छेदकम् - व्यभिचारिसाधारणत्वात् न वा भूयस्त्वादिक कस्यचिज्जन्यतावच्छेदकम् - अर्थवश संपन्नत्वात् ।
एवं सति घटत्वावच्छिन्नफलार्थी तत्वादौ कथं न प्रवर्तते ? तन्त्वादेरापे घटत्वाद्युपलक्षितजन्यत्वादिविशिष्टनिरूपितद्रव्यत्वावच्छिन्न साधन तावत्स्वादितिचेतू ?, फलानुपधाननिश्चयात् तस्य स्वातन्त्र्येण प्रवृत्तिप्रतिबन्धकत्वात् । फलोच्छातस्तृणसंप्रहे प्रवृत्तिर्भवति तथा स्वर्गस्त्रं यद्यपि न यागजन्यतावच्छेदकं गङ्गास्नानादिजन्यस्वर्गसाधारणत्वात् किं तु तद्वैजात्यमेव तथापि स्वर्गत्वप्रकारकफलेच्छाधीना प्रवृत्तिर्यागादौ संभवत्येवेत्यन्वयः । भूय इति - क्रियाविशेषे = भोजनादौ हि तृप्तिसाधनत्वमेवास्ति न तु सामान्यतः सुखसाधनत्वमन्यथा तृष्व्यतिरिक्तसुखेच्छावतोपि भोजने प्रवृत्तिः स्यात् न चैवं भवत्यsथापि सुखार्थिनो मोजनादौ प्रवृत्तिर्भवति तत्कस्य हेतोः ? सुखत्वस्य तृप्तित्वादिव्यापकत्वादेव तथा च तद्धर्मावच्छिन्नफलार्थिप्रवृत्तौ तद्धर्मप्रकारेण भासमानफलं प्रति साधनत्वज्ञानमेव प्रत्रर्तकमिति प्राप्तं तथा च स्वर्गलस्योक्तवैजात्योपलक्षणत्वेपि स्वर्गप्रकारत्वमस्येव तादृशस्वर्गत्वप्रकारेण भासमानस्वर्गं प्रति यागे साधनत्वज्ञानसंभवात् स्वर्गत्वावच्छिन्नफलार्थिप्रवृत्तिर्यागे नानुपपन्ना, उक्तरीत्या वह्नित्वादीतिदृष्टान्तेन सामान्यधर्मावच्छिन्नफलार्थिनोपि विशेषधर्मावच्छिन्ननिरूपितसाधनत्वज्ञानेन प्रवृत्त्युपपत्तेरित्यर्थः । यद्धर्मप्रकारेण भासमानफलं प्रति साधनत्वज्ञानं प्रवर्तकं भवति स धर्मः कार्यतावच्छेदकतया भासतां कार्याशे उपलक्षणतया वेत्यत्र नामहस्तत्र वह्नित्वादिकं कार्यतावच्छेदकतया मासते " स्वर्गकामो यजेत " इत्यत्र स्वर्गत्वमुपलक्षणतया भासते इत्याह- स चेति । वह्नित्वं हि करीषादिजन्यवह्नावपि वर्तते इति साधारणलक्षणव्यभिचारित्वान्न तृणादिजन्यतावच्छेदकमथापि वह्नित्वावच्छिन्नफलार्थिनस्तृणादौ प्रवृत्तिर्भवत्येव न वा भूयः सुखजनकानां भूयस्त्वं जन्यतावच्छेदकं भवति भूयस्त्वस्याधिकसुखेऽर्थादेव प्राप्तत्वात सुखावच्छेदकत्वाभावाच्चाऽथापि भूयःसुखार्थिनां क्रियाविशेषे प्रवृत्तिर्भवत्येव, एवं स्वर्गस्वस्य यागजन्यतानवच्छेदकत्वेपि स्वर्गत्वावच्छिन्नफलार्थिनो यागादौ प्रवृत्तिरुपपद्यत एवेत्यर्थः । प्रागजन्यतावच्छेदकं तु स्वर्गत्वोपलक्षितोक्तवै जात्यमेवेति विज्ञेयम् ।
ननु यद्युपलक्षणीभूतस्वर्गत्वावच्छिन्ननिरूपितसाधनत्वज्ञानेनापि स्वर्गार्थिनो यागे प्रवृत्तिर्भति तदा घटार्थिनो मृत्तिकायामित्र तन्तुष्वपि प्रवृत्तिः स्यात् - तन्तुष्वपि घटत्वोपलक्षितं यजन्यत्वं तद्विशिष्टनिरूपिता = तदवच्छिन्ननिरूपिता या द्रव्यत्वावच्छिन्नसाधनता तस्याः सत्त्वादेव पटे द्रव्यत्वमस्येव तत्र घटत्वस्योपलक्षणत्वमपि संभवत्येवेति तन्तुषु घटत्वोपलक्षितद्रव्यत्वावच्छि नसाधनत्वं प्राप्तमेवेत्याशङ्कते - एवं सतीति । उत्तरमाह - फलानुपधानेति, तन्तुभिर्घटो नोत्प
"Aho Shrutgyanam"