________________
(६१६)
सादर्शा
[ आख्यातप्रकरणेपधायकसाधनत्वस्य वा विधिप्रत्ययार्थतया ‘घटकामस्तन्तुमुपाददीत ' इत्यादिर्न प्रयोगः । न च तथापि स्वर्गत्वादेर्यागादिनिष्ठकारणताघटकव्यापकतानिरूपंकतानवच्छेदकतया स्वर्गवावच्छिन्ननिरूपितव्यापकताघटितकारणताया बाधः स्वर्गादिनिष्ठकार्यतावच्छेदकवैजात्यस्य च कारणताग्रहोत्तरकालकल्प्यत्वेन प्रागनुपस्थित्या तदवच्छिन्ननिरूपितव्यापकताबोधासंभव इति " स्वर्गकामः" इत्यादौ विध्यर्थबोधानुपपत्तिारैवेति वाच्यम्, स्वरूपसंबन्धरूपाया एवं कारणताया विध्यर्थत्वोपगमात् । द्यते इतिनिश्चयस्य सत्त्वादेव घटार्थी तन्तुषु न प्रवर्तते । तस्यफलानुपधाननिश्चयस्य । न चैवं यागे स्वर्गत्वोपलक्षितफलाऽजनकत्वनिश्चयोस्ति येन प्रवृत्तिप्रतिबन्धः स्यादित्यर्थः । पक्षा. न्तरमाह- फलोपधायकेति, फलोपधायकं यदिष्टसाधनं तनिष्ठं यदिष्टसाधनत्वं तल्लिङर्थस्तथा च तन्तुषु घटत्वावच्छिन्नफलोपधायकत्वं नास्तीति न ‘घटकामस्तन्तुमुपाददीत' इतिप्रयोगापत्तिः, यागे तु स्वर्गत्वावच्छिन्नफलोपधायकत्वमस्तीति न " स्वर्गकामो यजेत" इतिप्रयोगानुपपत्तिरित्यर्थः । शङ्कते- न चेति, अयमर्थः- प्राक्क्षणवृत्त्यऽत्यन्ताभावाऽप्रतियोगित्वं हि कारणत्वं तदधिकरणनिष्ठाऽत्यन्ताभावाप्रतियोगित्वमेव च व्यापकत्वं कारणं विना च कार्याऽभभवात् कारणे व्यापकत्वं प्राप्तं तच्च व्यापकत्वं कारणताघटकमेव तादृशकारगताघटकव्यापकताया निरूपकतावच्छेदकं च कार्यतावच्छेदकं भवति यथा तन्तुनिष्ठकारणताघटकव्यापकतायाः पटत्वं निरूपकतावच्छेदकं भवति पटस्यैव तादृशव्यापकतानिरूपकत्वात् न तु तन्तुनिष्ठकारणताघटकन्यापकताया द्रव्युत्वं निरूपकतावच्छेदकं भवति तथा च यागनिष्ठकारणताघटकव्यापकताया निरूपकतावच्छेदकम् उक्तं स्वर्गवोपलक्षितवैजात्यमेव संभवति न तु स्वर्गत्वं तस्य गङ्गास्नानादिजन्यस्वर्गसाधारणत्वादिति स्वर्गवं यागनिष्ठकारणताघटकव्यापकतानिरूपकताऽनवच्छेदकमेव तथा च यागेपि स्वर्गवावच्छिन्ननिरूपिता या व्यापकता तद्घटितकारणताया बाधः प्राप्तः, स्वर्गादिनिष्ठकार्यतावच्छेदकं यद्वजात्यमुक्तं तत्तु यागनिष्ठकारणताग्रहोत्तरकाले एव कल्प्यमस्ति यागे स्वर्गकारणताग्रहे जाते यागजन्यस्वर्गनिष्ठवैजात्यस्य कल्पनीयत्वादिति. ताशवैजात्यस्य प्राक् कारणताग्रहपूर्वकालेऽनुपस्थित्या तदवच्छिन्ननिरूपितायाः उक्तवैजास्यावच्छिननिरूपि. ताया व्यापकताया यागे बोधो, न संभवतीति " स्वर्गकामो यजेत " इत्यादौ विध्यर्थबोधानुपपत्तिारैव- एतद्रीत्या यागे उक्तफलोपधायकसाधनत्वग्रहासंभवादित्यर्थः । उत्तरमाहस्वरूपसंबन्धेति । स्वरूपसंबन्धरूपाया:स्वरूपयोग्यतारूपायाः । स्वरूपयोग्यतारूपा कारणता तु स्वर्गस्वावच्छिन्ननिरूपिता यागेऽस्त्येवेति न विध्यर्थबोधानुपपत्तिः, किं वा स्वर्गादिनिष्ठकार्यतावच्छेदकवैजात्यस्य फलोपधायकतारूपकारणताया ग्रहोत्तरमपि कल्प्यत्वे स्वरूपयोग्यतारूपकारणतायास्तु पूर्वमपि कल्प्यत्वं संभवत्येवेति तादशवैजात्यावच्छिन्ननिरूपितायाः स्वरूपसं. बन्धरूपाया व्यापकताघटितकारणताया यागे बाधो नास्तीति न विध्यर्थबोधानुपपत्तिरित्यर्थः ।
"Aho Shrutgyanam"