________________
स्वर्गकारणत्वनिर्वचनम् }
व्युत्पत्तिवादः ।
अन्यथासिद्धिनिरूपकताऽनवच्छेदकनियतोत्तरवर्तितावच्छेदकधर्मवत्स्वर्गकत्वमेव वा स्वर्गकारणत्वं नियतोत्तरवर्तितावच्छेदकश्च धर्मो विशिष्योत्तरकालकल्प्यो जातिविशेष एव नियतोत्तरवर्तितावच्छेदकत्वेन सामान्यरूपेण शाब्दबुद्धौ भासते, नियतोत्तरवर्तितावच्छेदकत्वं च कारणतावच्छेदकत्वाभिमतधर्मावच्छि न्नतपापारान्यतराभावाधिकरणताविशिष्टोत्पत्तिक्षणावच्छिन्नाधिकरणतानिरू पकतानवच्छेदकत्वम्. अधिकरणतावैशिष्ट्यं च स्वावच्छेदकक्षणाव्यवहितोत्तरक्षणावच्छिन्न स्वाश्रयनिष्ठत्व संबन्धेन ।
( ६१७ )
यागस्य स्वर्गव्यापकत्वं च यागजन्यादृष्टद्वारा विज्ञेयम्-यागस्य क्रियारूपत्वेन स्वर्गतः पूर्वमेव विनाशित्वादिति ।
पक्षान्तरमाह — अन्यथासिद्धीति, घटत्वादिकं गर्दभादिनिष्ठान्यथा सिद्धिनिरूपकतावच्छेदकं मवति घटा देस्तादृशान्यथा सिद्धिनिरूपकत्वादित्यपथासिद्धिनिरूपकता नवच्छेदको यो नियमेनोत्तरवर्तितावच्छेदकः - यागोत्तरवर्तितावच्छेदको धर्मो वैजात्यविशेषस्तद्वान् यः स्वर्गस्तादृशस्वर्गकत्वम् ( जनकतासंबन्धेन तादृशस्वर्ग विशिष्टत्वमेत्र ) स्वर्गकारणत्वं तच यागेऽस्त्येवेति न विध्यर्थबोधानुपपत्तिरित्यर्थः । घटत्वादिकं गर्दभादिनिष्ठान्यथासिद्धेर्निरूपकतावच्छेदकं भवतीति घटादिकं प्रति गर्दभादेरन्यथासिद्धत्व प्राप्त्या कारणत्वं न भवति प्रकृते च स्वर्गनिष्ठवेजात्यस्य यागनिष्ठान्यथा सिद्धिनिरूपकतावच्छेदकत्वं नास्तीति तादृशवैजात्यविशिष्टस्वर्गः प्रति यागस्य कारणत्वं प्राप्तम् - अन्यथा सिद्धि निरूपकता नवच्छेदक नियतो त्तरवर्तितावच्छेदकधर्मावच्छिन्नं प्रति तदव्ययहितपूर्वकालवर्तिनः कारणत्वनियमादिति भावः । नियतोत्तरवर्तितावच्छेदकधर्म स्वरूपमाहनियतोत्तरवर्तितावच्छेदकश्चेति, स च धर्मो विशेषरूपेण तु यद्यपि कारणताप्रहोत्तरकाले एव कल्यो जातिविशेषः = वैजात्यविशेषोस्ति तथापि कारणताग्रहपूर्वकालेपि नियतोत्तरवर्तितावच्छेदकत्वेन सामान्यरूपेण शाब्दबुद्धौ भासते इति तन्निरूपितकारणताघटकव्यापकता महसंभवान्न विध्यर्थबोधानुपपत्तिरित्यर्थः । नियतोत्तरवर्तितावच्छेदकत्वस्वरूपमाह- नियतो तरवर्तितावच्छेदकत्वमिति । कारणतेति कारणतावच्छेदकत्वेनाभिमतौ यो धर्मो यागत्वं तदवच्छिन्नो यो यागस्तदभावाधिकरणतया वा तद् ( याग ) व्यापाराभावाधिकरणतया वा ( काल निष्ठया ) विशिष्टा या उत्पत्तिक्ष गावच्छिन्नाधिकरणता = स्वर्गमिन्नघटाद्युत्पत्तिक्षणावच्छिन्नाधिकरणता ताहशाधिकरणताया निरूपकता घटादौ भवति निरूपकतावच्छेदकत्वं च घटत्वादौ भवति निरूपकताया अनवच्छेदकत्वं च स्वर्गनिष्ठवैजात्येस्तीति तदेव नियतोत्तरवर्तितावच्छेदकत्वं विज्ञेयम्, घटोत्पत्तिक्षणे च यागस्तद्व्यापारयोः सत्त्वस्य नियमाभावेन यागस्य योगत्र्यापारस्य चाभावः संभवत्येवेति तादृशाभावाधिकरणतया विशिष्टा घटोत्पत्तिक्षणावच्छिन्न धिकरणता विज्ञेयाउक्तोभयोरप्यधिकरणतयोरेककालवृत्तित्वेन समानाधिकरणत्वादित्यन्वयः । उक्तवैशिष्ट्यप्रयोजकसंबन्धमाह - अधिकरणता वैशिष्ट्यमिति । स्वावच्छेदकेति- स्वम् = यागतद्व्यापारान्यतरा
"Aho Shrutgyanam"